सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

११४ शिल्परत्ने [उत्तरभागः
रुद्राङ्गुलविशालं तु तन्नान्वंशै¹गतनम् (?) ।
सुवृत्तं चक्रवृत्तं तु पद्माकृतिरथापि वा ॥ १३३ ॥
शिरश्चक्रविशालस्य सप्तभागैकभागिकम् ।
शिरश्चक्रस्य नालस्य विस्तारं परिकीर्तितम् ॥ १३४ ॥
चक्रतारत्रिभागैकं चक्राद्वा शिरसोऽन्तरम् ।
अग्राल्ललाटपट्टस्य शिरश्चक्रस्य नालकम् ॥ १३५ ॥
गुणाङ्गुले तु कै(ट्यो ? ट्यू) २र्ध्वं चक्रनालस्थितिर्भवेत् ।
चक्राद् गुणांशमालम्ब्य पुष्पमाला तु मध्यमात् ॥१३६॥
सर्वेषामपि देवानां देवीनामेवमाचरेत् ।
अथ भिक्षाटनं वक्ष्ये पादौ पादुकसंयुतौ ॥ १३७ ॥
सुस्थितं वामपादं तु गन्तुं दक्षिणमुद्धृतम् ।
सुविकीर्णजटाभारं जटामण्डलमेव वा ॥ १३८ ॥
विवृतबन्धजटं वाथ उपानद्रहितं तु वा ।
ललाटपट्टसंयुक्तं करोत्वर्धेन्दुशेखरम् ॥ १३९ ॥
सर्वाभरणसंयुक्तं कटिसूत्रविवर्जितम् ।
शुद्धश्वेतनिभं प्रोक्तं नानानागविभूषितम् ॥ १४० ॥
दक्षिणं पूर्वहस्तं तु मृगस्यास्यान्तिकं भवेत् ।
वामे तु पूर्वहस्तं तु सितवस्त्रोत्तरीयकम् ॥ १४१ ॥
श्वेतयज्ञोपवीतं तु कटौ नागेन वेष्टितम् ।
नीलकण्ठं त्रिपुण्ड्राढ्यं पद्मपीठोपरि स्थितम् ॥ १४२ ॥
१. 'शे', २. 'सं', ३. 'को' घ. पाठः.

शैवे दक्षिणामूर्तिः ।] द्वाविंशोऽध्यायः । ११५
कङ्कालमूर्तिवच्छेषं सर्वमत्र विशेषतः ।
चण्डेशानुग्रहं देवमुमास्कन्दवदाचरेत् ॥ १४३ ॥
वामे किञ्चिन्नतं त्वास्यं दक्षिणे त्वभयं विना ।
तद्धस्ते वरदं कार्यं वामे तु कटकं विना ॥ १४४ ॥
चण्डेशमूर्ध्नि विन्यस्य तद्धस्तं करुणान्वितम् ।
हृदयेऽञ्जलिसंयुक्तश्चण्डेशो भक्तिसंयुतः ॥ १४५ ॥
आसनाधः सुखासीनो भक्तिमान् स्वर्णसन्निभः ।
दक्षिणामूर्तिमीशानं कुर्याद् वटतरोरधः ॥ १४६ ॥
लम्बयेद् दक्षिणं पादं वामाङ्घ्रेर्नलकाय कम् ।
सममेवं विधातव्यं वामपादं तु शाययेत् ॥ १४७ ॥
दक्षिणे पूर्वहस्ते तु ज्ञानमुद्रां तु धारयेत् ।
दक्षिणे परहस्ते तु कारयेदक्षमालिकाम् ॥ १४८ ॥
वरदं वामहस्ते तु दण्डं वा परिकीर्तितम् ।
वामजानूपरिष्टात्तु दण्डश्चेत् कूर्परं न्यसेत् ॥ १४९ ॥
वामे परकरे तत्र वह्निं वा मृगमेव वा ।
विकीर्णमूर्धजं वापि जटामण्डलसंयुतम् ॥ १५० ॥
जटाभिर्बद्धमूर्तिं वा जटामकुटसंयुतम् ।
शुद्धस्फटिकसंकाशम् ++++++++।
वामे धुर्धूरपुष्पं च नागश्च शिरसि स्मृतम् ॥ १५१ ॥
दक्षिणेन्दुकलायुक्तं सर्वाभरणभूषितम् ।
सितवस्त्रोत्तरीयं च सितयज्ञोपवीतिनम् ॥ १५२ ॥
व्याघ्रचर्माम्बरोपेतं त्रिनेत्रं क्लेशवर्जितम् ।
रुद्राक्षं कण्ठमालां च हृन्मालां च विधापयेत् ॥ १५३ ॥

