सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

वामभागः (Left Column)

विषयः. पृष्ठम्.
अष्टाश्रकुण्डम् १९५
स्रुवलक्षणम् ,,
जुहूलक्षणम् १९६
महास्रुगलक्षणम् ,,
भद्रकलक्षणम् ,,
चक्राब्जलक्षणम् १९८
शक्तिदण्डलक्षणम् १९९
षड्दललक्षणम् ,,
स्वस्तिकभद्रम् २००
प्रतिष्ठास्थाननियमादिः ,,
पीठप्रतिष्ठापूर्विका बिम्बप्रतिष्ठा २०२
एकोनत्रिंशोऽध्यायः ।
जीर्णोद्धारप्रकरणम् २०३—२०७
जीर्णोद्धारोद्देशः २०३
बालालग्विधानम् ,,
निष्कासणं सङ्कोचनं च २०४
जीर्णोद्धारे यथासम्भवं पूर्ववत् कल्पनम् २०५
त्रिंशोऽध्यायः ।
लिङ्गप्रासादकरणम् २०७—२०९
एकत्रिंशोऽध्यायः ।
मनुष्यालयलक्षणम् २०९—२२६
प्रकृताध्यायप्रमेयनिर्देशः २०९
द्विजादिवर्णानां वेदिविस्ताराया-
मादिविधानम् २१०
वृतिवप्रादिविधिः २११
सूत्रवीथ्यादिनिर्णयः २१२
योन्यादयः २१३
त्रिशालविधानम् २१४
द्विशालविधानम् २१५
चतुःशालविधानम् ,,
शालाभेदाः २१६
द्वारविधानम् ,,


दक्षिणभागः (Right Column)

विषयः. पृष्ठम्.
उपगृहविधिः २१७
द्वारमानम् ,,
अन्यथा चतुश्शालविधानम् २१८
प्रकारान्तरेण षोडश गेहानि २१९
स्तम्भसंख्याप्रमाणतो बहुविधनृप-
गेहविधिः २२०
तेषामुपगृहविधानम् २२२
वास्तुबलिः २२३
राज्ञां गृहप्रवेशः २२५
द्वात्रिंशोऽध्यायः ।
कूपप्रश्नविधानम् २२६—२२८
त्रयस्त्रिंशोऽध्यायः ।
आसनादिपरिच्छदलक्षणम् २२८--२४४
आसनविधिः २२८
व्यजनम् २२९
छत्रम् २३०
पर्यङ्कः २३१
पञ्च वाहनानि २३३
तत्र डोला ,,
सुखासनम् ,,
रथः २३४
नौः ,,
प्लवकः ,,
शयनसाधनम् २३५
अष्टविधा शय्या ,,
तत्र दन्ताङ्घ्रिर्नाम मञ्चः २३६
लोहचरणः ,,
अष्टपदमयः ,,
अचलः ,,
चलः ,,
वेत्रकः ,,
पट्टिकामयः ,,
डोलाख्यः ,,

७
विषयः. पृष्ठम्. विषयः. पृष्ठम्.
मञ्चोपधानविधानम् २३७ दारुखण्डिमूल्यज्ञानम् २४४
पादुकम् ,, क्रकचवेतनम् २४५
कुडुबादिमानसाधनम् ,, शिलादारणश्लक्ष्णीकरणादीनां वेतनम् ,,
उलूखलादि २३८ बिम्बादिनिर्माणे वेतनम् २४६
तुला २३९ लोहभूषादिक्रियाया वेतनम् ,,
तैलद्रोणिः ,,
जलयन्त्रम् ,, पञ्चत्रिंशोऽध्यायः ।
इक्षुयन्त्रम् २४१ शस्त्रलक्षणम् २४७—२५१
नाडीयन्त्रम् २४२
स्वर्णकीलम् २४३ शस्त्रप्रश्नः २४७
चतुस्त्रिंशोऽध्यायः । धनुर्लक्षणम् २५०
कर्मकारवेतनक्रमः २४४—२४६ ग्रन्थसमाप्तिः २५१

The provided image is completely blank and contains no text to transcribe. Please upload an image with visible content.

॥ श्रीः ॥
श्रीकुमारप्रणीतं
शिल्परत्नम् ।
(उत्तरभागः ।)
अनन्तकोटिब्रह्माण्डेष्वखिलेष्वाततः क्रमात् ।
निःशेषविश्वकर्ता यः स जीयान्मधुसूदनः ॥ १ ॥
अथ बिम्बादिपीठादिकुण्डमण्डलकादिकम् ।
मानुषाणां चतुश्शालाद्यखिलं वक्तुमारभे ॥ २ ॥
तत्र पूर्वं शिलादिबिम्बसाधनम् ।
एवं कृत्वा मन्दिरं मन्मथारेः
सार्धं दक्षैः शिल्पिभिः शस्त्रहस्तैः ।
आचार्योऽसौ शुक्लपक्षे मुहूर्ते
शुद्धे विप्रान् भोजयित्वा यथार्हम् ॥ ३ ॥
संपूज्य वस्त्रैः स्थपतींश्च दक्षा-
नाराध्य देवं प्रणिपत्य भूयः ।
कृत्वास्त्रयागं परिपूज्य शस्त्रा-
ण्यस्त्रेण लिङ्गार्थमभिप्रयच्छेत् ॥ ४ ॥
परीक्ष्य पूर्वाभिमुखो निमित्तं
गच्छेन्निमित्तेऽथ शुभे प्रदिष्टे ।
G. P. T. 1254. 500. 8-11-1103 B

