सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 310, कुल 496 में से
संदर्भ में पढ़ें२५६ सौन्दरनन्द महाकाव्यम्
हिन्दी—संतुष्ट, पवित्र, मधुरभाषी और शुद्ध आजीविका वाला होकर तब तक
दुःख का प्रतीकार करते रहो, जब तक दुःख से मुक्ति न मिल जाय ॥ १६ ॥
नोट—इस श्लोक के दूसरे चरण का अर्थ स्पष्ट नहीं है। इसका अर्थ यह भी
हो सकता है—भूख, प्यास, जाड़ा आदि दुःख का; अन्न, जल, वस्त्र आदि से उतना
ही प्रतीकार करते रहो, जितना मुक्ति के लिए आवश्यक है।
—दुःख प्रतीकार—द्र० बु० च०, ११।३६-४०
कर्मणो हि यथादृष्टात्कायवाक्प्रभवादपि ।
आजीवः पृथगेवोक्तो दुःशोधत्वादयं मया ॥ १७ ॥
अन्वयः—कायवाक्प्रभवात् यथा हि दृष्टात् अपि दुःशोधत्वात् अयम् आजीवः
मया पृथक् एव उक्तः ॥ १७ ॥
व्याख्या—कायवाक्प्रभवात्—कायश्च = शरीरञ्च, वाक् च = वाणी च, तयोः
प्रभवः = समुत्पन्नः, तस्मात् = देहवचनजात्, अपि = चेत्, दुःशोधत्वात् = शोधनस्य =
पावनस्य, दुष्करत्वात् = कष्टसाध्यत्वात्, अयम् = एषः, आजीवः = जीवकः, दृष्टात् =
प्रत्यक्षादपि, मया = बुद्धेन, उक्तः = कथितः । अत्र शरीरवचसोः कर्म एवाजीविकाऽस्ति ।
अष्टाङ्गिके शरीरवचसः कर्मणोऽतिरिक्तां जीविकां पृथगेव स्थानमस्ति; यतो हि
आजीविकायाः शुद्धिःकरणं दुष्करमस्ति ॥ १७ ॥
हिन्दी—देह और वचन का जो कर्म देखा जाता है, उससे भिन्न ही आजीविका
को कहा गया है, क्योंकि आजीविका का शुद्धिकरण कठिन है ॥ १७ ॥
गृहस्थेन हि दुःशोधा दृष्टिर्विविधदृष्टिना ।
आजीवो भिक्षुणा चैव परेष्व parse... परेष्वायत्तवृत्तिना ॥ १८ ॥
अन्वयः—गृहस्थेन हि विविधदृष्टिना दृष्टिः दुःशोधा परेष्वायत्तवृत्तिना भिक्षुणा
चैव आजीवः ॥ १८ ॥
व्याख्या—गृहस्थेन—गृहे = सदने, तिष्ठतीति गृहस्थस्तेन = गृहस्थाश्रमे स्थितेन
जनेन, हि = इति निश्चयेन, विविधदृष्टिना—विविधम् = अनेकविधम्, दृष्टिः =
दृक्शक्तिः, यस्य सः तेन, दृष्टिः = अवलोकनम्, दुःशोधा—दुःखेन = कष्टेन, शोधा =
संशुद्धिर्यस्य सः, परेष्वायत्तवृत्तिना = अन्याश्रितजीविकया, भिक्षुणा = परिव्राजकेन,
चैव, आजीवः = आजीविका दुःशोधेति भावः । भिक्षोराजीविका गृहस्थाश्रया भवति,
अतः पराधीनवृत्तेः शोधनं कठिनमस्ति ॥ १८ ॥
हिन्दी—अनेक दृष्टिकोण वाले गृहस्थों की दृष्टि का पवित्रीकरण जैसे कठिन है,
उन पर आश्रित भिक्षुवृत्ति का शुद्धिकरण भी उसी तरह कठिन है ॥ १८ ॥
एतावच्छीलमित्युक्तमाचारोऽयं समासतः ।
अस्य नाशेन नैव स्यात् प्रव्रज्या न गृहस्थता ॥ १९ ॥
अन्वयः—एतावत् शीलम् इति उक्तं समासतः अयम् आचारः अस्य नाशेन न
प्रव्रज्या न गृहस्थतेति ॥ १९ ॥