नारदो जमदग्निश्च वसिष्ठो दक्षपार्श्वके ।
भारद्वाजश्च शौनकस्त्वगस्त्यो वामपार्श्वके ॥ १५४ ॥
वन्दितैः किन्नराद्यैस्तु सेवितं भक्तिसंयुतैः ।
अपस्मारोपरिष्टात्तु लम्बपादतलं न्यसेत् ॥ १५५ ॥
धर्मव्याख्यानमूर्तिः स्यादेवं सर्वशुभावहम् ।
तदेव वामपादेनोत्कुटिकासनसंयुतम् ॥ १५६ ॥
पूर्वहस्तद्वये वीणां चेत् तद्वीणाधरं स्मृतम् ।
अथवा पूर्वहस्ताभ्यां ज्ञानमुद्राभयौ धृतौ ॥ १५७ ॥
वामं प्रसारितं वाथ वामजानूर्ध्वकूर्परे ।
अपरे दक्षिणे त्वक्षमालामुत्पलमन्यतः ॥ १५८ ॥
ज्ञानमूर्तिरिति ख्यातं सर्वकारणकारणम् ।
अन्योन्याङ्घ्रितलं सम्यक् स्फिक्पिण्डाधः प्रकल्पयेत् ॥
ज्ञानमुद्रां हृदि स्थाने त्वभ्यन्तरमुखं करम् ।
वरदं वामहस्तं तु मेढ्रपीठोपरि न्यसेत् ॥ १६० ॥
अपरे चोत्पलं चाक्षमालां पूर्ववदाचरेत् ।
नासाग्रं स्वं समीक्ष्य स्वमार्जवं देहमाचरेत् ॥ १६१ ॥
सुविकीर्णजटायुक्तं योगमूर्तिरिति स्मृतम् ।
लम्बयेद् दक्षिणं पादं वाममुत्कुटिकासनम् ॥ १६२ ॥
सम्बध्य योगपट्टेन + देहोत्कुटिकाङ्घ्रिकौ ।
प्रसार्य वामहस्तं तु वामजानूपरि स्थितम् ॥ १६३ ॥
एतच्च योगमूर्तिः स्याच्छेषं पूर्ववदाचरेत् ।
ऊरुमूलं समाश्रित्य अन्योन्याबद्धपार्ष्णिकम् ॥ १६४ ॥

शैवे कालारिः ] द्वाविंशोऽध्यायः । ११७
योगपट्टिकयोपेतं जङ्घामध्ये विशेषतः ।
प्रसार्य पूर्वहस्तौ द्वौ जानूपरि निधापितौ ॥ १६५ ॥
अपरे दक्षिणे चाक्षमालां वामे कमण्डलुम् ।
जटामण्डलसंयुक्तं करोट्यर्धेन्दुशेखरम् ॥ १६६ ॥
नीलग्रीवासमायुक्तं शङ्खकुन्देन्दुसन्निभम् ।
योगमूर्तिविशेषाख्यं शेषं प्रागिव कारयेत् ॥ १६७ ॥
कालारिं कारयेदीशं नताङ्गं वामतो मनाक् ।
सुस्थितं दक्षिणं पादं पद्मपीठेऽन्यमङ्घ्रिकम् ॥ १६८ ॥
कुञ्चितं किञ्चिदुद्धृत्य न्यसेत् कालस्य वक्षसि ।
सदंष्ट्रास्यं त्रिनेत्रं च जटामकुटमण्डितम् ॥ १६९ ॥
चतुर्हस्तयुतं वाथ वसुहस्तसमायुतम् ।
दक्षिणे पूर्वहस्ते तु शूलं कर्णान्तमुद्धृतम् ॥ १७० ॥
दक्षिणे परहस्ते तु परशुं वरदं तु वा ।
वामे पूर्वकरं नाभिसूत्रान्ते सूचिमाचरेत् ॥ १७१ ॥
वामे तु परहस्ते तु विस्मयं परिकल्पयेत् ।
उष्णीषान्तं समुद्धृत्य विस्मयेऽनामिकाग्रकम् ॥ १७२ ॥
शूलं परशुवज्रौ च खड्गं दक्षिणहस्तके ।
विस्मयं खेटकं पाशं सूचिहस्तं च वामके ॥ १७३ ॥
शुद्धविद्रुमसङ्काशं सर्वाभरणसंयुक्तम् ।
अधस्तात् कारयेत् कालं द्विभुजं पाशहस्तकम् ॥ १७४ ॥
करण्डमकुटोपेतं सदंष्ट्रं विकृताननम् ।
असृग्धारासमायुक्तं महाभैयसमन्वितम् ॥ १७५ ॥
१. 'ष्ठा' क. ग. पाठः. २. 'यसस्' घ. पाठः.

