सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

सिद्ध स्थान में उस शङ्खजनित शब्द स्थान से द्विगुणित स्वयं व्यक्त स्थान से
वह 'त्रिगुण वैष्णव क्षेत्र' कहा जाता है ॥ ११८ ॥
फलं सालोक्यतापूर्वं परिज्ञेयं क्रमाद् यतः ।
वैष्णवक्षेत्रस्य स्वयंव्यक्तत्वाभेदेन सालोक्यादि-फलप्रदत्वमाह—देहान्त इति
त्रिभिः पादैः । यतो वैष्णवक्षेत्रादित्यर्थः । सालोक्यता-पूर्वमित्यत्र पूर्वपदेन सामीप्य-
सारूप्यसायुज्यानि गृह्यन्ते । क्रमाद् मानुषादिक्रमेणेत्यर्थः ।
ननु देवतान्तरप्राप्तौ हि सालोक्यादिभेदावाप्तिः, भगवत्प्राप्तौ तु “परमं साम्य-
मुपैति” (मुण्ड० ३।१।३), “मम साधर्म्यमागताः” (भ०गी० १४।१), “भोग-
मात्रसाम्यलिङ्गाच्च” (ब्रह्म० ४।४।११) इति श्रुतिस्मृतिसूत्रैः सालोक्यादिचतुष्टय-
मध्येकैकस्यैव संभवतीति प्रतिपादितम् । अत्रोक्तं सालोक्याद्येकैकफलभेदमात्रावाप्ति-
कथनं कथं तद्विरुद्धमिति चेत्, सत्यम् । इयमाशङ्का निगमान्तदेशिकैरेव सच्चरित्र-
रक्षायां परिहृता । तथाहि—“भगवत्प्राप्तावपि विष्णुलोकादिषु द्वारपालादिष्विव
तथाविधभेदोऽस्तीति तदपेक्षिणां प्राप्यभेदद्योतनाय पृथङ्निर्देशः । यथाहुः—
लोकेषु विष्णोर्निवसन्ति केचित् सामीप्यमिच्छन्ति च केचिदन्ये ।
अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः ॥
इति (पृ० ३१)
यद्वा क्रमादित्यत्र सालोक्यसामीप्यादिक्रमेणेत्यर्थवर्णने नास्त्येतदाशङ्काया एवा-
वकाशः, सर्वस्यापि क्षेत्रस्य सालोक्यादिफलचतुष्टयप्रदत्वसम्भवात् ॥ ११९ ॥
उस वैष्णव क्षेत्र का स्वयं व्यक्तत्वादि भेद से सालोक्यादि प्रदत्त्व कहते हैं—
इन वैष्णव क्षेत्रों का फल सालोक्य, सामीप्य, सायुज्य और सारूप्यादि मुक्ति प्रदान
समझना चाहिये ॥ ११९ ॥
सालोक्यादिमोक्षविचारः
दुष्टेन्द्रियवशाच्चित्तं नृणां यत्कल्मषैर्वृतम् ॥ ११९ ॥
तदन्तकाले संशुद्धिं याति नारायणालये ।
व्रतान्येतानि यः कुर्यादभिसन्धाय चेतसा ॥ १२० ॥
अभीष्टमतितीव्रेण तदाप्नोत्यचिरात् तु सः ।
वैष्णवक्षेत्रस्य मनःपरिशुद्ध्यावहत्वं चाह—दुष्टेति त्रिभिः पादैः । यत इत्यस्या-
प्यनुषङ्गः कार्यः । भगवन्मन्दिरे व्रतानुष्ठानस्य शीघ्रफलप्रदत्वमाह—नारायणालय
इति ॥ ११९-१२१ ॥
श्रद्दधानैरतस्तस्माद् दृष्टादृष्टफलाप्तये ॥ १२१ ॥
व्रतान्येतानि कर्तव्यान्यभिसन्धाय चेतसा ।
अत एतेषां व्रतानामवश्यानुष्ठेयत्वमाह—श्रद्दधानैरिति ॥ १२१-१२२ ॥

सप्तमः परिच्छेदः १५९
जिन मनुष्यों का चित्त दुष्ट इन्द्रियों के कारण पाप समन्वित रहता है वह इस
नारायण क्षेत्र में मृत्यु होने से शुद्ध हो जाता है । जो चित्त से अच्छी प्रकार विचार
कर इन व्रतों को करता है, वह इस व्रत के अत्यन्त तीव्र प्रभाव से शीघ्रातिशीघ्र
अभीष्ट प्राप्त करता है, इसलिये श्रद्धालु पुरुष समस्त दृष्टादृष्ट फल प्राप्ति के लिये
अपने चित्त को दृढ़ कर इन व्रतों को अवश्य करे ॥ ११९-१२२ ॥
नावसादस्तु कर्तव्यो व्रतभङ्गात् कदाचन ॥ १२२ ॥
सङ्कल्पादेव भगवांस्तत्त्वतो भावितात्मनाम् ।
व्रतान्तमखिलं कालं सेचयत्यमृतेन तु ॥ १२३ ॥
आरब्धे व्रते मध्ये येन केनापि हेतुना विघ्नितेऽपि ततो न भेतव्यम् । यतो व्रतं
करिष्यामीति संकल्पमात्रादेवारभ्य व्रतसमाप्तिपर्यन्तं यावदनुष्ठानं संभवति, तावतैव
फलसिद्धिर्भवतीत्याह—नावसाद इति सार्धेन । अवसादो न कार्यः, अधैर्यं नाधि-
गन्तव्यमित्यर्थः । अयमेवार्थो वङ्गिवंशेश्वरैः प्रतिपादितः सच्चरित्ररक्षायामुदाहृतः—
एवमेकदिनं वाथ द्विदिनं त्रिदिनं तु वा ॥
मासं संवत्सरं वापि यावज्जीवितमेव वा ।
वर्तेत भक्त्या परया वैष्णवः सुचिरं सुखी ॥
प्रारब्धे मध्यतो विघ्नाद् विच्छिन्नेऽप्यत्र कर्मणि ।
नानर्थो न च नैष्फल्यं न कृतांशस्य संक्षयः ॥
प्रारब्धेष्वसमाप्तेषु विच्छिन्नेष्वन्यकर्मसु ।
भवत्येवैतदखिलं वैदिकेष्वितरेष्वपि ॥
कृतः स्वल्पांशकोऽप्यस्य स्थित्वा सुचिरमक्षयः ।
त्रायते च स्वकर्तारं स्वशक्त्या भवभीतितः ॥ इति ।
नन्विदं भगवदाराधनविषयम्, नहि व्रतानुष्ठानविषयमिति चेन्न, अस्य व्रतस्यापि
भगवदाराधनरूपत्वात्, भगवदाराधनस्यापि शातवार्षिकव्रतरूपत्वात् । अत एवं वङ्गि-
वंशेश्वरैर्नित्याराधनप्रकरणेऽपि—
त्वदाराधनकामोऽयं व्रतं चरितुमिच्छति ।
संकल्पसिद्धयै भगवन् पूरयाऽस्य मनोरथान् ॥ —(श्लो० ३९)
इति व्रतविधाने वक्ष्यमाण (८।७-८) श्लोकस्यैव संगृहीतत्वादुभयोरप्यविशेषो
बोध्यः ॥ १२२-१२३ ॥
ज्ञात्वैवं बद्धलक्ष्येण भवितव्यं सदैव हि ।
प्राप्तये सर्वकामानां संसारभयभीरुणा ॥ १२४ ॥
॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां अमन्त्रकव्रतनाम
सप्तमः परिच्छेदः ॥ ७ ॥