नीत्वा च मासं शकुनेऽशुभे चेत्
कृत्वा तदानीं शुभकर्म गच्छेत् ॥ ५ ॥
ज्वलदग्निप्रभं दीपं नृपा वेश्याश्च कन्यकाः ।
पुष्पान्नपूर्णकुम्भाज्यशङ्खक्षीरदधीनि च ॥ ६ ॥
व्रीहयः शालयो मांसं मधुच्छत्रं च चामरम् ।
मङ्गल्यो योषितो राजा ध्वजः पूर्णधनूंषि च ॥ ७ ॥
क्षीरिणी गौस्तुरङ्गाश्च दृश्यन्तेऽभिमुखं यदा ।
यातुदिष्टार्थसिद्ध्यै स्यात् सुतरां तत् प्रदक्षिणम् ॥ ८ ॥
गौलिकावायसरुतं प्रयाणे वामतः शुभम् ।
प्रवेशे दक्षिणे शस्तं क्षुतं ह्यादावश grand/obhanan? ह्यादावशोभनम् ॥ ९ ॥
अन्यत्र पृष्ठे वामे च शस्तं नॄणां च कूजितम् ।
स्यात्तांसि(?) भरटादीनां वामे शस्तं तु दक्षिणे ॥
गानं च दिशि शान्तायां पिङ्गलानां द्वयं हितम् ।
सृगालवायसौ व्याघ्राश्चकोरश्च कपोतिका ॥ ११ ॥
वामाद् दक्षिणगाः शस्ताः फणी सर्वत्र निन्दितः ।
शशकौशिकगृध्राश्च श्येनाश्च मृगडुण्डुभाः ॥ १२ ॥
दक्षिणाद् वामगाः शस्ताः शुभा वाचः शुभप्रदाः ।
बालेयगोध्वनिर्वामे गतिर्दक्षिणतः शुभा ॥ १३ ॥
अशनिर्दुर्दिनं² वर्षं³ प्रतिकूलास्तथा गिरः ।
प्रतिकूलं गुरोर्वाक्यं कलहश्चेति निन्दिताः ॥ १४ ॥
ताडनं शिरसोऽङ्गानां दक्षिणाङ्घ्रेर्विशेषतः ।
वर्णवाहनवेषाणां मनःशस्त्रादिशामपि ॥ १५ ॥


१ 'त्ता' ग. पाठः. २. 'दीर्विनं' ख. पाठः. ३. 'गौ' ख. ग. पाठः.

बिम्बादिसाधनविधिः । ] प्रथमोऽध्यायः । ३
अप्रसादोऽथ दिग्दाहपरिवेषाः शिवारुतम् ।
चन्द्रसूर्योपरागोल्काभूकम्पेन्द्रधनूंषि च ॥ १६ ॥
वृक्षध्वजायुधच्छत्रयानभङ्गा विनिन्दिताः ।
चक्रिक्षपणनग्नाश्च मुण्डितामङ्गलाङ्गनाः ॥ १७ ॥
विप्रास्तपस्विनो व्रात्या यतयो वामनादयः ।
विकला जालिकाः सूनाः पाषण्डा दण्डपाणयः ॥ १८ ॥
कापालिकाः काष्ठधरा मुक्तकेशाश्च दुःखिनः ।
आर्द्रवस्त्राश्च निन्द्याः स्युर्दृष्टाः प्रतिमुखागताः ॥ १९ ॥
अद्भुतेषु निमित्तेषु मासं नीत्वा शुभे व्रजेत् ।
शिलामयं मणिमयं लौहं दारुमयं तथा ॥ २० ॥
मृन्मयं मिश्रकं लेख्यं बिम्बं सप्तविधं स्मृतम् ।
तेषामभिमतं द्रव्यं शिलाद्यं बहुशिक्षितम् ॥ २१ ॥
गत्वान्विष्यानयेत् तत्तदुचितं लक्षणान्वितम् ।
ब्राह्मणक्षत्रविट्छूद्रशिलाः स्युर्धवलारुणाः ॥ २२ ॥
पीताः कृष्णाश्च लिङ्गानि कुर्यात् ताभिर्यथाक्रमम् ।
सर्वेषामथवा सर्वाः शिलाः स्युरिति केचन ॥ २३ ॥
मुक्तिं जयं धनं धान्यं दद्युः शुक्लादिकाः शिलाः ।
उद्धृत्य संस्थिता तत्र (याह ? यां दि)शं वीक्षते शिला ॥
तामेव प्रतिमां गेहे पश्यन्तीं स्थापयेद् दिशम् ।
बिम्बार्थं पुंशिला ग्राह्या पीठार्थं स्त्रीशिला तथा ॥ २५ ॥
नपुंसकशिला पादशिलार्थमखिले मता ।
यथोचितां शिलां दृष्ट्वा बलिं दत्त्वा यथाविधि ॥ २६ ॥

The provided image is completely blank and contains no visible text or content to transcribe. Please upload a clear image of the page.