११८ शिल्परत्ने [उत्तरभागः
हृदयाञ्जलिसंयुक्तं विकीर्णाङ्घ्रिद्वयं पुनः ।
अथ लिङ्गोद्भवं वक्ष्ये लिङ्गाकारस्य मध्यतः ॥ १७६ ॥
नलकात् पादस्य तलं लिङ्गे शूलसमायुतम् ।
चन्द्रशेखरवत् सर्वं कारयेत् सुन्दराकृतिम् ॥ १७७ ॥
ब्रह्मा तु हंसरूपेण ऊर्ध्वगो वामपार्श्वतः ।
विष्णुर्वराहरूपेण दक्षिणांशे त्वधोगतः ॥ १७८ ॥
हृदयेऽञ्जलिसंयुक्तौ रक्तश्यामनिभौ परम् ।
वीक्षमाणौ परं लिङ्गमिदं लिङ्गोद्भवं स्मृतम् ॥ १७९ ॥
अथ श्रीपञ्चाक्षरी —
बिभ्रद् दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः
सर्वालङ्कारदीप्तः सरसिजनिलयो व्याघ्रचर्मात्तवासाः ।
ध्येयो मुक्तापरागामृतरसकलिताद्रिप्रभः पञ्चवक्त्र-
स्त्र्यक्षः कोटीरकोटीघटिततुहिनरोचिष्कलातुङ्गमौलिः
॥ १८० ॥
१ ईशानाह्वयमूर्ध्वदिग्वरमुखं वन्दामहे निर्मलं
पूर्वं तत्पुरुषं च कुङ्कुमनिभं याम्यं त्वघोरं हरम् ।
वामं मेरुजपाप्रसूनसदृशं यद्वामदेवं विदुः
सद्योजातमहाप्र(यं ? भं) च परमं गोक्षीरफेनप्रभम् ॥ १८१ ॥
अथ रुद्रः —
वन्दे बन्धुरहावभावललितं रक्तांशुकालेपनं
स्मेरास्यं चिबुकाग्रनासमरुणं माल्योल्लसत्कुन्तलम् ।
१. पद्यमेतद् घ-मातृकायां न दृश्यते ।

शवमष्टाक्षरध्यानम् । ] द्वाविंशोऽध्यायः । ११९
नानाविभ्रममीप्सितप्रणयिनं भावेन पाशाङ्कुशौ
खट्वाङ्गं च कपालमित्यनुगुणैर्दोर्भिर्दधानं हरम् ॥ १८२ ॥
अथ प्रासादः —
देवं नमामि शिरसा परशुत्रिशूल-
विद्याकपालपरिमण्डितबाहुदण्डम् ।
व्याघ्राजिनाम्बरधरं भसितावदात-
वेषोज्ज्वलं धृतजटाघटितेन्दुबिम्बम् ॥ १८३ ॥
तद्भेदः —
वन्दे त्रिशूलस्फटिकाक्षमाला-
विद्याप्रसादोद्यतबाहुमीशम् ।
सितोपवीतं भसितावदातं
कोटीरचूडोज्ज्वलचन्द्ररेखम् ॥ १८४ ॥
मृत्युञ्जयः —
शुभ्राम्भोजपुटेन्दुमण्डलगतं त्र्यक्षं त्रिशूलत्रयी-
टङ्काक्षाहितसूत्रसंयुतचतुर्बाहुं हिमाद्रिप्रभम् ।
मुद्रापञ्चकभूषितं त्रिनयनं ना(नो ? गो)त्तरीयं शिवं
वन्दे व्याघ्रवराजिनाम्बरधरं कोटीरचन्द्रोज्ज्वलम् ॥ १८५ ॥
शूलाहीटङ्कघण्टासि सृणिकुलिशपाशाग्न्यभातीर्दधानं
दोर्भिः शीतांशुरेखाप्रतिघटितजटाभारमौलिं त्रिनेत्रम् ।
नानाकल्पाभिरामापघनमभिमताथप्रदं सुप्रसन्नं
पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि
[॥ १८६ ॥
शैवमष्टाक्षरम् —
वामाङ्कन्यस्तवामेतरकरकमलायास्तथा वामबाहु-
न्यस्तारक्तोत्पलायाः स्तनविधृतलसद्वामबाहुः प्रियायाः ।

