शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 133, कुल 280 में से
संदर्भ में पढ़ें११४ शिल्परत्ने [उत्तरभागः
रुद्राङ्गुलविशालं तु तन्नान्वंशै¹गतनम् (?) ।
सुवृत्तं चक्रवृत्तं तु पद्माकृतिरथापि वा ॥ १३३ ॥
शिरश्चक्रविशालस्य सप्तभागैकभागिकम् ।
शिरश्चक्रस्य नालस्य विस्तारं परिकीर्तितम् ॥ १३४ ॥
चक्रतारत्रिभागैकं चक्राद्वा शिरसोऽन्तरम् ।
अग्राल्ललाटपट्टस्य शिरश्चक्रस्य नालकम् ॥ १३५ ॥
गुणाङ्गुले तु कै(ट्यो ? ट्यू) २र्ध्वं चक्रनालस्थितिर्भवेत् ।
चक्राद् गुणांशमालम्ब्य पुष्पमाला तु मध्यमात् ॥१३६॥
सर्वेषामपि देवानां देवीनामेवमाचरेत् ।
अथ भिक्षाटनं वक्ष्ये पादौ पादुकसंयुतौ ॥ १३७ ॥
सुस्थितं वामपादं तु गन्तुं दक्षिणमुद्धृतम् ।
सुविकीर्णजटाभारं जटामण्डलमेव वा ॥ १३८ ॥
विवृतबन्धजटं वाथ उपानद्रहितं तु वा ।
ललाटपट्टसंयुक्तं करोत्वर्धेन्दुशेखरम् ॥ १३९ ॥
सर्वाभरणसंयुक्तं कटिसूत्रविवर्जितम् ।
शुद्धश्वेतनिभं प्रोक्तं नानानागविभूषितम् ॥ १४० ॥
दक्षिणं पूर्वहस्तं तु मृगस्यास्यान्तिकं भवेत् ।
वामे तु पूर्वहस्तं तु सितवस्त्रोत्तरीयकम् ॥ १४१ ॥
श्वेतयज्ञोपवीतं तु कटौ नागेन वेष्टितम् ।
नीलकण्ठं त्रिपुण्ड्राढ्यं पद्मपीठोपरि स्थितम् ॥ १४२ ॥
१. 'शे', २. 'सं', ३. 'को' घ. पाठः.