सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 25, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 25

शिल्परत्ने [उत्तरभागः
शुक्लां रक्तां तथा पीतां कृष्णामादाय चूर्णयेत् ।
यवगोधूममाषाणां चूर्णानां गुग्गुलोरपि ॥ ४५ ॥
लाक्षाश्रीवेष्टकश्यामामार्जानां च समांशकैः ।
कुन्दुरिकस्य चांशेन मृच्चूर्णं सर्वसम्मतम् ॥ ४६ ॥
कपिलापञ्चगव्येन सतैलेन तु मर्दयेत् ।
तां मृदं मर्दितां पक्षं मासमात्रोषितां पुनः ॥ ४७ ॥
गृहीत्वा कारयेल्लिङ्गं सपीठं लक्षणान्वितम् ।
मासं तु शोषयेद् घर्मे बिम्बभामं तु मार्त्तिकम् ॥ ४८ ॥
अथवा केवलां मृत्स्नां कर्मयोग्यां विचूर्णिताम् ।
मर्दितां पञ्चगव्याद्भिर्मासमात्रं तथोषिताम् ॥ ४९ ॥
गृहीत्वा कारयेल्लिङ्गं सपीठं त्विष्टमानतः ।
विपचेत् कुशलैरग्नौ पक्वलिङ्गं तु तद् भवेत् ॥ ५० ॥
कृत्वा दारुमयं शूलं लोहपट्टविभूषितम् ।
मृदा विधिवदालिप्य शोषयेन्मिश्रलिङ्गकम् ॥ ५१ ॥
भित्त्यादावालिखेद् वर्णैर्लेख्यबिम्बं यथोदितम् ।
मृन्मयं वार्क्षिकं बिम्बं सर्वसिद्धिप्रदं सदा ॥ ५२ ॥
मृन्मये हेमरत्नानि मध्ये संस्थाप्य कारयेत् ।
सैकतं गोमयं पैष्टमान्नं गौलं फलात्मकम् ॥ ५३ ॥
नावनीतं च लिङ्गानि त्यज्यतां प्रतिवासरम् ।
नैतेषां पीठिका कार्या कुर्याल्लिङ्गं तदासने ॥ ५४ ॥
नैषां त्रिखण्डमानं वा न, शिरोवर्तनादिकम् ।
नैषां कालं मुहूर्ताद्यं नाधिवासादिकाः क्रियाः ॥ ५५ ॥