बिम्बादिसाधनविधिः ।] प्रथमोऽध्यायः । ५
तुषारत्रासरन्ध्राणि यत्नाद् रत्नेषु वर्जयेत् ।
रेखा बिन्दुः कलङ्कं च त्रासः काकपदं क्षतम् ॥ ३६ ॥
खद्योतो मक्षिका छायाभेदाः सन्धेतुषारके ।
निम्नमस्तकता चेति दोषा रत्नभवास्तथा ॥ ३७ ॥
स्त्रीपुंनपुंसकभिदा न स्याद् रत्नेषु सर्वतः ।
अथ लोहम् ।
सौवर्णं राजतं ताम्रं पैत्तलं कांस्यमायसम् ॥ ३८ ॥
सैसकं त्रापुषं चेति लौहं बिम्बं तथाष्टधा ।
मुक्तिमुक्तिप्रदं हैमं लिङ्गं रौप्यं तु पुष्टिदम् ॥ ३९ ॥
ताम्रजं पुत्रदं विद्यात् तथैव स्यात् तु पैत्तलम् ।
आयुरारोग्यदं कांस्यमायसं मारणं स्मृतम् ॥ ४० ॥
सैसकं त्रापुषं चापि विद्वेषोच्चाटनादिषु।
मुख्यलोहानि चत्वारि हेमादीनि शुभानि हि ॥ ४१ ॥
पिशाचलोहान्यन्यानि कांस्यादीनीति केचन ।
अथ दारुः ।
चन्दनं देवदारुश्च शमीपिप्पलशिंशपाः ॥ ४२ ॥
खदिरासनमालूरमधूका बकुलस्तथा ।
पद्मकं कर्णिकारं च विप्रादीनां त्रयं त्रयम् ॥ ४३ ॥
क्रमाद् दारुलिङ्गानां विज्ञेयास्तरवः शुभाः ।
अथ मृद्ः ।
तीर्थक्षेत्राचलारामपुण्यदेशोद्भवां मृदम् ॥ ४४ ॥
१. ‘न्ति’ ख. ग. पाठः.

शिल्परत्ने [उत्तरभागः
शुक्लां रक्तां तथा पीतां कृष्णामादाय चूर्णयेत् ।
यवगोधूममाषाणां चूर्णानां गुग्गुलोरपि ॥ ४५ ॥
लाक्षाश्रीवेष्टकश्यामामार्जानां च समांशकैः ।
कुन्दुरिकस्य चांशेन मृच्चूर्णं सर्वसम्मतम् ॥ ४६ ॥
कपिलापञ्चगव्येन सतैलेन तु मर्दयेत् ।
तां मृदं मर्दितां पक्षं मासमात्रोषितां पुनः ॥ ४७ ॥
गृहीत्वा कारयेल्लिङ्गं सपीठं लक्षणान्वितम् ।
मासं तु शोषयेद् घर्मे बिम्बभामं तु मार्त्तिकम् ॥ ४८ ॥
अथवा केवलां मृत्स्नां कर्मयोग्यां विचूर्णिताम् ।
मर्दितां पञ्चगव्याद्भिर्मासमात्रं तथोषिताम् ॥ ४९ ॥
गृहीत्वा कारयेल्लिङ्गं सपीठं त्विष्टमानतः ।
विपचेत् कुशलैरग्नौ पक्वलिङ्गं तु तद् भवेत् ॥ ५० ॥
कृत्वा दारुमयं शूलं लोहपट्टविभूषितम् ।
मृदा विधिवदालिप्य शोषयेन्मिश्रलिङ्गकम् ॥ ५१ ॥
भित्त्यादावालिखेद् वर्णैर्लेख्यबिम्बं यथोदितम् ।
मृन्मयं वार्क्षिकं बिम्बं सर्वसिद्धिप्रदं सदा ॥ ५२ ॥
मृन्मये हेमरत्नानि मध्ये संस्थाप्य कारयेत् ।
सैकतं गोमयं पैष्टमान्नं गौलं फलात्मकम् ॥ ५३ ॥
नावनीतं च लिङ्गानि त्यज्यतां प्रतिवासरम् ।
नैतेषां पीठिका कार्या कुर्याल्लिङ्गं तदासने ॥ ५४ ॥
नैषां त्रिखण्डमानं वा न, शिरोवर्तनादिकम् ।
नैषां कालं मुहूर्ताद्यं नाधिवासादिकाः क्रियाः ॥ ५५ ॥