१२० शिल्परत्न [उत्तरभागः
सर्वाकल्पाभिरामो धृतपरशुमृगेषुः करैः काञ्चनाभो
ध्येयः पद्मासनस्थः स्मरललिततनुः सम्पदे पार्वतीशः
[॥१८७॥
दक्षिणामूर्तिः—
मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं
जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः ।
आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरस्त्रिनेत्रो
दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो वः
[॥ १८८ ॥
अघोरः —
कालाभ्राभः कराग्रैः परशुडमरुकौ खड्गखेटौ च बाणे-
ष्वासौ शूलं कपालं दधदतिभयद़ो भीषणास्यस्त्रिनेत्रः ।
रक्ताकाराम्बराहिप्रवरघटितगात्रोऽरिनागग्रहादीन्
खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः
[॥ १८९ ॥
मृत्युञ्जयभेदः —
अथवामलकमलपुटान्तरितं शिशुवेषभूषणं रुद्रम् ।
ध्यात्वा जपाद् यथावत् कृतक्लृप्त्या मृत्युनाशनं दृष्टम्
[॥ १९० ॥
चिन्तामणिः —
अहिशशधरगङ्गाबद्धतुङ्गात्तमौलि-
स्त्रिदशगणनताङ्घ्रि + + + स्त्रीविलासः ।
भुजगपरशुशूलान् खड्गवह्नी कपालं
शरमपि धनुषं + विभ्रदव्याच्चिरं वः ॥ १९१ ॥
१. 'र्तिं व्यनुष्टुप् । मु' क. ग. पाठः. २. 'धरिणो पि' क. पाठः.

शैवे शक्तिपञ्चाक्षरी ] द्वाविंशोऽध्यायः । १२१
१अथवा —
हावभावललितार्धनारिकं भीषणार्धमथ वा महेश्वरम् ।
पाशसोत्पलकपालशूलिनं चिन्तयेज्जपविधौ विभूतये
[॥ १९२ ॥
अनुष्टुप् —
अच्छस्वच्छारविन्दस्थितिरुभयकरान्तैः२स्थितं पूर्णकुम्भं
दोर्भ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ ।
द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ
देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः
[॥ १९३ ॥
संवादम् —
धवलनलिनराजच्चन्द्रमध्ये निषण्णं
करविलसितपाशं साङ्कुशं साभयं च ।
सवरदममलेन्दुक्षीरगौरं त्रिनेत्रं
प्रणमत सुरवक्त्रं मङ्क्षु संवादयन्तम् ॥ १९४ ॥
शक्तिपञ्चाक्षरी —
मूले कल्पद्रुमस्य द्रुतकनकनिभं चारुपद्मासनस्थं
वामाङ्गारूढगौरीनिबिडकुचभराभोगगाढोपगूढम् ।
सर्वालङ्कारकान्तं वरपरशुमृगाभीष्टबाहुं त्रिनेत्रं
वन्दे बालेन्दु³मौलिं ४गुहगजवदनाभ्यामुपाश्लिष्टपार्श्वम्
[॥ १९५ ॥
५अथवा —
वन्दे हरं वरदशूलकपालहस्तं
साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् ।
१., ५. ‘अथवेत्यवतारितं पद्यं घ-मातृकायां न दृश्यते. २. ‘क्त’,
३. ‘चूडं गु’, ४. ‘गजवदनगुहाभ्या’ घ. पाठः.

१२२ शिल्परत्ने [उत्तरभागः
वामोरूपीठगतया निजवामहस्त-
न्यस्तारुणोत्पलयुजा परिरब्धदेहम् ॥ १९६ ॥
कालारिः —
वामेनोद्यत्तरुणहरिणं पाणिना वामभासा
बिभ्रद् बभ्रुद्युतिरपि परेणाकठोरं कुठारम् ।
वक्षोदेशे त्रिशिखशिखरेणात्र कृत्त्वान्तकान्तं
तिष्ठन्नीशो जयति शशिनाबद्धकोटीरभारः ॥ १९७ ॥
किन्नरशिवः —
इमशानस्थो मौनी बहुविधपिशाचैः परिवृतः
कपर्दी कौपीनी सुसितभसितोद्धूलिततनुः ।
त्रिशूलाग्रे कृत्वा निखिलनृपयक्ष्माह्वयहरिं
कपालाग्नौ जुह्वद् दहतु दुरितं किन्नरशिवः ॥ १९८ ॥
रक्षोघ्नः —
त्रिशूलं परशुं चैव कपालं डमरुं तथा ।
बिभ्राणमुग्रवपुषं त्रिनेत्रं चन्द्रशेखरम् ॥ १९९ ॥
दंष्ट्राकरालनिनदद्‌भ्रुकुटीकुटिलाननम् ।
बडवामुखाभिसदृशं देहन्तं भुवनत्रयम् ॥ २०० ॥
भूतप्रेतपिशाचादीन् भक्षयन्तं महाबलम् ।
एवं ध्यात्वा जपेन्नित्यं रक्षोहाग्निं समाहितः ॥ २०१ ॥
अथ सद्योजातादिमूर्तयः —
सद्यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरो
वामः काश्मीरवर्णोऽभयवरदपरश्वक्षमालो विलासी ।
१. 'व' घ. पाठः.

