सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 152, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 152

शक्तौ मूलदुर्गा ] चतुर्विंशोऽध्यायः । ११३
पूज्या गदा गदाङ्कितमौलिः सगदा सचक्रशङ्खधनुः ।
पीताम्बरानुलेपा पीता क्रुद्धा च याम्यसंस्थदले ॥ ४७ ॥
श्यामं शार्ङ्गाङ्कितं शार्ङ्गं शार्ङ्गारिदरगदाहस्तम् ।
श्यामांशुकानुलेपनमाल्यादिं वारुणे यजेत् पत्रे ॥ ४८ ॥
खड्गं सखड्गशिरसं खड्गारिगदाधनुष्करं धूम्रम् ।
विकृताम्बरानुलेपस्रजं समभ्यर्चयेदुदक्पत्रे ॥ ४९ ॥
शङ्खं सशङ्खशिरसं शङ्खारिगदाधनुष्करं सुसितम् ।
सितवसनमाल्यभूषं यजैन्महानादमग्निसंस्थदले ॥ ५० ॥
शङ्खोक्तचिह्नभूषणान् स्वास्त्रादिकधरचतुर्भुजानपरान् ।
हलमुसलशूलसंज्ञान् यजेन्निशाचरादिकोणेषु ॥ ५१ ॥
इति शिल्परत्ने उत्तरभागे ध्याने वैष्णवप्रकरणं नाम
त्रयोविंशोऽध्यायः ॥
अथ चतुर्विंशोऽध्यायः ।
अथ शक्तिमार्गः ।
तत्र पूर्वं मूलदुर्गा —
शङ्खारिचापशरभिन्नकरां त्रिनेत्रां
तिग्मेतरांशुकलया विलसत्किरीटाम् ।
सिंहस्थितां ससुरासिद्धनतां च दुर्गां
दूर्वानिभां दुरितवेर्गह(रा ?रां) नमामि ॥ १ ॥
अथवा —
दुर्गां ध्यायतु दुर्गतिप्रशमनीं दूर्वादलश्यामलां
चन्द्रार्धोज्ज्वलशेखरां त्रिनयनामापीतवासोवसम् ।
१. 'केषु पत्रे' क. ग. पाठः. २. 'दु' घ. पाठः.