लिङ्गलक्षणम् । ] द्वितीयोऽध्यायः । १७
निर्माय सद्यस्तल्लिङ्गे शिवमावाह्य पूजयेत् ।
विसृज्य निरपेक्षं तल्लिङ्गमप्सु विनिक्षिपेत् ॥ ५६ ॥
अथ पीठम् ।
स्वयोनिः पीठिकैव स्याच्छैलादीनामदूषणा ।
अभावे त्वैष्टकी शैले रत्नजानां हिरण्मयी ॥ ५७ ॥
राजती ताम्रजा वा स्याच्छ्रेष्ठमध्याधमक्रमात् ।
न्यूनैर्वा परलोहानामिष्टकाभिश्च दारवे ॥ ५८ ॥
इति शिल्परत्नेऽन्त्यभागे बिम्बादिसाधनविधिर्नाम
प्रथमोऽध्यायः ॥
अथ द्वितीयोऽध्यायः ।
अथ लिङ्गलक्षणम् ।
सुखासनं तु प्रथमं स्कन्दोमासहितं ततः ।
तृतीयं चन्द्रमूर्धानं चतुर्थं वृषवाहनम् ॥ १ ॥
पञ्चमं नृत्तमूर्तिस्तु गङ्गाधरमतः परम् ।
सप्तमं त्रिपुरारिः स्यात् ततः कल्याणसुन्दरम् ॥ २ ॥
अर्धनारीश्वरं पश्चाद् दशमं गजहा तथा ।
एकादशं पाशुपतं कङ्कालं द्वादशं स्मृतम् ॥ ३ ॥
अर्धनारायणं पश्चाद् भिक्षाटनमतः परम् ।
चण्डेश्वरप्रसादं तु दक्षिणामूर्तिरेव च ॥ ४ ॥
ततः कालारिमूर्तिश्च लिङ्गमष्टादशं स्मृतम् ।
एवं लिङ्गोद्भवं पूर्वैः प्रोक्तं शैवपरायणैः ॥ ५ ॥
१. 'दि' ग. पाठः.

८ शिल्परत्ने [उत्तरभागः
अथ बिम्बं तु त्रिविधं निष्कलं सकलं तथा ।
मिश्रं चेति च तद् बिम्बमचलं च चलं तथा ॥ ६ ॥
चलाचलमिति त्रेधा तत्प्रपञ्चः प्रदर्श्यते ।
निष्कलं केवलं लिङ्गमन्त्यस्त्ववयवान्वितम् ॥ ७ ॥
तदेव चित्रमर्धाङ्गदर्शनं त्वर्धचित्रकम् ।
चित्राभासं तथा लेख्यमुत्तमादिक्रमेण तु ॥ ८ ॥
सकलं त्रिविधं ज्ञेयं मिश्रलक्षणलक्षितम् ।
मिश्राख्यं मुखलिङ्गं स्यादचलादिकमुच्यते ॥ ९ ॥
निधिकुम्भप्रतिष्ठादि सर्वमुक्तानुसारतः ।
कृत्वा प्रतिष्ठितं बिम्बमचलं परिकीर्तितम् ॥ १० ॥
पीठिकोपरि संस्थाप्य पूजितं चलमेव हि ।
सौधं च पार्थिवं शैलं सङ्करं त्वचलं शुभम् ॥ ११ ॥
रत्नजं दारुजं लौहं त्रयं चैतच्चलं शुभम् ।
धातुवर्णादिभिर्लेख्यं पटादौ तच्चलाचलम् ॥ १२ ॥
लिङ्गं गर्भगृहद्वारस्तम्भाधिष्ठानकिष्कुभिः ।
तालमानाङ्गुलैश्चापि तथा मात्राङ्गुलैरपि ॥ १३ ॥
यजमानोच्चमानेन चैवं नवविधं स्मृतम् ।
गर्भब्यासे विभक्ते स्मरशरनवनेत्रैस्त्रिपञ्चैकभागै-
र्लिङ्गानि त्रीणि तेषु त्रिषु गुणदलितेष्वेकभागैर्द्विभागैः ।
द्वे द्वे तानि स्युरेवं नव चरणयुतं तत्समं पादहीनं
द्वाराद् द्व्येकांशकाभ्यामपि गुणदलिते तत्र पञ्चेतराणि
॥ १४ ॥