१६० सात्वतसंहिता
इममर्थं ज्ञात्वा निखिलं पुरुषार्थप्राप्त्यर्थं भगवति दृढचित्तेन भवितव्यमित्याह—
ज्ञात्वेति ॥ १२४ ॥
॥ इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य
योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते
सात्वततन्त्रभाष्ये सप्तम परिच्छेदः ॥ ७ ॥
— ❦ —
यदि कदाचित् किसी कारणवश इस व्रत में विघ्न पड़ जाये तब भी साधक
को भयभीत नहीं होना चाहिये क्योंकि जिसने व्रत का संकल्प ले कर उसके
समाप्ति पर्यन्त का अनुष्ठान ले लिया है वह विघ्नित होने पर भी उस अनुष्ठान
को पूरा करे क्योंकि 'भगवान् उस व्रत को अन्त काल तक अमृत से सींचते रहते
हैं'—ऐसा समझ कर अपनी कामना की प्राप्ति के लिये तथा संसार से भयभीत
होकर साधक अपने व्रतानुष्ठान के लक्ष्य में भी स्थिर रहे ॥ १२२-१२४ ॥
॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के अमन्त्रकव्रत
नामक सप्तम परिच्छेद की हिन्दी समाप्त हुई ॥ ७ ॥
— ❦ —

अष्टमः परिच्छेदः
समन्त्रकव्रतविधिः
श्रीभगवानुवाच
व्रतमेतदमन्त्रं च सामान्यं सार्वलौकिकम् ।
सितेतरविभागेन प्रोक्तं मन्त्रद्वय शृणु ॥ १ ॥
अथाष्टमो व्याख्यास्यते । पूर्वममन्त्रकं व्रतमुक्तम्, इदानीं समन्त्रकं शृण्वित्याह—
व्रतमिति । सामान्यं सार्वलौकिकं ब्राह्मणादिचतुर्वर्णानामिति साधारणमित्यर्थः ।
समन्त्रकं व्रतं तु ब्राह्मणमात्रकार्यम् । उक्तं खलु (प्रथमे? द्वितीये) परिच्छेदे—
व्यामिश्रयागयुक्तानां विप्राणां वेदवादिनाम् ॥
समन्त्रे तु चतुर्व्यूहे अधिकारो न चान्यथा ।
त्रयाणां क्षत्रियादीनां प्रपन्नानां च तत्त्वतः ॥
अमन्त्रमधिकारस्तु चतुर्व्यूहक्रियाक्रमे । (२।८-१०) इति ॥ १ ॥
श्री भगवान् ने कहा—हे सङ्कर्षण! यह सार्वलौकिक एवं सामान्य अमन्त्रक
व्रत कहा गया है । सामान्य तथा सार्वलौकिक इसलिये है कि ब्राह्मणादि चारों वर्णों
के लिये अनुष्ठेय है । किन्तु आगे कहा जाने वाला वक्ष्यमाण व्रत 'समन्त्रक व्रत'
है और केवल ब्राह्मण मात्र के लिये कर्तव्य है ॥ १ ॥
प्राग् गुरुं प्रार्थयित्वा तु दृष्टादृष्टप्रदः स हि ।
ज्ञात्वा स्थिरमतिं कुर्यात् तदर्थे चक्रमण्डलम् ॥ २ ॥
प्रथमं शिष्यो गुरुं प्रार्थयेत्, गुरुः शिष्यं स्थिरबुद्धिं ज्ञात्वा तद्व्रतार्थं मण्डलं
विलिखेदित्याह—प्रागिति । प्रार्थयित्वा कृतकृत्यो भवेदिति भावः ॥ २ ॥
प्रथमतः शिष्य गुरु की प्रार्थना करे, क्योंकि गुरु दृष्ट एवं अदृष्ट दोनों प्रकार
के फलों को देने वाला है । तदनन्तर गुरु शिष्य को वैष्णव धर्म के लिये
स्थिरबुद्धि समझ कर शिष्य के लिये चक्र मण्डल का निर्माण करे ॥ २ ॥
चातुरात्म्यार्चनम्, अङ्गमन्त्रार्चनञ्च
तन्मध्ये चतुरात्मा तु यष्टव्यः कर्णिकोपरि ।
चतुर्दिक्ष्वीक्षमाणस्तु वासुदेवादितः क्रमात् ॥ ३ ॥

