शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 126, कुल 188 में से
संदर्भ में पढ़ेंअथ
चतुर्थमाह्निकम्
परोद्भावनीयदूषणशङ्कानिराकरणे¹ कृते सर्वशिवत्वमिदानीं²
स्वरूपेणोपपादयितुमाह³--
१ उद्भावनीयः प्रकटनीयः। २ सर्वं च तच्छिवत्वम्। ३ युक्त्या
संपादयितुम्। यदुक्तं--
'आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्विभुः।
अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः॥'
इति यद्यपि सर्वथा मुख्यतो निष्पाद्यं, तथापि परवादिकुतर्कपांसुपातधूसरो-
भावेन मा तावत् कश्चिद्व्यामुह्येदिति परवादिकुतर्कपांसुरेव तावत् सुतर्क-
सुगन्धशीतलामृतेन प्रहतः। तथाहि सर्वत्रैवात्र वादिनां विप्रतिपत्तिः।
आदौ तावच्छान्तब्रह्मवादिनां सर्वभागेष्वत्र विरोधः। यदि ब्रह्मणः स्व-
स्वभावभूतं स्वसत्तात्मकं स्वप्रकाशत्वं नाम प्रत्यवमर्शनं, तच्च तैर्विकल्प-
पक्षे निक्षिप्तम्। विश्वप्रक्रियां प्रति मायाशक्तिप्रस्रवात्स्वातन्त्र्यमप्यपह्नुत-
मेव। तथा च तस्य मायामयत्वेन कुत्सितत्वात् कथं तत्रात्मत्वमित्य-
पीष्टमेव तेषां नेतिनेतिवाक्यैः सर्वस्य निराकरणात्। तस्य विश्वस्य
कुत्सितत्वकथनात्कथमस्य तत्रानिरुद्धेच्छत्वं, ज्ञानकाले च बुद्धिवृत्त्यात्मनो
ज्ञानस्याश्रयणात्कथं प्रसरज्ज्ञानत्वम्। क्रिया च प्राणस्पन्दात्मिकैवेति कथं
तत्र स्यादिति। सर्वथापह्नव एव शून्यवादिनाम्। पातञ्जलवैशेषिकादिमते
यद्यपि ईश्वरतत्त्वमुपगतं, तथापि भेदवादत्वादात्मैवेति कथं सिद्ध्येत्।
सांख्यादौ पुरुषस्य निष्क्रियत्वे कथं क्रियाशक्त्युपगमः। बौद्धादीनां
क्षणिकत्वात्कथं विभुत्वनित्यत्वे। शब्दब्रह्मवादे स्वातन्त्र्यापगमादविद्याश्रय-
णात्कथमनिरुद्धेच्छत्वं सिद्धयतीति सर्वथा तद्वादभङ्गे शिवाद्द्वयवादे स्थिते
यथा तत्सिद्धमेव प्रतीतिगोचरतामेति, तथा कथनीयमित्याह परोद्भाव-
नीयेति।