सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 107, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 107

तृतीयोऽध्यायः (३) १०७
स्यात् । किं तु देवयजनमेव समीपदेशादुन्नतं भवेदित्यर्थः । किं च अनूषरम्
ऊषररहितमेव भूतलं देवयजनस्य। एतस्यैव विवरणं यत्रेति। यत्र यस्मिन् भूतले
ओषधयो बहुला वन्या भवेयुस्तदनूषरम्। ऊषरप्रदेशे तासामनुद्गमात् । अपि च
यत्र यस्मिन् देशे चात्वालसारिण्यः चात्वालगामिन्यः आपः स्युः । यस्य
चात्वालदेशस्य पुरः पुरस्तादापो न संचरन्ति तद्देवयजनं कार्यम् ॥ ११ ॥
विशेषणान्तरमाह —
तस्य न पुरस्ताद्देवयजनमात्रमतिशिष्याद्यावाच्छ-
म्याप्रासः ॥ १२ ॥
तस्य देवयजनस्य परिग्राह्यस्य भूतलस्य पुरस्तात् समीपभागे शम्या-
निपातनात् अर्वाक् यावान् देशोऽस्ति तत्र पुरो देवयजनमात्रं देवयजनस्य
यावत्प्रमाणं तावन्मात्रं प्रदेशं नातिशिष्यान्नातिशेषयेत् ॥ १२ ॥
तदवशेषणे प्रत्यवायमाह —
अपरपुरुषा हास्माच्छ्रेयांसो भवन्ति यस्यैव-
मतिरेचयन्ति ॥ १३ ॥
यस्य देवयजनस्य पुरस्ताद्भागे शम्यानिपातनादर्वागेव देवयजनमात्र-
मतिरेचयन्ति अतिशेषयन्ति अस्मात् तदवशेषादपरपुरुषा यजमानातिरिक्ता
द्वेष्टार इत्यर्थः । ते श्रेयांसोऽतिशयेन प्रशस्या भवन्ति ॥ १३ ॥
2. RM. om. यत्रेति.
3. RIS अनूद्, K. अन्यो T इन्त्यो for वन्या०; M. om. वन्या;
M. उपेयुः for भवेयुः.
4. RKSI. om. यस्मिन्; KT. तस्य for यस्य.
5. R. अनु for न.
9. J adds शम्याप्रासात् after ०भागे.
10. RI यावद् for यावान्; J. तावत् for तत्र.
11. RKIS. प्रदेशात् for प्रदेशं; J adds नातिवर्तयेत् after ०शिष्यान् ०.
13. RI. अवर० for अपर०; J Sh Ms पापीयांसो० for श्रेयांसो ०.
15. MTK अस्य for यस्य; MSK ०निपत० for ०निपात०.
16. RMISK om. अतिशेषयन्ति.
17. R. प्रशस्ता० for प्रशस्या०.