२. द्वितीय भाग (परिच्छेद ७-१३): मन्त्र-न्यास, दीक्षा-विधान एवं अन्तर्याग

१६२ सात्वतसंहिता
तन्मण्डलमध्ये कर्णिकोपरि वासुदेवादिचातुरात्म्यार्चनं कार्यमित्याह—तन्मध्य
इति ॥ ३ ॥
उस मण्डल के मध्य में कर्णिका के ऊपर वासुदेवादि चातुरात्म्य का क्रमशः
चारों दिशाओं में अर्चन करे ॥ ३ ॥
हृदादिनेत्रपर्यन्तमङ्गषट्कं यजेत् ततः ।
अर्घ्यादिभिः क्रमाद् भोगैर्व्रतज्ञेन पुराहृतैः ॥ ४ ॥
तदनन्तरमङ्गमन्त्रार्चनं वासुदेवादीनामर्घ्यादिभिः पूजनं चाह—हृदादीति ।
अङ्गमन्त्राणामर्चनस्थानं तु—
तदोदितं विभोर्देहाद् हृदयाद्यं चतुष्टयम् ॥
न्यसेत् कमलपत्राणामा पूर्वाद्युत्तरान्तिमम् ।
अग्नीशरक्षोवायव्यदलेष्वस्त्रं यथाक्रमम् ॥
नेत्रं केसरजालस्थं चक्रं नाभित्रयोपरि । (१७।६५-६७)
इति नृसिंहकल्पे वक्ष्यमाणं ज्ञेयम् ॥ ४ ॥
तदनन्तर हृदय से लेकर नेत्र पर्यन्त स्थान में षडङ्गन्यास करे । फिर पहले
से एकत्रित अर्घ्यादि भोगों से उन वासुदेवादि का अर्चन करे ॥ ४ ॥
ततः कुण्डान्तरे चैव संस्कृतेऽग्नौ च विन्यसेत् ।
चक्रं मन्त्रगणोपेतं समिद्भिस्तर्पयेत् क्रमात् ॥ ५ ॥
पश्चात् तण्डुलसंमिश्रैः सघृतैर्बहुभिस्तिलैः ।
सचक्रमण्डलस्य भगवतोऽग्निमध्ये ध्यानं सन्तर्पणं चाह—
तत इति सार्धेन ॥ ५-६ ॥
इसके बाद कुण्ड के भीतर स्थापित अग्नि में न्यास करे । तदनन्तर समस्त
मन्त्रगणों से युक्त चक्र का क्रमशः समिधाओं से तर्पण करे । इसके बाद तण्डुल
मिश्रित अधिकाधिक घृत और तिलों से होम करे ॥ ५-६ ॥
अर्घ्योदकेन शिरसा पवित्रीकृत्य साम्प्रतम् ॥ ६ ॥
नतजानुशिरः शिष्यं कृत्वासौ श्रावयेत् प्रभुम् ।
त्वदाराधनकामोऽयं व्रतं चरितुमिच्छति ॥ ७ ॥
सङ्कल्पसिद्धयै भगवन् पूरयास्य मनोरथान् ।
इति विज्ञाप्य देवेशं ततः पुष्पाणि दापयेत् ॥ ८ ॥
ततः शिष्यं शिरोमन्त्रेण प्रोक्ष्य तं नतजानुशिरस्कं कृत्वा त्वदाराधनश्लोकं
विज्ञाप्य शिष्याञ्जलिस्थपुष्पाणि मण्डलोपरि प्रदापयेदित्याह—अर्घ्योदकेनेति सार्ध-
द्वाभ्याम् । यद्यप्यस्मिन् त्वदाराधनकामोऽयमित्यादिश्लोके व्रतशब्दस्य विद्यमानत्वात्,

अष्टमः परिच्छेदः १६३
अयमस्येति पदद्वयेन पुरोव(र्ति)शिष्यस्योक्तत्वाच्च व्रतप्रकरण एवाचार्येण विज्ञापनीयो-
ऽयं श्लोकः, तथापि नित्याराधनस्यापि शातवार्षिकव्रतरूपत्वात्, अयमस्येति पद-
द्वयस्य स्वात्मव्यवहारेऽपि योग्यत्वाच्च वङ्गिवंशेश्वरकृतनित्यार्चनकारिकादिष्वप्ययं
श्लोकः प्रतिपादितः । अतोऽस्मत्तातपादैरपि सात्वतामृते चोक्त इति बोध्यम् ॥ ६-८ ॥
इसके बाद अर्घ्यादिक से तथा शिरो मन्त्र से शिष्य का प्रोक्षण करे । फिर
शिष्य को साष्टाङ्ग सिर झुका कर उसके लिये प्रभु से गुरु प्रार्थना करे । हे
भगवन् ! यह मेरा शिष्य आप की आराधना करने के लिये व्रताचरण करना चाहता
है । अतः हे भगवन् ! इसके संकल्प की सिद्धि के लिये आप इसका मनोरथ पूर्ण
करें । भगवान् से इतना निवेदन करने के बाद शिष्य से अञ्जलिस्थ पुष्पों को प्रदान
करवाये ॥ ६-८ ॥
अष्टाङ्गमथ वै कुर्यात् प्रणामं सप्रदक्षिणम् ।
भूयो भूयोऽनवच्छिन्नं भक्तिश्रद्धापुरस्सरम् ॥ ९ ॥
प्रदक्षिणप्रणामावाह—अष्टाङ्गमिति । चतुर्मूर्तीनामपि चतुर्वारं प्रणामस्य कर्तव्य-
त्वाद् भूयो भूय इत्युक्तम्, नैतावताऽसकृत् प्रणामसिद्धिः ॥ ९ ॥
ततस्तस्योपदेष्टव्यं विधानं मन्त्रपूर्वकम् ।
सान्तं षष्ठस्वरारूढमनुस्वारविभूषितम् ॥ १० ॥
बीजमाद्यस्य च विभोर्वासुदेवस्य कीर्तितम् ।
तदेव जीवबीजस्थं षष्ठस्वरविवर्जितम् ॥ ११ ॥
द्वितीयस्वरसंयुक्तं सङ्कर्षणस्य बीजराट् ।
उभयोरन्तरे रेफमाद्यबीजस्य योजयेत् ॥ १२ ॥
बीजं प्रद्युम्ननाथस्य तृतीयं सर्वकामदम् ।
जीवारूढं हकारं तु लान्तस्योपरि विन्यसेत् ॥ १३ ॥
विसर्गसहितं बीजमनिरुद्धस्य वाचकम् ।
द्विभुजाः सर्व एवैते सूर्येन्दुशतसन्निभाः ॥ १४ ॥
शिष्यस्य व्रतार्थं मन्त्रोपदेशमाह—तत इत्यर्धेन । वासुदेवादिबीजचतुष्टयमाह—
सान्तमिति चतुर्भिः । सान्तं सकारान्ते स्थितं हकाराख्यं वर्णं षष्ठस्वरारूढम्,
ऊकारान्वितम् अनुस्वारविभूषितं बिन्दुसंयुक्तम् । तथा च हूमिति वासुदेवस्य बीजं
भवति । तदेव हकाराख्यं वर्णमेव । जीवबीजस्थं सकारान्वितम्, षष्ठस्वरविवर्जितम्
= ऊकाररहितम्, द्वितीयस्वरसंयुक्तम् = आकारान्वितम् । तथा च ह्सामिति सङ्कर्षणस्य
बीजं भवति । आद्यबीजस्य वासुदेवबीजस्य, उभयोरन्तरे हकारोकारयोरन्तरे, रेफं
योजयेत् । तथा च ह्रूमिति प्रद्युम्नस्य बीजं भवति । जीवारूढं सकारस्थं हकारं
लान्तस्य वकारस्योपरि न्यसेत्, विसर्गसहितम् अन्तिमस्वरसंयुक्तं च कुर्यात् । तथा च
ह्सृवमित्यनिरुद्धबीजं भवति ।