लिङ्गलक्षणम् ।] द्वितीयोऽध्यायः । ९
प्रासादमानाच्च तथा वेदबाणर्तुभागतः ॥ १५ ॥
लिङ्गायामोऽथवा कार्यः प्रकारोऽन्यश्च कथ्यते ।
गर्भगेहविशालार्धं लिङ्गायामं प्रकल्पयेत् ॥ १६ ॥
द्वाराधिष्ठानपादानां समं पादाधिकं तु वा ।
पादहीनमथैतेषां तन्मध्येऽब्धिविभाजिते ॥ १७ ॥
पृथक्कृत्वा तत्तदंशैः स्यान्मानं नवधा स्मृतम् ।
लिङ्गानि सायककरादिपदोनिताश्वि-
हस्तान्तिमानि चरणांशवियुक्तक्लृप्त्या ।
स्युर्वर्णिनां मुखभुजोरुपदोद्भवानां
पञ्चाग्निपावकजगतपरिसङ्ख्यकानि ॥ १८ ॥
अङ्घ्यंशकक्रमकृतह्रसनेन भूयो
द्वे चैकमप्यनुविलोमकुलोत्थयोः स्युः ।
तान्युत्तरोत्तरकुलप्रभवेषु चानु-
लोम्यात् प्रकल्पयतु चैककरादिकानि ॥ १९ ॥
आरभ्य हस्तं नवहस्तकान्तं
लिङ्गं विधेयं नरदैत्यदेवैः ।
हस्तादिकं पञ्चकरान्तमादौ
लिङ्गं मनुष्यस्य विभिन्नवर्णम् ॥ २० ॥
दैत्यस्य षट्सप्तकरं च लिङ्गं
गीर्वाणलिङ्गं च नवाष्टहस्तम् ।
देवादियोन्यष्टकभेदकानि
लिङ्गानि सन्त्यत्र न वर्णितानि ॥ २१ ॥
C

१० शिल्परत्ने [उत्तरभाग
हस्तोच्चमानादारभ्य पादवृद्धिक्रमेण तु ॥ २२ ॥
त्रिहस्तान्तं कनिष्ठानि लिङ्गानि स्युर्नवैव हि ।
चतुर्हस्तायताल्लिङ्गात् प्राग्वत् पादविवर्धनात् ॥ २३ ।
षड्ढस्तान्तं मध्यमानि लिङ्गानि नव कल्पयेत् ।
सप्तहस्तोच्चमारभ्य पादवृद्ध्या तु पूर्ववत् ॥ २४ ॥
श्रेष्ठानि नव लिङ्गानां त्रयस्त्रिंशदुदाहृतम् ।
तालादिनवतालान्तं तालमानेन कीर्तितम् ॥ २५ ॥
पूजांशोच्चे चतुर्विंशत्याधिक्यशतभाजिते ।
मूललिङ्गेऽङ्गुलं कृत्वा तालमानं प्रकल्पयेत् ॥ २६ ॥
एकाङ्गुलादिद्वियववर्धनेनानलाङ्गुलात् ।
कनिष्ठनवलिङ्गानि तथा वेदाङ्गुलादितः ॥ २७॥
मध्यानि नव लिङ्गानि तथैवाङ्गाङ्गुलान्ततः ।
सप्ताङ्गुलादिद्वियववर्धनेना नवाङ्गुलात् ॥ २८ ॥
श्रेष्ठानि नव लिङ्गानि रत्नजानि विशेषतः ।
कनिष्ठमध्यलिङ्गानि रत्नजातानि सर्वतः ॥ २९ ॥
चलानि गेहे पूज्यानि स्थिराण्येवोत्तमानि हि ।
तान्यालये प्रतिष्ठाप्य स्थिरलिङ्गानि पूजयेत् ॥ ३० ॥
रामाङ्गुलादितो लौहं लिङ्गमा षोडशाङ्गुलात् ।
चललिङ्गं स्मृतं तस्मात् स्थिराण्यूर्ध्वं भवन्ति हि ॥ ३१ ॥
मधूच्छिष्टेन निर्माय सकलं निष्कलं तु वा ।
बद्ध्वा मृदा दृढं शुष्के¹मधूच्छिष्टं² बहिः सृजेत् ॥ ३२ ॥
१. 'प्के', २. 'हिस्त्यजेत्' ख. पाठः.

लिङ्गलक्षणम् ।] द्वितीयोऽध्यायः । ११
तत्र लोहार्द्रमापूर्य कारयेल्लोहमुत्तमम् ।
अथ तत्प्रक्रियां वक्ष्ये कर्मकारहिताय तु ॥ ३३ ॥
कठिना मन्दकठिना मृद्वी मृदुतरा तथा ।
मूषाकरणयोग्येति पञ्चधा मृत्तिका स्मृता ॥ ३४ ॥
पूर्वोक्तां नाकुजां वाथ मृत्स्नामादाय यत्नतः ।
मृल्लोष्टचूर्णसंयुक्तां यथायुक्ति विमर्दयेत् ॥ ३५ ॥
शुद्धाम्भसा पूगचर्मसारं युक्त्या सुयोजयेत् ।
कारयेत् कठिनामेवं शिलामुसलताडिताम् ॥ ३६ ॥
तस्मिन् गोमयसंयुक्ते स्यान्मन्दकठिना पुनः ।
मृद्भाण्डचूर्णसंयुक्तां तत्पादांशकमृत्तिकाम् ॥ ३७ ॥
पेषण्यां पेषयेद् यां सा मृद्वीति कथिता पुरा ।
तदेव गोमययुता मृत्स्ना मृदुतरा स्मृता ॥ ३८ ॥
तुषाद्यङ्गारचूर्णेन संयुक्ता घटमृत्तिका ।
कार्पासपटचूर्णेन समं मुसलपीडिता ॥ ३९ ॥
एषा मूषामृदाख्याता कर्तव्या सानया दृढम् ।
यत्किञ्चिदीप्सितं तन्तु किञ्चिन्न्यूनप्रमाणतः ॥ ४० ॥
कृत्वा द्वितीयया शुष्के तद्दृष्ट्वा लिप्त्वा पुनः पुनः ।
अन्ते गोमयसारेण लिप्त्वा श्लक्ष्णीकृते पुनः ॥ ४१ ॥
कृत्वा तस्मिन् मधूच्छिष्टपट्टं युक्तघनान्वितम् ।
इष्टप्रमाणं१ तत् सर्वं कृत्वा तेन सलक्षणम् ॥ ४२ ॥
भूषणादीनि सर्वाणि मधूच्छिष्टस्य तन्तुना ।
कृत्वा तिन्त्रिणिसारेण वेणुसारेण वा तथा ॥ ४३ ॥
१. 'णात् त' ख. ग. पाठः.

