सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 238, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 238

१८४ सौन्दरनन्दं महाकाव्यम्
यदा शरीरे न वशोऽस्ति कस्यचिन्न्निरस्यमाने विविधैरुपप्लवैः ।
कथं क्षमं वेत्तुमहं ममेति वा शरीरसंज्ञं गृहमापदामिदम् ॥ ३६ ॥
अन्वयः—यदा विविधैः उपप्लवैः निरस्यमाने शरीरे कस्यचित् नरस्य वशः
नास्ति, शरीरसंज्ञम् इदम् आपदां गृहं अहं ममेति वा कथं वेत्तुम् क्षमम् ॥ ३६ ॥
व्याख्या—यदा=यस्मिन् काले, विविधैः=अनेकैः, उपप्लवैः=उत्पातैः, निरस्यमाने
=सम्पीडिते, शरीरे=देहे, कस्यचित्=कस्यापि, नरस्य=पुरुषस्य, वशः=
अधिकारः, नास्ति=न विद्यते, तदा शरीरसंज्ञम्=देहाभिधानम्, इदम्=एतत्, आपदाम्
=विपत्तौ, गृहम्=निधानम्, 'अहम् मम' इति वा=स्वत्वम्, स्वामित्वमिति वा,
कथम्=केन रूपेण, वेत्तुम्=ज्ञातुम्, क्षमम्=समर्थमस्ति ॥ ३६ ॥
[