१६४ सात्वतसंहिता
ननु मकारस्य जीवबीजत्वं युक्तं प्रसिद्धं च, सकारस्य जीवबीजत्वं कथमिति
चेदुच्यते—
त्रिधा हकारं कृत्वादौ जीवबीजं तथैव च ॥
ककारं च क्षकारं च लिखेत् तद्वत् त्रिधा त्रिधा । (८।२२-२३)
इति वक्ष्यमाणश्लोकस्थितजीवबीजशब्दस्य पारमेश्वरे—
नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ॥
त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा । (२४।७७-७८)
इति सकारपरत्वं सुस्पष्टं व्याख्यातं पश्यतु भवान् । किञ्च,
वासुदेवाख्यया होऽभूत् साख्यः सङ्कर्षणोदयः ॥
प्रद्युम्नः षाख्यया ज्ञेयो ह्यानिरुद्धस्तु शाख्यया । (१९।३१-३२)
इति लक्ष्मीतन्त्रोक्तरीत्या सकारस्य सङ्कर्षणबीजत्वाद् जीवबीजत्वव्यवहारः ।
जीवाधिष्ठातृत्वात् सङ्कर्षणस्य जीवव्यवहारः "वासुदेवात् सङ्कर्षणो नाम जीवो
जायते" (२।२।३९ श्रीभाष्ये) इत्यत्र प्रसिद्धः । तथा च श्रीमद्भाष्ये—
"अत्र जीवमनोऽहङ्कारतत्त्वानामधिष्ठातारः सङ्कर्षणप्रद्युम्नानिरुद्धा इति तेषामेव
जीवादिशब्दैरभिधानमविरुद्धम्" (२।२।४१) इति ॥ १०-१४ ॥
फिर उससे (चार मूर्तियाँ हैं । अतः उनको एक-एक बार प्रणाम करावे ।
इससे असकृत् प्रणाम की सिद्धि नहीं होती) श्रद्धाभक्ति पुरःसर साष्टाङ्ग प्रणाम
तथा प्रदक्षिणा करावे । इसके बाद व्रत के लिये मन्त्रपूर्वक विधान का उपदेश
करना चाहिये ।
अब वासुदेवादि बीज चतुष्टय कहते हैं—सान्त अर्थात् सकार के अन्त में
स्थित हकार, जो षष्ठ स्वर ऊकार से आरूढ़ हो तथा अनुस्वार से विभूषित हो
इस प्रकार 'हूँ' यह वासुदेव का बीज है ॥ ११ ॥
वही हकार वर्ण जब जीव (स) बीजस्थ सकारान्वित हो और षष्ठ स्वर (ऊ)
रहित होकर द्वितीय स्वर (आ) संयुक्त हो तो इस प्रकार 'हसां' यह सङ्कर्षण बीज
निष्पन्न होता है । फिर जब वासुदेव बीज के हकार और ऊकार के मध्य में रेफ्
जोड़ देवे तब इस प्रकार 'ह्रूँ' यह प्रद्युम्न का बीज होता है । यह तृतीय बीज सर्व-
कामप्रद है । जीवारूढ़ अर्थात् सकार पर आरूढ़ हकार, उसके बाद सान्त (वकार)
लिखकर उसे विसर्ग सहित रखे । इस प्रकार 'हस्वँ' यह अनिरुद्ध का बीज होता
है । इस प्रकार वासुदेव, सङ्कर्षण, प्रद्युम्न एवं अनिरुद्ध जो परमात्मा, जीव, मन
एवं अहङ्कार के अधिष्ठाता हैं, उनका बीज कह दिया गया ॥ १२-१४ ॥
वासुदेवादिमूर्तिध्यानकथनम्
तेजसा त्वत्र भेदोऽस्ति स्वरूपेण सितादिना ।
दक्षिणोत्तरपाणिभ्यां तर्जनीमध्यमान्तरे ॥ १५ ॥

अष्टमः परिच्छेदः १६५
आद्यस्य चक्रशङ्खौ द्वौ ध्येयावंसद्वयोपरि।
स्कन्धसूत्रसमस्थेन दक्षिणेन तु पाणिना॥ १६ ॥
गृहीता मुष्टिबन्धेन विश्रान्ता पीठपृष्ठतः।
ध्येया गदा द्वितीयस्य तथाभूते करे परे॥ १७ ॥
संस्मरेद्धेतिराड् दीप्तं लीलाक्षेपक़रोद्यतम्।
एवं प्रद्युम्ननाथस्य व्यत्ययेन तु ते उभे॥ १८ ॥
दक्षिणोत्तरहस्ताभ्यां श्रोत्रमण्डलसम्मुखौ।
शङ्खपद्मौ चतुर्थस्य तथाकृष्टौ तु संस्मरेत्॥ १९ ॥
किन्तु वै पङ्कजं नालमस्य वै पाणिपृष्ठगम्।
वासुदेवादिमूर्तिध्यानप्रकारमाह—
द्विभुजा इत्यारभ्य पाणिपृष्ठगमित्यन्तम्॥ १४-२०॥
अब वासुदेवादि मूर्तियों का ध्यान कहते हैं—ये सभी दो भुजा वाले हैं।
सैकड़ों सूर्य के समान प्रकाशमान हैं। इनके तेज तथा सितादि स्वरूप से भेद है।
भगवान् वासुदेव के दाहिने और बायें हाथ में तर्जनी और मध्यमा अङ्गुलियों में
दोनों कन्धों के ऊपर स्थित चक्र और शङ्ख का ध्यान करे। स्कन्ध सूत्र के साथ
स्थित दाहिने हाथ से गृहीत मुष्टिबन्ध में रहने वाली पीठ से पीछे सङ्कर्षण के गदा
का ध्यान करे और इसी प्रकार अन्य हाथ में लीलापूर्वक हाथ से प्रक्षेपण के लिये
उद्यत जाज्वल्यमान चक्र का भी स्मरण करे। इसी प्रकार भगवान् प्रद्युम्न के
व्यत्यस्त हाथों में स्थित उन दोनों का (गदा और चक्र) का स्मरण करे। चतुर्थ
अनिरुद्ध के दोनों हाथों में क्षोभमण्डल के सामने स्थित शङ्ख एवं पद्म का स्मरण
करे। किन्तु पङ्कज का नाल इनके पीछे है ऐसा स्मरण करे॥ १४-२०॥
वासुदेवादीनां हृदयाद्यङ्गमन्त्र बीजकथनम्
हकारं च सकारस्थं कृत्वा षोढा निवेश्य च॥ २० ॥
द्वितीयतुर्यषष्ठाष्टद्विष्ट्कदशकैः क्रमात्।
स्वरैर्नियोजयेद् विद्धि हृदाद्यान्नेत्रपश्चिमान्॥ २१ ॥
चातुरात्मीयमन्त्राणां साधनत्वेन सर्वदा।
अथ वासुदेवादीनां चतुर्णामपि साधारणानि हृदयाद्यङ्गमन्त्रबीजान्याह—हकार-
मिति द्वाभ्याम्। हकारं सकारस्थं कृत्वा षोढा विलिख्य द्वितीयतुर्यषष्ठाष्टद्विष्ट्क-
दशकैः स्वरैः, आकारेण ईकारेण ऊकारेण ॠकारेण ऐकारेण लृकारेण च क्रमेण
योजयेत्। तथा च ह्सां ह्सीं ह्सूं ह्सॄं ह्सैं ह्सॢं इति बीजषट्कं भवति।
एतद् हृदादिनेत्रमन्त्रषट्के क्रमाद् योजयेत्। एवं कवचमन्त्रादिबीजत्रयेऽष्टम-
द्वादशदशमस्वराणां संयोजनं क्वाचित्कम्, न सार्वत्रिकम्। यतोऽत्रैव नृसिंहकल्पे—