वैष्णवे गायत्री ] त्रयोविंशोऽध्यायः । १२३
अक्षस्रग्वेदपाशाङ्कुशडमरुकखट्वाङ्गशूलान् कपालं
बिभ्राणो भीमदंष्ट्रोऽञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः
[॥ २०२ ॥
विद्युद्वर्णोऽथ वेदाभयवरदकुठारान् दधत् पूरुषाख्यः
प्रोक्ताः सर्वे त्रिनेत्रा विधृतमुखचतुष्काश्चतुर्बाहवश्च ।
मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरतः पञ्चवक्त्र-
स्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्युः शि-
[ वान्ताः ॥ २०३ ॥
इति शिल्परत्ने उत्तरभागे ध्याने शैवप्रकरणं नाम
द्वाविंशोऽध्यायः ॥
अथ त्रयोविंशोऽध्यायः ।
अथ वैष्णवप्रकरणम् ।
अष्टाक्षरी —
अर्कौघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराज-
त्केयूरं कौस्तुभाढ्यं शबलरुचिरहारं चारुपीताम्बरं च (?)।
नानारत्नांशुभिन्नाभरणशतैर्युजं श्रीधराश्लिष्टपार्श्वं
वन्दे दोःसक्तचक्राम्बुरुहदरगदं विश्ववन्द्यं मुकुन्दम् ॥ १॥
गायत्री —
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ २ ॥
१. 'ल्पि', २. 'र', ३. 'चक्रवं' घ. पाठः.

१२४ शिल्परत्ने [उत्तरभागः
धृतशङ्ख + चक्रवराब्जगदाकुलदोःपरिघं सितगङ्गागतम् ।
वलयाङ्गदहारकिरीटधरं नवकुन्दनिभं प्रणमामि सदा ॥ ३ ॥
श्रीकराष्टाक्षरम् —
दुग्धाब्धिद्वीपवर्यप्रविलसितसुगन्धानकल्पद्रुमाधो
भद्राम्भोजनमपीठोपरिगतविनतानन्दस्कन्धसंस्थः ।
दोर्भिर्बिभ्रद् रथाङ्गं वरदमथ गदापङ्कजे स्वर्णवर्णे
भास्वन्मौलिर्विचित्राभरणपरिगतः स्याच्छ्रिये वो मुकुन्दः
[॥ ४॥
सुदर्शनम् —
अव्याद् भास्करसत्प्रभाभिरखिला भाभिर्दिशो भासयन्
भीमाक्षः क्षरदट्टहासविलसद्दंष्ट्राप्रदीप्ताननः ।
दोर्भिश्चक्रदरौ गदाब्जमुसलप्रासांश्च पाशाङ्कुशौ
बिभ्रत् पिङ्गलशिरोरुहोऽथ भवतश्चक्राभिधानो हरिः॥ ५ ॥
[