१२ शिल्परत्ने [उत्तरभागे
कृतेन युक्तशखेन सुस्निग्धं कारयेदथ ।
पुनर्विलेपयेन्मृत्स्नामाद्रां मृदुतरां क्रमात् ॥ ४४ ॥
शुष्के तस्मिन् पुनर्लिप्त्वा मृद्व्या संशोषयेत् पुनः ।
कठिनेन पुनस्तत्र कृष्णायसपटादिभिः ॥ ४५ ॥
बद्ध्वा यथाबलं पश्चात् कठिनेन विलेपयेत् ।
आवृत्त्या लेपयेत् तेन यथातोषं यथाबलम् ॥ ४६ ॥
अप्रधानावयवस्थाने स्याल्लोहपद्धतिः ।
एवं शुष्के पुनर्यन्त्रवशादातप्य वह्निना ॥ ४७ ॥
मधूच्छिष्टं बहिस्त्यक्त्वा तं दहेत् काष्ठवेष्टितम् ।
यदा कूष्माण्डपुष्पाभं वर्णमन्तर्गतं पुनः ॥ ४८ ॥
लोहमार्गादिरन्ध्रेण दृश्यते तत् तदैव हि ।
अवरुह्य भुवः श्वभ्रे विन्यस्योर्ध्वमुखं यथा ॥ ४९ ॥
मूषायामार्द्रितं लोहं शीघ्रमादाय यत्नतः ।
निक्षिप्य तन्मुखे मन्दमन्तर्भागं सुपूरयेत् ॥ ५० ॥
पांसुना बहिराच्छाद्य कालाच्छीतलिते पुनः ।
तीक्ष्णायसकृतैः शस्त्रैर्मृदं त्यक्त्वा सुधीः क्रमात् ॥ ५१ ॥
सुलक्षणं कारयेत् तैस्तैरुचितैः शस्त्रभेदकैः ।
एवं तत्कर्मकुशलैर्लोहजं कारयेद् बुधः ॥ ५२ ॥
घनं चेल्लोहजं बिम्बं मधूच्छिष्टेन केवलः ।
कृत्वा मृल्लेपनादीनि पूर्ववत् क्रमतश्चरेत् ॥ ५३ ॥
पुनरपि बिम्बोन्मानमाह —
अष्टाङ्गुलं समारभ्य (द्विद्य ? चाष्ट)ङ्गुलविवर्धनात् ।

लिङ्गलक्षणम् ।] द्वितीयोऽध्यायः । १३
लौहानि नव लिङ्गानि त्रिहस्तान्तानि कल्पयेत् ॥ ५४ ॥
तथाष्टाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् ।
त्रिहस्तान्तानि लिङ्गानि त्रयस्त्रिंशद् भवन्ति हि ॥ ५५ ॥
षोडशाङ्गुलमारभ्य दारुलिङ्गान्यनुक्रमात् ।
षोडशाङ्गुलवृद्ध्या स्युः षड्ढस्तान्तानि वै नव ॥ ५६ ॥
षोडशाङ्गुलमारभ्य चतुरङ्गुलवर्धनात् ।
दारवाणि त्रयस्त्रिंशल्लिङ्गान्य रसहस्ततः ॥ ५७ ॥
यस्य यस्मिन् भवेदास्था विभूतिर्यस्य यादृशी ।
लिङ्गं तदनुसारेण कारयेदालयोचितम् ॥ ५८ ॥
कारयेदेवमेवात्र लिङ्गं मात्राङ्गुलैरपि ।
यजमानसमं तस्य नेत्रास्यहनुदोःसमम् ॥ ५९ ॥
स्तनान्तं हृदयान्तं च लिङ्गोच्चमिति सप्तधा ।
तत्रैकहस्तलिङ्गस्य चतुर्हस्तं तु विस्तृतम् ॥ ६० ॥
विमानं स्यात् तथा पञ्चगुणं षड्गुणमेव वा ।
विस्तारद्विगुणोच्चं तु नागरं त्रिगुणं यदि ॥ ६१ ॥
भूमिजाख्यं स्मृतं तस्माद् द्विगुणं शिखरं यदा ।
नागरं वलभिर्नाम विमानं भवति स्फुटम् ॥ ६२ ॥
लिङ्गायामे विकारांशे भूतवेदाग्निविस्तरम् ।
जयदं पौष्टिकं सार्वकामिकं द्राविडे भवेत् ॥ ६३ ॥
अभिकृत्यंशके गर्भे षोडशांशं तदुत्तमम् ।
त्रयोदशांशमधमं तयोर्मध्येऽष्टभाजिते ॥ ६४ ॥
नव लिङ्गानि सिध्यन्ति बेसरे तानि कल्पयेत् ।
१. 'म' ग. पाठः.