१६६ सात्वतसंहिता
द्वितीयतुर्यषष्ठैश्च द्वादशेनान्तिमेन च।
चतुर्दशेनानाराद्गार्त्ति क्रमाद्वै विनियोजयेत् ॥ (१७।९)
इति कवचादिबीजत्रयस्य स्वरान्तसंयोजनमपि वक्ष्यति ॥ २०-२२ ॥
अब वासुदेवादि चारों मूर्तियों के हृदयाद्यङ्ग के बीजमन्त्रों को कहते हैं—
हकार को सकार में मिलाकर १६ बार लिखें, फिर द्वितीय (आ), तुर्य (ईकार),
षष्ठ (ऊकार), अष्टम (ॠकार), द्विषट्क (ऐकार) एवं दशक (ॡकार) से क्रमशः
संयुक्त करे। इस प्रकार हसां, हसीं, हसूं, हसॄं, हसैं, हसॢं इतने बीजमन्त्र निष्पन्न
होते हैं। इनको हृदयादि नेत्रान्त मन्त्र षट्क में संयुक्त करे। ये चातुरात्मीय मन्त्रों
के साधन हैं ॥ २०-२२ ॥
केशवादीनां द्वादशबीजकथनम्
त्रिधा हकारं कृत्वादौ जीवबीजं तथैव च ॥ २२ ॥
ककारं च क्षकारं च लिखेत् तद्वत् त्रिधा त्रिधा।
द्विषट्कमेव बीजानां क्रमादादौ निवेश्य च ॥ २३ ॥
ततो वायुधरावारिसंज्ञं यच्चाक्षरत्रयम्।
पौनःपुन्येन सर्वेषामधोभागे नियोजयेत् ॥ २४ ॥
सर्वे षष्ठस्वरारूढा अनुस्वारविभूषिताः।
बोद्धव्याः केशवादीनां बीजास्त्वेते पृथक् पृथक् ॥ २५ ॥
अथ केशवादीनां द्वादशबीजान्याह—त्रिधेति सार्धैस्त्रिभिः। आदौ त्रिधा त्रिवारं
हकारं विलिख्य, तथैव जीवबीजं सकारं विलिख्य, ककारं क्षकारं तद्वत् त्रिधा
विलिखेत्। एवं बीजानां द्विषट्कमादौ निवेश्य वायुधरावारिसंज्ञं यदक्षरत्रयं यकार-
लकारवकारत्रयम्, सर्वेषां पूर्वं विलिखितद्वादशबीजानामधोभागे पौनःपुन्येन योजयेत्।
सर्वे षष्ठस्वरारूढा ऊकारान्विताः, अनुस्वारविभूषिता बिन्दुयुक्ताः केशवादिबीजा
ज्ञेयाः। तथा चैवं प्रयोगः—ह्यूं ह्लूं ह्वूं स्यूं स्लूं स्वूं क्यूं क्लूं क्वूं क्ष्यूं क्ष्लूं क्ष्ष्वूं इति।
अयमेवार्थः पारमेश्वरेऽपि सुस्पष्टमुपबृंहितश्चतुर्विंशेऽध्याये—
क्रमशः केशवादीनां मन्त्राणां लक्षणं शृणु।
नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ॥
त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा।
पौनःपुन्येन सर्वेषां यलवान् योजयेदधः ॥
नाभिषष्ठासनोर्ध्वस्थानङ्गयेद् बिन्दूनोपरि।
तारादिहृदयान्तानि संज्ञाभिस्तुर्यया सह ॥
केशवः प्रथमो वाच्यस्ततो नारायणः परः।
माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः॥
त्रिविक्रमो वामनाख्यः श्रीधरः पद्मलोचनः।
हृषीकेशः पद्मनाभो दामोदर इति श्रुतः॥

अष्टमः परिच्छेदः १६७
बीजैर्दीर्घस्वरोपेतैः प्राग्वदङ्गानि कल्पयेत् । इति ।
—(पा०सं० २४।७७-८२)
अत्र नेमौ नवमं हकारमित्यर्थः । अष्टमं सकारम् । अराद्यं ककारम् । मातृका-
न्तिमं क्षकारमित्यर्थः । नाभिपष्ठासनोध्वंस्थानि ऊकारान्वितानीत्यर्थः । हृदयान्तानि
नमःपदान्तानीत्यर्थः । एवं च सात्वतोक्तं पारमेश्वरोक्तं चैककण्ठ्यम् । पारमेश्वरे
व्याख्याने तु—सं हं कं क्षं सं हं कं क्षं सं हं कं क्षं इति केशवादिबीजानि लिखितानि ।
तान्यपहास्यानि, यतो हकारात् पूर्वं सकारलेखनं हकारादीनां प्रत्येकं त्रिधा त्रिधा लेखनं
विना परस्परवर्णव्यवहितलेखनं बीजैकदेशमात्रमपि लेखनं चोन्मत्तकार्यम् ॥२२-२५॥
अब केशवादिकों के बीज मन्त्रों को कहते हैं—तीन बार हकार लिखे फिर
तीन बार जीव बीज (सकार) लिखे इसी प्रकार तीन बार ककार और क्षकार
लिखे। इसी प्रकार १२ बीजाक्षरों को लिखकर वायु, धारा एवं वारिसंज्ञक यकार,
लकार तथा वकार इन तीनों को एक-एक कर द्वादश बीजों में संयुक्त करे । उसके
बाद उन सभी पर षष्ठ स्वर (ऊकार) लगा देवे । तदनन्तर उसे अनुस्वार से
विभूषित कर देवे । इस प्रकार केशवादि के मन्त्र निष्पन्न हो जाते हैं ।
बीज मन्त्रों का स्वरूप ह्यूं ह्लूं ह्वूं, स्यूं स्लूं स्वूं, क्युं क्लूं क्वूं, क्ष्यूं क्ष्लूं
क्ष्वूं—ये केशवादि के द्वादश बीज मन्त्र हैं ॥ २२-२५ ॥
क्षसहत्रितयं ह्येतच्चतुर्धा विलिखेत् क्रमात् ।
ततो द्विषट्कं बीजानां तस्याधो विनिवेश्य च ॥ २६ ॥
क्रमेण सप्तमाद् वर्गाद् द्वितीयं च चतुर्थकम् ।
पुनस्तृतीयं तुर्यं च द्वितीयं च तृतीयकम् ॥ २७ ॥
द्वितीयं च चतुर्थं च चतुर्थं तदनन्तरम् ।
तृतीयमष्टमाच्चाथ तृतीयं सप्तमात् पुनः ॥ २८ ॥
नवमद्वादशाभ्यां तु विशेषमिममाचरेत् ।
अथो नियोजयेद् रेफं तत्त्रयाणां तु मूर्धनि ॥ २९ ॥
षट्सप्तमाष्टसंज्ञानामीकारमुपरि न्यसेत् ।
सानुस्वारं च सर्वेषामिति देवीगणस्य च ॥ ३० ॥
बीजद्वादशकं प्रोक्तं यथा चानुक्रमेण तु ।
श्रीश्च वागीश्वरी कान्तिः क्रियाशक्तिर्विभूतयः ॥ ३१ ॥
इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च ।
ततः केशवादिदेवीनां बीजद्वादशकमाह—क्षसहत्रितयमित्यादिभिः । क्षसहत्रयं
क्षकारसकारहकारत्रयमपि क्रमेण चतुर्धा चतुर्वारं विलिखेत् । एवं कृते बीजानां
द्विषट्कं भवति । तेषां बीजानामधस्तात् क्रमेण सप्तमाद्वर्गाद् यरलवात्मकाद् द्वितीयं