वैष्णवे चतुरक्षरी ] त्रयोविंशोऽध्यायः । १२५
अथ विदारणनृसिंहः —
उद्यद्भास्वत्सहस्रप्रभमशनिनिभं तीक्ष्णंक्षा वमन्तं (?)
वह्नीनह्नाय विद्युत्ततिविततसटाभीषणं भूषणैश्च ।
दीप्तैरादीप्तदेहं स्वनखरुचिलसद्बाहुदण्डैरनेकः
संभिन्नं भिन्नदैत्येश्वरमतनुतनुं नारसिंहं नमामि ॥ ८ ॥
तद्भेदः षडक्षरी —
अव्यान्निर्व्याजरौद्राकृतिरतिविकृतास्योल्लसत्तीक्ष्णदंष्ट्र-
श्चक्रं शङ्खं च पाशाङ्कुशकुलिशगदादारणाख्या दधानः ।
रक्ताकारश्च नाभेमध उपरि सितो दिव्यभूषाविशेषो
देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः ॥९॥
अथ वराहः —
जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभेः
कण्ठादानाभि वह्निप्रभमथ शिरसश्चागलं नीलवर्णम् ।
मौ(लिं व्यो ? लेव्यो)माभमाकं करलसदरिशङ्खासिखेटं ग-
[दाख्यां
शक्तीष्टाभीतिमुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम् ॥१०॥
तद्भेदः —
सजलाम्बुवाहनिनिभमुद्यतदोःपरिघं धराधरसमानतनुम् ।
सितदंष्ट्रिकाधृतभुवं त्वथवा प्रविचिन्तयेत् सपदि कोल-
[ममुम् ॥ ११ ॥
चतुरक्षरी —
श्रीमत्कल्पद्रुमोल्लासितकमललसत्कर्णिकामध्यसंस्थ-
स्तृच्छाखालम्बि पद्मोधरविगलदसंख्यातरत्नाभिषिक्तः ।
१. 'नरसिं' क. ग. पाठः. २. 'वः ॥ व' घ. पाठः.

The provided image is completely blank (solid white) with no visible text, diagrams, or content to transcribe.

Please re-upload or provide the correct image/page containing the text.

दोर्दण्डाम्बुजबद्धचापशरपाशाद्यङ्कुशारुयं परं
ध्यायेद् वा तमरातिवर्गहननायातीव सम्पत्तये ॥ १६॥
श्रीपञ्चामृतम् —
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां
मालाक्लृप्तासनस्थः स्फाटिकमणि¹निभो मौक्तिकैर्मण्डि-
शुभ्रैरभ्रै³रदभ्रैरुपरि²विरचितैर्मुक्तपीयूषवर्षै- [ताङ्गः ।]
रानन्दी नः पुनीयादरिनलिनगदाशङ्खपाणिर्मुकुन्दः ॥ १७॥
सन्तानगोपालम् —
अव्याद् व्याकोचनीलाम्बुजरुचिररुणाम्भोजनेत्रोऽम्बुजस्थो
बालो जङ्घाकरीषस्थलकलितरणत्किङ्किणीको मुकुन्दः।
दोर्भ्यां हैयङ्गवीनं दधदतिविमलं पायसं विश्ववन्द्यो
++गोपीपरीतो रुरुनखविलसत्कण्ठभूषश्चिरं वः॥ १८॥
तद्भेदः —
चक्रशङ्खधरं कृष्णं रथस्थं च चतुर्भुजम् ।
सर्वाभरणसन्दीप्तं पीतवाससमच्युतम् ॥ १९ ॥
द्विजवर्यार्चनयुतं विष्णुतेजोपबृंहितम् ।
समर्पयन्तं विप्राय नष्टपुत्रान् सबालकान् ॥ २०॥
आवहन्ती —
अरुणनलिनसंस्थं काञ्चनोदीप्तवर्णं
करधृतदरचक्रं पीतकौशेयवस्त्रम् ।
कनककलशरक्तोत्पलासक्तपाणिं (?)
श्रियमपरकराभ्यां बिभ्रतं नौमि विष्णुम् ॥ २१ ॥
१. 'निभैमौक्ति' क. ग. पाठः. २. 'परिचि', ३. 'वः' घ. पाठः.

