सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 312, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 312

२५८ सौन्दरनन्दं महाकाव्यम्
हिन्दी—हे प्रियदर्शन ! मोक्ष का आधार वैराग्य है, ऐसा जानो। वैराग्य भी
सम्यग्ज्ञान है और सम्यग्ज्ञान का उपनिषत् ज्ञानदर्शन है ॥ २२ ॥
ज्ञानस्योपनिषच्चैव समाधिरुपधार्यताम् ।
समाधेरप्युपनिषत् सुखं शारीरमानसम् ॥ २३ ॥
अन्वयः—ज्ञानस्य चैव उपनिषत् समाधिः उपधार्यताम्, समाधेरपि उपनिषत्
शारीरं मानसं सुखम् ( उपधार्यताम् ) ॥ २३ ॥
व्याख्या—ज्ञानस्य = सम्यग्बोधस्य, चैव, उपनिषत् = समीपे उपनिवेशनम्,
समाधिः = अन्तर्ध्यानम्, उपधार्यताम् = ज्ञायताम्, समाधेरपि = अन्तर्ध्यानस्यापि,
उपनिषदं = रहस्यम्, शारीरम् = दैहिकम्, मानसम् = मानसिकम्, सुखम् = आनन्दम्,
उपधार्यताम् = अवबुध्यताम् ॥ २३ ॥
हिन्दी—ज्ञान का रहस्य समाधि समझो, समाधि का भी रहस्य शारीरिक और
मानसिक सुख को जानो ॥ २३ ॥
प्रश्रब्धिः कायमनसः सुखस्योपनिषत्परा ।
प्रश्रब्धेरप्युपनिषत् प्रीतिरप्यवगम्यताम् ॥ २४ ॥
अन्वयः—कायमनसः सुखस्य उपनिषत् पराप्रश्रब्धिः, प्रश्रब्धेः अपि उपनिषत्
प्रीतिः अपि अवगम्यताम् ॥ २४ ॥
व्याख्या—कायमनसः = देहचेतसः, सुखस्य = आनन्दस्य, उपनिषद = रहस्यम्,
पुराप्रश्रब्धिः = परमशान्तिः, प्रश्रब्धेरपि = परमशान्तेरपि, उपनिषद=रहस्यम्, प्रीतिः=
प्रेम, अपि, अवगम्यताम् = ज्ञायताम् ॥ २४ ॥
हिन्दी—शारीरिक और मानसिक सुख का रहस्य परमशान्ति है और परम-
शान्ति का रहस्य प्रीति को जानो ॥ २४ ॥
तथा प्रीतेरुपनिषत् प्रामोद्यं परमं मतम् ।
प्रामोद्यस्याप्यहृल्लेखः कुकृतेष्वकृतेषु वा ॥ २५ ॥
अन्वयः—तथा प्रीतेः उपनिषत् परमं प्रामोद्यं मतम्,. प्रामोद्यस्यापि उपनिषत्
कुकृतेषु अकृतेषु वा अहृल्लेखः ॥ २५ ॥
व्याख्या—तथा = तेनैव रूपेण, प्रीतेः = प्रेम्णः, उपनिषत् = रहस्यम्, परमम् =
उत्तमम्, प्रामोद्यम् = अत्यानन्दम्, मतम् = स्मृतम्, प्रामोद्यस्यापि = आनन्दस्यापि,
उपनिषत् = आधारः, कुकृतेषु = दुवृत्तेषु, अकृतेषु = अपकर्मसु, वा=अथवा, अहृल्लेखः—
हृदि हृदः वा लेखः हृल्लेखः, न हृल्लेखः अहृल्लेखः = अहृत्संसर्गं इति ॥ २५ ॥
हिन्दी—प्रेम का रहस्य परमानन्द माना गया है और आनन्द का भी उपनिषद
है—कुकर्मों और अपकर्मों से मन में पीड़ा का न होना ॥ २५ ॥
अहृल्लेखस्य मनसः शीलं तूपनिषच्छुचिः ।
अतः शीलं नयत्यग्रयमिति शीलं विशोधय ॥ २६ ॥