१६८ सात्वतसंहिता
रेफम्, चतुर्थकं वकारम्, तृतीयं लकारम्, तुर्यं वकारम्, द्वितीयं रेफम्, तृतीयकं
लकारम्, द्वितीयं रेफम्, चतुर्थं वकारम्, पुनश्चतुर्थं वकारम् । अष्टमात् शकारादि-
वर्णात्मकाद् वर्गात् तृतीयं सकारम् । सप्तमात् पूर्वोक्ताद् वर्गात् तृतीयं लकारं
पुनरित्यनेन पुनश्च लकारमेव नियोजयेत् । नवमद्वादशाभ्यां बीजाभ्यामधो रेफं
नियोजयेत् । षट्सप्ताष्टसंज्ञानां बीजानां तु मूर्ध्नि रेफं नियोजयेत् । अयमेव विशेषः—
सर्वेषां द्वादशबीजानामप्युपरि सानुस्वारम् ईकारं न्यसेत् । एवं बीजद्वादशकमुक्तं
भवति । एषां बीजानां क्रमेण वाच्याः श्रीवागीश्वर्यादयः । अयमेवार्थः सुव्यक्तमुप-
बृंहितः पारमेश्वरेऽपि—
तेषां श्रियादिकान्तानां शृणु मन्त्राननुक्रमात् ॥
मातृकान्त्यत्रयं क्षाद्यं चतुर्धा प्रस्तरेत् पुरा ।
द्विषट्सु योज्यान्यर्णानि त्वधोभागे यथाक्रमम् ॥
अग्न्यम्बुपृथिवीवारिवह्निभूज्वलनाः क्रमात् ।
वारिद्वयं च सोमं च पार्थिवद्वितयं ततः ॥
योजयेदनलं वर्गं षट्सप्ताष्टसु मूर्धनि ।
अथो नवद्वादशयोः सर्वेषां चोर्ध्वतः पुनः ॥
स्वरशक्त्या समेतेन नाभ्यन्ताद्येन भूषयेत् ।
स्वरजात्यादियुक्तानि बीजानि सुहृदादयः ॥ (२४।८२-८६) इति ।
तथा चात्रैवं प्रयोगः—क्ष्रीं स्वीं हलीं, क्ष्वीं स्त्रीं हर्ली, क्ष्रीं स्वीं ह्रीं, क्षसीं स्लीं
हलीं इति ॥ २६-३२ ॥
अब केशवादि की देवियों का द्वादश बीज कहते हैं—क्ष स ह इन तीन
अक्षरों को चार बार लिखे । ऐसा करने से बारह बीज हो जाते हैं । फिर बीजों के
नीचे क्रमशः सप्तम वर्ग (= य वर्ग) के (य र ल व वर्णों के) द्वितीय वर्ण र,
चतुर्थ वर्ण वकार, तृतीय वर्ण लकार और चतुर्थ वर्ण वकार एवं अष्टम शकारादि
वर्ग से तृतीय सकार पूर्वोक्त सप्तम वर्ग से तृतीय लकार पुनश्च लकार से संयुक्त
करे । फिर नवम एवं द्वादश बीज के नीचे रेफ संयुक्त करे और छ, सात एवं अष्ट
संज्ञक बीजों के ऊपर रेफ लगावे यह विशेष है । सभी द्वादश बीजों के ऊपर
सानुस्वार ईकार लगावे । इस प्रकार केशवादि की देवियों के बारह बीज निष्पन्न हो
जाते हैं । इन बीजों के श्री एवं वागीश्वरी इत्यादि बारह देवियाँ वाच्य हैं । इन
मन्त्रों का स्वरूप इस प्रकार है—क्ष्रीं स्वीं हलीं, क्ष्वीं स्त्रीं हर्ली, क्ष्रीं स्वीं ह्रीं, क्षसीं
स्लीं ह्रीं इति ॥ २५-३१ ॥
अब इनसे वाच्यभूत बारह देवियों को कहते हैं—श्री, वागीश्वरी, कान्ति,
क्रिया, शक्ति, विभूति, इच्छा, प्रीति, रति, माया, धी एवं महिमा ये बारह देवियाँ
इन मन्त्रों से वाच्य है ॥ ३२ ॥
समुद्रमूर्तये स्वाहा पद्मस्य प्रणवादिकः ॥ ३२ ॥
सर्वान्तश्चारिणे कृत्वा ततो गगनमूर्तये ।

