सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 124, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 124

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता १०७
तथाहि—
एकस्मिन्नेव¹ देहे तु विभेदात्परमाणुगात्² ॥ ९६ ॥
एकत्वाच्छिद्वरूपस्य दोषोऽयं भेदवादिनाम् ।
एकस्मिन्नेव देहे यावन्तः परमाणवस्तावन्तः शिवा इत्येवं परमाणु-
गादपि विभेदाद्विभेदः स्यादित्यानन्त्यप्रतिपादनमित्येषोऽपि न दोषः, ये
बहवः परमाणवादिपदार्थास्त एकशिवरूपा इति कथं बहुत्वम् । न हि शिवो
घटादिरूपः, अपि तु घटादिः शिवरूपः । ततश्चिद्रूपस्य देशकालस्वभाव-
भेदाभावान्न भेदः । एतदीश्वरप्रत्यभिज्ञायां प्रदर्शितम् । यैः³ पुनरणुभेदवादो
गृहीतस्तेषां चाणूनां स्वभावान्छिद्वता । सा च मलावृता । ततस्तेषामत्रोक्त-
ज्ञानवशाद्यदि शिवत्वव्यक्तिस्ततो भिन्नाः शिवाः । ते च देहस्थास्तन्मयत्वे
चाणूनां देहपरमाणव एव किमिति शिवाणवो न भवन्तीति भिन्नपरमाणुवादो
न चित्तत्त्वस्य, ततस्तेषामेवायं दोषः ॥
१ अत्रैके—'यद्यत्किंचन प्रतिभाति, तत्तत्सर्वं शिवः' इति
विलोमव्याप्तिं विदधते । तथाहि यद्यदिति अनेकं नानाविधं भिन्नं
भिन्नमर्थजातं, तत्तत्सर्वं शिव एवेति यद्यपि शिवाद्धयमेव, तथापि
तेषां बहुत्वानिङ्गत्वान्द्बहूनि भिन्नानि शिवान्यपि संभवन्तीति तत्
दूषयति एकस्मिन्निति । २ विभेदात्परमाणुगादित्यत्र द्विधा गतिः ।
न्यायबाहुल्यं चान्यत्र । अत्र तावदेके ब्रुवन्ति—यथा प्रतीयतेऽयं बाह्यो
निराकारेण साकारेण वा ज्ञानेन नैकानेकरूपतया सावयवः, तथा अयुक्तः
एकत्वानेकत्वयोः परस्परपरिहारेणावस्थानादेकाश्रयत्वायोगात् । तस्मा-
न्निरवयव एक एवावयवी बाह्यो देवदत्तप्रतीतिविषयः, अवयवास्तु पृथ-
क्प्रतीत्या हस्तः पाद इति पृथग्भूताः प्रतीयन्ते, न त्वेकत्वानेकत्वयोरनेका-
श्रयतेति अवयववादिन आहुः । ३ अत्राहुरपरे—तदेतदयुक्तं हस्ते चलति
चलतो देवदत्तस्य, पादादिषु वा चलत्सु चलतश्चलत्वाचलत्वलक्षणविरुद्ध-
धर्मयोगः स्यादेकस्य । न चैतद्युक्तं तावन्मात्रलक्षणत्वादनेकत्वस्य ।
प्रत्यवयवं च सर्वात्मना युगपत्समवेतेऽनेकत्वं स्यात् एकावयवापाये च नाशः
स्यात् । अवयवान्तरावस्थानादनष्टस्यापि पर्यायेणैकावयवापायाविनाशिनः
सर्वावयवापायेऽपि अविनाशः स्यात्, तस्मात्परमाणव एव निरवयवाः
संचिता इति परमाणुसंचयवादिनः ।