१४ शिल्परत्ने [उत्तरभागे
पञ्चपञ्चांशके दैर्घ्ये वसुसप्तषडंशकैः ॥ ६५ ॥
विस्तारं वेसरे विद्यात् पूर्ववज्जयदादिकम् ।
लिङ्गं सर्वसमं समोन्मितिविभक्तांशत्रयं तत् पुनः
स्वायत्या समनाहकं यदि समांशं चाथ वृद्ध्युत्तरम् ।
भक्ते भानुयुजोच्छ्रयेऽद्रिवसुनन्दांशैस्तु मूलादिष्व-
पेतं दिग्दलिते त्रिलोकयुगसङ्ख्यातैस्तथेशाधिकम् ॥ ६६ ॥
आयामे दलिते दिवाकरयुजाभीष्टेऽष्टभिर्विस्तृतिः
कार्यांशैरपि पञ्चपञ्चयवयुक्तैः सप्तभिः पञ्चभिः ।
स्वायामार्कयुगांशकद्विरसनांशः स्याद् यवः केवलैः
पञ्चांशैरपि गर्भगेहनवमांशेनापि सा स्मर्यते ॥ ६७ ॥
मार्ताण्डद्वयभागभक्तमखिलं लिङ्गं विधायांशकै-
रष्टाभिर्यवपञ्चयुक्तमुनिभिः सार्धं यवैः पञ्चभिः ।
भूतैः पञ्चभिरेव वर्णविहितैर्विप्रादितो विस्तृतिः
कुर्यात् सर्वसमं समांशविहितं वृद्ध्युत्तरेशाधिके ॥ ६८ ॥
भागैश्चतुर्विंशतिभिः समस्त-
लिङ्गस्य दीर्घं प्रविभज्य सम्यक् ।
विष्कम्भमंशैरथ पञ्चभिश्च
नाहं मितं षोडशभिश्च भागैः ॥ ६९ ॥
आरभ्य षड्भागमतः क्रमेण
पादांशवृद्ध्या नवधा विभागैः ।
वस्वन्तमेतानि नवोदितानि
लिङ्गानि मित्रद्वयभागभक्ते ॥ ७० ॥

लिङ्गलक्षणम् ।] द्वितीयोऽध्यायः । १५
अष्टाष्टार्धनवांशकैर्विभजिते विस्तारमंशद्वयं
श्रेष्ठं मध्यममंशकैस्त्रिभिरतश्चार्धांशवृद्धयोत्तरे ।
भक्ते कन्यकमंशकैस्त्रिभिरतो भक्ते च भागद्वयं
विष्कम्भं पुनरेवमेव नवधा संकल्पयेद् वा क्रमात् ॥ ७१ ॥
रागिदाराक्षनिहतं कृत्वा विष्कम्भमार्जितम् ॥ ७२ ॥
अनूननेत्रवीभक्तं परिणाहं समीपगम् ।
विष्कम्भमानात् त्रिगुणं निधाय
विष्कम्भवस्वंशकतोऽष्टमांशम् ।
विक्षिप्य वा नाहविधिस्तदेक- .
विंशद्भिभागो निहितोऽथवा स्यात् ॥ ७३ ॥
सर्वतोभद्रकं लिङ्गं वर्धमानं शिवाधिकम् ॥ ७४ ॥
स्वस्तिकं च चतुर्धा स्यात् तल्लक्ष्म पृथगुच्यते ।
विप्राणां सर्वतोभद्रं भूभुजां वर्धमानकम् ॥ ७५ ॥
शिवाधिकं विशामिष्टं शूद्राणां स्वस्तिकं मतम् ।
प्रतिलोमानुलोमादिवर्णानामपि स्वस्तिकम् ॥ ७६ ॥
यथोचितातानवितानयुक्तां
शिलां यथोक्तक्रमतोऽभिभज्य ।
मूलं युगाश्रं विदधीत मध्य-
मष्टाश्रकं वृत्तमयं परं च ॥ ७७ ॥
तुर्यश्रे सुसमे प्रसार्य भुजसूत्रं कर्णसूत्राध्वना
तस्यान्ताहितलक्ष्मसु प्रतिदिशं द्वे द्वे भुजासूत्रके ।
१. 'अन्यनेत्रविभ' ग. पाठः.