अष्टमः परिच्छेदः १६९
स्वाहान्तः प्रणवाद्यश्च मन्त्रः शङ्खस्य कीर्तितः ॥ ३३ ॥
ॐकारो वेदमात्रेऽथ विद्ये स्वाहा पदं तु वै ।
गदामन्त्रस्त्वयं प्रोक्तश्चक्रस्याथ निगद्यते ॥ ३४ ॥
ॐकारान्ते पदं दद्यात् पञ्चार्णं प्रभविष्णवे ।
तदन्ते कालशब्दं तु मूर्त्तये हुँ ततस्तु फट् ॥ ३५ ॥
पद्मादीनां चतुर्णां तु एतन्मन्त्रचतुष्टयम् ।
अथ पद्मशङ्खगदाचक्राणां मन्त्रचतुष्टयमाह—समुद्रमूर्तय इत्यादिभिः । तथा
चात्रैवं प्रयोगः—ॐ समुद्रमूर्तये स्वाहा, ॐ सर्वान्तश्चारिणे गगनमूर्तये स्वाहा, ॐ
वेदमात्रे विद्यायै स्वाहा, ॐ प्रभविष्णवे कालमूर्तये हुँ फट् इति । अत्र समुद्रस्य
पद्माधिष्ठातृत्वात्, गगनस्य शङ्खाधिष्ठातृत्वात्, सरस्वत्या गदाधिष्ठातृत्वात्, कालस्य
चक्राधिष्ठातृत्वाच्च समुद्रमूर्तादिशब्दैः पद्मादीन्युक्तानीति बोध्यम् ।
समुद्रादीनां पद्माद्यधिष्ठातृत्वं त्रयोदशपरिच्छेदे वक्ष्यमाणं द्रष्टव्यम् । इदं
पद्मादिमन्त्रचतुष्टयं वासुदेवादिव्यूहार्चने केशवादिव्यूहान्तरार्चने च कार्यम् । विभवार्चने
तु प्रकारान्तरेण वक्ष्यमाणायुधमन्त्रा ग्राह्याः । अत एवास्मत्तातपादैः सात्वतामृते
नारायणमूर्त्यर्चनप्रकरणादिदमेव पद्मादिमन्त्रचतुष्टयं प्रतिपादितम् ॥ ३२-३६ ॥
अब पद्म, शङ्ख, गदा तथा चक्र के चार मन्त्रों को कहते हैं—'ॐ समुद्र
मूर्त्तये स्वाहा' यह पद्म का मन्त्र है । 'ॐ सर्वान्तश्चारिणे गगनमूर्त्तये स्वाहा' यह
शङ्ख का मन्त्र है । 'ॐ वेदमात्रे विद्यायै स्वाहा' यह गदा का मन्त्र है तथा 'ॐ
प्रभविष्णवे कालमूर्त्तये हुं फट्' यह चक्र का मन्त्र है । इस प्रकार इन चारों आयुधों
के चार आयुध-मन्त्र कहे गये ॥ ३२-३६ ॥
सर्वमन्त्रसाधारणाञ्जलिमुद्राकथनम्
सामान्या सर्वमन्त्राणामेका मुद्राञ्जलिः कृता ॥ ३६ ॥
स्वेन स्वेन तु मन्त्रेण संयुक्तानां प्रयोजयेत् ।
श्लिष्टौ विकसितौ हस्तौ योज्यौ चामणिबन्धनात् ॥ ३७ ॥
अथ सर्वमन्त्रसाधारणाञ्जलिमुद्रामाह—सामान्येति । यद्यप्येवमञ्जलिमुद्राया एव
सर्वसाधारणत्वोक्त्या सर्वत्रेयमेव प्रयोक्तव्या, तथाप्यत्रैव कतिपयमुद्राविशेषाणां
नृसिंहकल्पादिषु वक्ष्यमाणत्वात् तदनुरोधे (च ? न) सात्वतोपबृंहणे ऐश्वरतन्त्रे च
केषाञ्चिन्मुद्राविशेषाणां प्रदर्शितत्वाच्च तद्व्यतिरिक्तानां केवलमञ्जलिमुद्रैव प्रदर्शनीयेति
बोध्यम् ॥ ३६-३७ ॥
तद्बाहुकूर्परौ द्वौ च नाभौ संरोध्य दण्डवत् ।
ईषद् वै डोलयेत् पश्चादथ ऊर्ध्वे च तौ करौ ॥ ३८ ॥
गुप्तिं कृत्वा तु योज्यैषा मुद्राऽऽराधनकर्मणि ।
सा० सं० - 15

१७० सात्वतसंहिता
आराधनकाले प्रयोज्यां मुद्रामाह—श्लिष्टाविति द्वाभ्याम् । स्वहस्तौ परस्पर-
संश्लिष्टौ विकसितौ च कृत्वा तद्बाहुकूर्परौ द्वौ मणिबन्धपर्यन्तं निरन्तरं संयोज्य
दण्डवत् स्वनाभौ संरोध्य हस्तौ अध ऊर्ध्वं च किञ्चिच्चालयेत् । एषा मुद्रा गुप्तिं कृत्वा
योज्या, गोप्येत्यर्थः ॥ ३७-३९ ॥
अब इसके बाद सर्वमन्त्र साधारण अञ्जलि मुद्रा कहते हैं, इन्हें अपने-अपने
मन्त्र के साथ संयुक्त कर प्रयोग करना चाहिए । अब मुद्रा निर्माण का प्रकार कहते
हैं—दोनों हाथों को फैला कर परस्पर मिला देवे । दोनों बाहुओं के कूर्पर को
मणिबन्ध पर्यन्त नाभि में रोक कर दण्ड के समान स्थापित करे फिर ऊपर कुछ-
कुछ चलाते रहे, यह अञ्जलि मुद्रा है । इस मुद्रा को आराधन कर्म में छिपाकर
करना चाहिये ॥ ३६-३९ ॥
आसाद्य प्राक्स्थितामर्चां स्वयं वासमपृष्ठताम् ॥ ३९ ॥
सर्वलक्षणसम्पन्नां यस्यां चेतः प्रसीदति ।
व्रताराधनार्थं स्वयंव्यक्तान्यतमबिम्बं सलक्षणं सुप्रतिष्ठितं बिम्बं वा स्वेच्छानुसा-
रेण प्राप्यमित्याह—आसाद्येति ॥ ३९-४०॥
अब व्रत की आराधन के लिये बिम्ब का प्रकार कहते हैं—साधक आराधना
के लिये स्वयं व्यक्त बिम्ब अथवा अन्य स्थापित बिम्ब जो सुलक्षण हो एवं
प्रतिष्ठित हो अथवा जिसे देख कर अपना मन प्रसन्न हो जाता हो, ऐसे बिम्ब को
प्राप्त करे ॥ ३९-४० ॥
हेमादिनिर्मितं कुर्यात् पीठं वा लक्षणान्वितम् ॥ ४० ॥
शमं त्रिभागन्यूनं वा द्वादशाङ्गुलविस्तृतम् ।
चतुरश्रं चतुष्पादं विस्तरार्धेन चोन्नतम् ॥ ४१ ॥
तृतीयं भागमादाय विस्तराच्च स्वकं स्वकम् ।
तेन तन्मध्यगं कुर्यात् कमलं लक्षणान्वितम् ॥ ४२ ॥
द्विषट्कारं तु तद्बाह्ये चक्रं सर्वाङ्गचिह्नितम् ।
सिद्धामरनरादीनां हृदयस्थाऽक्षयाऽच्युती ॥ ४३ ॥
मृदूच्चचरणाक्रान्तिनिर्मुक्ताऽऽकृतिलक्षणा ।
पादाम्बुरुहमुद्राऽथ कार्या वै कर्णिकोदरे ॥ ४४ ॥
बिम्बं विनाऽर्चनार्थं केवलपीठं वा कुर्यादिति तल्लक्षणमाह—हेमादिनिर्मित-
मित्यादिभिः । शमं चतुरङ्गुलविस्तृतमित्यर्थः । ‘‘शमः स्याच्चतुरङ्गुलः’’ (३।१।
५२) इति वैजयन्ती । सममिति पाठे समं निम्नोन्नतत्वरहितमित्यर्थः । यद्वा आयाम-
विस्तराभ्यां सममित्यर्थः । त्रिभागन्यूनं वा अष्टाङ्गुलं वेत्यर्थः । द्वादशाङ्गुलस्य
त्रिष्वेकभागराहित्येऽष्टाङ्गुलं भवति । एवमुक्तं द्वितीयपरिच्छेदेऽपि—‘‘मृत्काष्ठोपल-