१२८ शिल्परत्नं [उत्तरभागः
पुरुषसूक्तम् —
गोक्षीराभं पुण्डरीकासनस्थं
चक्राब्जाभ्यां शङ्खकौमोदकीभ्याम् ।
श्रीभूमिभ्यामर्चितं योगिचिन्त्यं
ध्यात्वा देवं¹ पूजयेत पौरुषाख्यम् ॥ २२ ॥
लक्ष्मीनारायणम् —
हस्ते बिभ्रत् सरसिजगदाशङ्खचक्राणि विद्यां
पद्मादर्शौ कनककलशं मेघविद्युद्विलासम् ।
वामोत्तुङ्गस्तनमविरलाकल्पमाश्लेषलोभा-
देकीभूतं वपुरवतु वः पुण्डरीकाक्षलक्ष्म्योः ॥ २३ ॥
द्वाविंशत्यक्षरी —
वेणुं वेदमयं क्वणन् प्रदिशतु श्रेयांसि भूयांसि मे
पाणिद्वन्द्वसरोजयोर्जपपटीं वेदं दधानो हरिः ।
वाणीवेषविचित्रवेषविलसद्देहस्त्वया सेव्यता-
मज्ञानाख्यतमोविदारणपटुः सर्वार्थदः सन्ततम् ॥ २४ ॥
विंशत्यक्षरी —
श्रीमत्यां द्वारवत्यां नवकनकमये भूतले रत्ननद्यो-
र्मध्ये कल्पद्रुमाधो विलै²सदमलसन्मण्डपे सन्निविष्टम् ।
चक्रं शङ्खं च वेणुं नलिनमपि गदां योगमुद्रां दधानं
वन्दे सं³सिच्यमानं मणिमयकलशैर्वल्लभाभिर्मुकुन्दम्
[॥ २५ ॥
तद्भेदः —
मध्ये रत्नस्रवन्त्योर्मणिमयरचिते मण्डपे कल्पमूले
भास्वद्रत्नासनाम्भोरुहकुहरगतं सद्गदाब्जारिशङ्खम् ।
१. 'दिव्यं पू' क. ग. पाठः. २. विघमणिल', ३. 'चिन्त्यमा'
ख. पाठः.

वैष्णवं रामध्यानभेदः] त्रयावशोऽध्यायः । १२८
गोविन्दं स्वर्णवर्णं मणिकलशमुखस्पर्शवामाङ्घ्रिमीडे
रुक्मिण्याद्यष्टदेवीकरमणिकलशै रत्नधाराभिषिक्तम्॥२६॥
अष्टादशाक्षरी —
अव्यान्मीलत्कलायद्युतिरहिरिपुपिच्छोल्लसत्केशपाशो
गोपीनेत्रोत्पलाराधितललितवपुर्गोपगो(वि ? वृ)न्दवीतः ।
श्रीमद्वक्त्रारविन्दप्रतिहसितशशाङ्काकृतिः पीतवासा
देवोऽसौ वेणुवाद्यक्षपितजनधृतिर्देवकीनन्दनो वः॥ २७॥
तद्भेदः —
अंसालम्बितवामकुण्डलयुतं मन्दोन्नतभ्रूलतं
किञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रचारेक्षणम् ।
आलोलाङ्गुलिपल्लवं मुरलिकामापूरयन्तं मुदा
मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम् ॥ २८ ॥
श्रीरामषडक्षरं —
कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तं मकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ २९॥
रामध्यानभेदः —
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् ।
१. 'जालो गो' क. ग. पाठः, २. 'तलं कि', ३. 'ङ्ग' घ. पाठः,
ऽ

१३० शिल्परत्ने [उत्तरभागः
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम्
[॥ ३० ॥
अथवा —
रामं रत्नकिरीटकुण्डलधरं केयूरहारान्वितं
सीतालङ्कृतवामभागममलं सिंहासनस्थं प्रभुम् ।
सुग्रीवादिसमस्तवानरगणैः संसेव्यमानं सदा
विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं भजे ॥ ३१ ॥
वामे भूमिसुता पुरस्तु हनुमान् पश्चात् सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोरग्न्यादिकोणेष्वथ ।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ ३२ ॥
वैदेहीमधिरुह्य जातपुलकां वामाङ्कमासेविनीं
वामेन स्तनचूचुकं पुलकिना वामं करेणामृशन् ।
तत्त्वं दक्षिणपाणिना कलितया चिन्मुद्रया शोभयन्
रामो मारुतिसेवितो लसतु मे साम्राज्यसिंहासने ॥ ३३ ॥
गोपालकभेदः —
उदयगिरितटान्ते रुक्मिणीसत्यभामा-
सहितमखिलगोपीवल्लभं देवदेवम् ।
अभयवरदहस्तं पायसादं प्रसन्नं
विबुधगणनिषेव्यं नन्दसूनुं नमामि ॥ ३४ ॥
श्रीकराष्टाक्षरभेदः —
श्रीवत्साङ्कमुदारहारकिरणज्योत्स्नावितानोज्ज्वलं
पीतं शङ्खगदाब्जचक्रविलसद्बाहुं पिशङ्गांशुकम् ।

