सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 271, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 271

स्वर्गापवादः ] एकादशः सर्गः २१७
व्याख्या—तथा=तेनैव प्रकारेण, लोलेन्द्रियः—लोलानि = चपलानि, इन्द्रियाणि =
करणानि, यस्य सः, दयितेन्द्रियगोचरः—दयिताम् प्रति = कामिनीम्प्रति, आसक्तानि
सन्ति, इन्द्रियाणि = करणानि, यस्य सः, गोचरः भूत्वा, इन्द्रियार्थवशात् = करणार्थ-
वशेन, एव नियतेन्द्रियः = संयतेन्द्रियः, बभूव = अभवत् ॥ ३ ॥
हिन्दी—इस प्रकार चपलेन्द्रिय तथा कामासक्त होकर भी इन्द्रियों के लिए ही
उसने इन्द्रियों का नियन्त्रण किया ॥ ३ ॥
कामचर्यासु कुशलो भिक्षुचर्यासु विक्लवः ।
परमाचार्यविष्टब्धो ब्रह्मचर्यं चचार सः ॥ ४ ॥
अन्वयः—कामचर्यासु कुशलः भिक्षुचर्यासु विक्लवः सः परमाचार्यविष्टब्धः
ब्रह्मचर्यं चचार ॥ ४ ॥
व्याख्या—कामचर्यासु = विषयोपभोगेषु, कुशलः = प्रवीणः, भिक्षुचर्यासु = परि-
व्राजकव्रतपालनेषु, विक्लवः = विरक्तः, सः=नृपनन्दः, परमाचार्यविष्टब्धः—परम-
श्चासौ आचार्यः परमाचार्यः = उत्कृष्टगुरुः, तस्य विष्टब्धः = आश्रितः, ब्रह्मचर्यम् =
अष्टाङ्गमैथुनप्रतिषेधव्रतम्, चचार = आचरितवान् ॥ ४ ॥
हिन्दी—नृपनन्द कामोपभोग में प्रवीण तथा परिव्राजक-व्रतपालन में विरक्त था,
किन्तु श्रेष्ठ गुरु के सान्निध्य में उसने ब्रह्मचर्य व्रत का पालन किया ॥ ४ ॥
संवृतेन च शान्तेन तीव्रेण मदनेन च ।
जलाग्नेरिव संसर्गाच्छशाम च शुशोष च ॥ ५ ॥
अन्वयः—संवृतेन शान्तेन च तीव्रेण मदनेन च जलाग्नेः संसर्गात् इव शशाम च
शुशोष च ॥ ५ ॥
व्याख्या—संवृतेन = संयमनेन, शान्तेन = शमितेन, च = पुनः, तीव्रेण = अति-
शयेन, मदनेन = कामेन, च = पुनः, जलाग्नेः = जल-ज्वलनस्य, संसर्गात् = सम्पर्कात्,
इव = सदृशः, शशाम = शमितोऽभवत्, च = पुनः, शुशोष = शुष्को बभूव ॥ ५ ॥
हिन्दी—जल के संस्पर्श की तरह शान्ति और संयम से उसे जहाँ शान्ति मिलती
थी, वहीं आग के स्पर्श की तरह तीव्र वासना से वह झुलस रहा था ॥ ५ ॥
स्वभावदर्शनीयोऽपि वैरूप्यमगमत् परम् ।
चिन्तयाप्सरसां चैव नियमेनायतेन च ॥ ६ ॥
अन्वयः—स्वभावदर्शनीयः अपि अप्सरसां चिन्तया चैव आयतेन नियमेन च
परं वैरूप्यम् अगमत् ॥ ६ ॥
व्याख्या—स्वभावदर्शनीयः=निसर्गतो मनोहरोऽपि, अप्सरसाम्—अद्द्भ्यः सरन्ति=
उदगच्छन्ति ( अप् + सृ + असुन्, तु० रा० 'अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः ।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवत्' ॥ )=स्वर्वेश्यानाम्, चिन्तया चैव = उद्वेगेन चैव,