१६ शिल्परत्ने [उत्तरभागे
कृत्वा तद्द्वयमध्यसंस्थितचतुष्कोणानि संशोध्य सा-
ध्वष्टाश्रं विदधीत वृत्तभपि तद् व्यष्टाश्रकादिक्रमात् ॥ ७८॥
तुर्यश्रेऽष्टाश्रके वृत्ते ब्रह्मा विष्णुः शिवः क्रमात् ।
देवताः सर्वलिङ्गेषु त्रिखण्डेषु विशेषतः ॥ ७९ ॥
कांश्ः पादशिलायां स्याद् विष्ण्वंशः पीठिकासमम् ।
दृश्यः शिवांशः पूज्यः स्यात् सर्वलिङ्गेष्वयं विधिः ॥८०॥
सममाना भवेद् वेदी लिङ्गस्यावारिका यथा ।
पूजांश एव निर्दिष्टो लिङ्गशब्देन चात्र हि ॥ ८१ ॥
वेदाश्रपीठिकायांस्तु लिङ्गे सर्वं समं त्विदम् ।
तल्लिङ्गपरिणाहस्थब्रह्मसूत्रचतुष्टये ॥ ८२ ॥
विस्तारः सम एव स्याच्छायादोषोऽन्यथा भवेत् ।
अ(थो ? तो) लिङ्गसमं पीठं स्याच्छायादोषवर्जितम् ॥८३॥
पीठेषु लिङ्गतुल्या स्यात् परिणाहं तु विस्तृतिः ।
तथा तुङ्गेषु लिङ्गेषु पीठिकाधिकविस्तृतिः ॥ ८४ ॥
अवगम्य शिवांशे तु वर्धयेत् तत्समं यथा ।
यावद् वृद्धं शिवांशे तु ब्रह्मांशे हापयेत् तु तत् ॥ ८५ ॥
तद्वत् स्थूलेषु लिङ्गेषु न्यूनतां पीठविस्तृतेः ।
विज्ञाय पूजाभागं तु कुर्याद्ध्रस्वं तदंशतः ॥८६॥
ब्रह्मांशे वर्धयेद् भागे वृद्धिहानी न वैष्णवे ।
छायादोषो विचार्योऽयं लिङ्गे सर्वसमे स्मृतः ॥ ८७ ॥
१. 'वीथिका' ग. पाठः. २. 'द्रून्मूलेषु लि' ख. ग. पाठः.

लिङ्गलक्षणम् ] द्वितीयोऽध्यायः । १७
वर्धमानादिलिङ्गेषु नैतत् स्यादिति केचन ।
तद्वद् व्यक्तेषु लिङ्गेषु व्यक्ताव्यक्ते च रत्नजे ॥ ८८ ॥
स्वयंभुवि तथा बाणेऽप्यार्षे वा नियमो नहि ।
वर्धमानादिलिङ्गानां त्रयाणमप्ययं विधिः ॥ ८९ ॥
यमसूत्रे तु कथिता छायादोषं विना यथा ।
लिङ्गायतप्रमाणानीत्यादिना पीठविस्तृतिः ॥ ९० ॥
शिवभागसमा कार्या व्याख्यातं सङ्ग्रहे तथा ।
यावल्लिङ्गस्य वै दैर्घ्यं तावत् पीठस्य विस्तृतिः ॥ ९१ ॥
सङ्कृत्यंशे तु लिङ्गोच्चे सप्ताष्टनवाभिः क्रमात् ।
अंशैर्ब्रह्महरीशानभागाः स्युर्वर्धमानके ॥ ९२ ॥
लिङ्गायामे प्रकृत्यंशे षट्सप्ताष्टांशकल्पिताः ।
क्रमाद् ब्रह्मादिभागास्त एवं वा वर्धमानके ॥ ९३ ॥
पञ्चषट्सप्तभागैर्वा चतुष्पञ्चषडंशकैः ।
वर्धमानं भवेल्लिङ्गं श्रेष्ठमध्याधमक्रमात् ॥ ९४ ॥
लिङ्गायामे तु पङ्क्त्यंशे रामाग्निश्रुतिसम्मितैः ।
अंशैर्ब्रह्मादिभागाः स्युः क्रमाल्लिङ्गे शिवाधिके ॥ ९५ ॥
लिङ्गोत्सेधे तु नन्दांशे षट्सप्तवसुभागकैः ।
ब्रह्मविष्ण्वीशभागानां क्रमान्नाहाः प्रकीर्तिताः ॥ ९६ ॥
लिङ्गं त्रैराशिकं नाम भवेत् सर्वसमे तु तत् ।
स्वायामार्धार्धविस्तारं स्वस्तिकं वा शिवाधिकम् ॥ ९७ ॥
वर्धमानं च तल्लिङ्गं नाम्ना सुरगणार्चितम् ।
तत् सार्वदेशिकं ज्ञेयं सर्ववर्णहिताव्हम् ॥ ९८ ॥
D