वैष्णवे वासुदेवादिपञ्चकम् ] त्रयोविंशोऽध्यायः । १३१
भास्वत्कौस्तुभमत्स्यकुण्डलविभात्तं भिन्नमुक्ताङ्गदं
तं वन्दे शिरसा किरीटविलसन्मन्दारमालं हरिम् ॥ ३५ ॥
धन्वन्तरिभेदः —
देवं रविबिम्बस्थं मनोहराङ्गं प्रसन्नमुखकमलम् ।
अमृतघटं सजलूकं करयुगलेनादधानममलमतिम् ॥ ३६ ॥
अष्टादशाक्षरीभेदः —
बालं नीलाम्बुदाभं नवमणिविलसत्किङ्किणीजातनद्ध-
श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् ।
फुल्लाम्भोजाभवक्त्रं हतशकटपतत्पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरममुं पूजयेद् वासरादौ ॥ ३७ ॥
अपिच —
वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं
गोगोपी

१३२ शिल्परत्ने [उत्तरभागः
चतुर्भुजाश्चक्रशङ्खगदापङ्कजधारिणः ।
किरीटकेयूरिणश्च पीताम्बरधरा अपि ॥ ४१ ॥
अथ केशवाद्याः —
सुवर्णगोक्षीरजपाशिलालपीतेन्द्रनीलारुणकैरवाभाः ।
काश्मीरमेघाञ्जनरोचिषश्च क्रमेण वर्णैरपि केशवाद्याः
[॥ ४२ ॥
इतीरिताश्चापकिरीटहारकेयूरपीताम्बरकादितुल्यम् ।
सचक्रशङ्खाः सगदाम्बुजाश्च संपूजनीयाः स्तवनैः क्रमेण
[॥ ४३ ॥
वराहभेदः —
हेमप्रख्यं पार्थिवे मण्डले वा
नीहाराभं नीरजेऽभेस्तदाभम् ।
वायोः कृष्णं द्युप्रभं वा दिविस्थं
क्रोडव्याप्तं सत्यसंस्थं यजेद्वा ॥ ४४ ॥
विश्वरूपं —
विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्रकेयूरहार-
ग्रैवेयोर्म्यादिमुख्याभरणमणिगणोल्लासदिव्याङ्गरागम् ।
विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्यद्-
बाहूग्रव्यग्रनानायुधनिकरधरं विश्वरूपं नमामि ॥४५॥
अथायुधानि —
चक्रं च चक्राङ्किकिरीटमौलिं
सचक्रशङ्खं सगदं सशार्ङ्गम् ।
रक्ताम्बरं रक्ततनुं करालं
दंष्ट्राननं प्राग्दलकेऽर्चयेत ॥ ४६ ॥

शक्तौ मूलदुर्गा ] चतुर्विंशोऽध्यायः । ११३
पूज्या गदा गदाङ्कितमौलिः सगदा सचक्रशङ्खधनुः ।
पीताम्बरानुलेपा पीता क्रुद्धा च याम्यसंस्थदले ॥ ४७ ॥
श्यामं शार्ङ्गाङ्कितं शार्ङ्गं शार्ङ्गारिदरगदाहस्तम् ।
श्यामांशुकानुलेपनमाल्यादिं वारुणे यजेत् पत्रे ॥ ४८ ॥
खड्गं सखड्गशिरसं खड्गारिगदाधनुष्करं धूम्रम् ।
विकृताम्बरानुलेपस्रजं समभ्यर्चयेदुदक्पत्रे ॥ ४९ ॥
शङ्खं सशङ्खशिरसं शङ्खारिगदाधनुष्करं सुसितम् ।
सितवसनमाल्यभूषं यजैन्महानादमग्निसंस्थदले ॥ ५० ॥
शङ्खोक्तचिह्नभूषणान् स्वास्त्रादिकधरचतुर्भुजानपरान् ।
हलमुसलशूलसंज्ञान् यजेन्निशाचरादिकोणेषु ॥ ५१ ॥
इति शिल्परत्ने उत्तरभागे ध्याने वैष्णवप्रकरणं नाम
त्रयोविंशोऽध्यायः ॥
अथ चतुर्विंशोऽध्यायः ।
अथ शक्तिमार्गः ।
तत्र पूर्वं मूलदुर्गा —
शङ्खारिचापशरभिन्नकरां त्रिनेत्रां
तिग्मेतरांशुकलया विलसत्किरीटाम् ।
सिंहस्थितां ससुरासिद्धनतां च दुर्गां
दूर्वानिभां दुरितवेर्गह(रा ?रां) नमामि ॥ १ ॥
अथवा —
दुर्गां ध्यायतु दुर्गतिप्रशमनीं दूर्वादलश्यामलां
चन्द्रार्धोज्ज्वलशेखरां त्रिनयनामापीतवासोवसम् ।
१. 'केषु पत्रे' क. ग. पाठः. २. 'दु' घ. पाठः.