सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 311, कुल 496 में से
संदर्भ में पढ़ेंशीलेन्द्रियजयः ] त्रयोदशः सर्गः २५७
व्याख्या—एतावत् = इयत्, शीलम्=सदाचारः, इति=इत्थम्, उक्तम् = कथितम्,
समासतः = सङ्क्षेपतः, अयम् = एषः, आचारः=आचरणम्, अस्य = एतस्य, नाशेन =
विनाशेन, न = नहि, प्रव्रज्या = वैराग्यम्, न = नहि, गृहस्थता = गार्हस्थ्यम् ॥ १९ ॥
हिन्दी—इतना ही शील है, संक्षेप में यही आचार है, इनका नाश होने पर न
तो वैराग्य रहेगा और न गार्हस्थ्य ही ॥ १९ ॥
तस्माच्चारित्रसम्पन्नो ब्रह्मचर्यमिदं चर ।
अणुमात्रेष्ववद्येषु भयदर्शी दृढव्रतः ॥ २० ॥
अन्वयः—तस्मात् चारित्रसम्पन्नः इव ब्रह्मचर्यं चर, अणुमात्रेषु अवद्येषु भयदर्शी
दृढव्रतः ॥ २० ॥
व्याख्या—तस्मात् = तेन हेतुना, चारित्रसम्पन्नः=सदाचारनिष्पन्नः, इव = यथा,
ब्रह्मचर्यम् = ब्रह्मचारीव्रतम्, चर = धारय, अणुमात्रेषु = सूक्ष्मेष्वपि, अवद्येषु = दोषेषु,
भयदर्शी—भयम् = भीतिः, पश्यति = अवलोकयतीति भयदर्शी, दृढव्रतः = स्थिरसंयमः,
भव ॥ २० ॥
हिन्दी—अतः सदाचार-सम्पन्न होकर इस ब्रह्मचर्यव्रत का पालन करो; अतिस्वल्प
दोषों से भी डरते हुए अपने व्रत में दृढ रहो ॥ २० ॥
शीलमास्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः ।
स्थानाद्यानीव कार्याणि प्रतिष्ठाय वसुन्धराम् ॥ २१ ॥
अन्वयः—शीलम् आस्थाय श्रेयसि हि सर्वाः क्रियाः वसुन्धरां प्रतिष्ठाय स्थानाद्यानि
कार्याणि इव वर्त्तन्ते ॥ २१ ॥
व्याख्या—शीलम् = स्वभावम्, आस्थाय = आश्रित्य, श्रेयसि = कल्याणे, हि =
इत्यवधारणे, सर्वाः = सकलाः, क्रियाः = कृत्याः, वसुन्धराम् = पृथिव्याम्, प्रतिष्ठाय =
समाश्रित्य, स्थानाद्यानि = स्थिताद्यानि, कार्याणि = कृत्यानि, इव = यथा, वर्त्तन्ते =
भवन्ति ॥ २१ ॥
हिन्दी—शील का सहारा लेकर सभी श्रेयस्कर कार्य सम्पन्न होते हैं, जैसे धरती
के सहारे पर खड़ा होना प्रभृति काम होते हैं ॥ २१ ॥
मोक्षस्योपनिषत् सौम्य ! वैराग्यमिति गृह्यताम् ।
वैराग्यस्यापि संवेदः संविदो ज्ञानदर्शनम् ॥ २२ ॥
अन्वयः—सौम्य ! मोक्षस्य उपनिषत् वैराग्यम् इति गृह्यताम्; वैराग्यस्यापि
संवेदः संविदः ज्ञानदर्शनम् ॥ २२ ॥
व्याख्या—सौम्य ! = हे प्रियदर्शन ! मोक्षस्य = मुक्तेः, उपनिषत् = आधारः,
वैराग्यम् = अनासक्तिः, इति = एवम्, गृह्यताम् = स्वीक्रियताम्, वैराग्यस्यापि =
विरतेरपि, संवेदः=सम्यग्ज्ञानम्, संविदः=सम्यग्ज्ञानस्य, ज्ञानदर्शनम्, अस्तीति
भावः ॥ २२ ॥