अष्टमः परिच्छेदः १७१
धातूत्थमेकद्वित्रिशमं तु वा'' (२।४७) इति । द्विषट्कारं द्वादशारमित्यर्थः । सिद्धा-
मरनरादीनां हृदयस्था, तेषां ध्यानविषयीभूतेत्यर्थः । अक्षया अन्तरहिता, आच्युती
भगवदीया, चरणाक्रान्तिनिर्मुक्ताकृतिलक्षणा चरणयोर्राक्रान्तिराक्रमणं पदन्यास इति
यावत्, तेन निर्मुक्ता या आकृतिस्तल्लक्षणा, तथेत्यर्थः । भगवत्पादपद्मस्यातिकोम-
लत्वेऽपि तत्सुखस्पर्शपीठपद्मस्य ततोऽप्यतिशयितमृदुत्वात् तदुपरि पादलाञ्छनं स्फुटी-
भवतीति ज्ञेयम् । पादाम्बुरुहमुद्रा पद्मसदृशश्रीपादद्वन्द्वलाञ्छनमित्यर्थः ॥ ४०-४५ ॥
यदि बिम्ब प्राप्त न हो तब बिम्ब के बिना केवल पीठ पर ही अर्चना करे
जो हेमादि निर्मित हो, सुलक्षण हो, चार अङ्गुल, अथवा आठ अङ्गुल, अथवा
बारह अङ्गुल विस्तार वाला हो, चौकोर हो, चतुष्पद हो, उसकी विस्तार की
अपेक्षा ऊँचाई आधी हो ॥ ४०-४१ ॥
अपने-अपने विस्तार के अनुसार अपना-अपना तृतीय भाग लेकर उसके
मध्य में सुलक्षण कमल निर्माण करे ॥ ४२ ॥
उसके बाहर सर्वाङ्ग चिह्नित बारह अरे के चक्र का निर्माण करे । सिद्ध,
देवता तथा मनुष्यों के चित्त को मोहित करने वाली अक्षया (अन्तरहिता)
कोमलचरण के पदन्यास से अत्यन्त मनोहर आकृति वाली भगवदीया चरणकमल
की मुद्रा उसके कर्णिका के भीतर निर्माण करे ॥ ४२-४४ ॥
सम्पाद्य चैवमाधारं पीठं वाऽर्च्रान्वितं स्मरेत् ।
पादाब्जमुद्रारहितं कुण्डं तदनु कल्पयेत् ॥ ४५ ॥
फुल्लपद्मसमाकारमोष्ठयोनिसमन्वितम् ।
चलमेकदिशिस्थं वा ततो नियममाचरेत् ॥ ४६ ॥
संवत्सरस्य पूजार्थं विभोर्वै द्वादशात्मनः ।
मार्गशीर्षात् समारभ्य मासाद्वै कौमुदान्तिमम् ॥ ४७ ॥
कुण्डलक्षणमाह—पादाब्जेति सपादेन । कुण्डस्य पादाब्जमुद्रारहितत्वोक्त्या
केवलसचक्रपद्मलाञ्छनं कुण्डमध्येऽपि कार्यमित्युक्तं भवति । पादाब्जमुद्रारहित-
मित्यस्य पूर्वेणैवान्वये पीठलक्षणस्यैव पक्षान्तरमुक्तं भवति । ओष्ठयोनिसमन्वित-
मित्यत्र तल्लक्षणं कुण्डलक्षणप्रकरणे वक्ष्यमाणं ज्ञेयम् । चलं जङ्गमरूपमित्यर्थः ।
एकदिशिस्थं स्थावरमित्यर्थः । तथा च पारमेश्वरे—''तस्मात् कुण्डं सदा कार्यं सौत्रं वा
जङ्गमं स्थिरम् (७।३) इति । व्रताचरणमाह—तत इति सपादेन । द्वादशात्मनः
केशवादिरूपस्येत्यर्थः ॥ ४५-४७ ॥
इस प्रकार आधार पीठ का सम्पादन कर उस पर अर्चा से संयुक्त भगवान्
का स्मरण करे । इसके पश्चात् पादाब्जमुद्रा से रहित कुण्ड का निर्माण करे जो
विकसित कमल के सदृश हो, ओष्ठ योनि से समन्वित हो और जङ्गम स्वरूप
वाला हो तथा एक दिशा में स्थित हो ॥ ४५-४६ ॥

१७२ सात्वतसंहिता
इसके बाद साधक व्रताचरण करे। केशवादि रूप वाले द्वादशात्मा विभु की
पूजा के लिये मार्गशीर्ष मास से आरम्भ कर कौमुद मास पर्यन्त व्रताचरण आदि
नियमों का पालन करे ॥ ४७ ॥
मासेशमन्त्रसंजप्तं युक्तं हेमकुशाम्बुना।
दशम्यां पञ्चगव्यं च पिबेत् सम्पूज्य केशवम् ॥ ४८ ॥
तन्निवेदितमन्नं च प्राग्भुक्त्वा तु घृतादिकम्।
नातीव तृप्तिजनकं दन्तकाष्ठमथाचरेत् ॥ ४९ ॥
शयनं मन्त्रतोयेन प्रोक्षयेत् सकुशं ततः।
शयनस्थो जपेन्मन्त्रं शतमष्टाधिकं तु वै ॥ ५० ॥
मार्गशीर्षशुक्लदशम्यां रात्रौ कर्तव्यक्रममाह—मासेति सार्धत्रिभिः। मासेश-
मन्त्रसंजप्तम्, प्रकृतमासेशः केशवः, तन्मन्त्राभिमन्त्रितमित्यर्थः ॥ ४८-५०॥
अब मार्गशीर्ष शुक्ल दशमी की रात्रि का कर्तव्य कर्म कहते हैं—मासेश
मन्त्र (केशव मन्त्र) का कुशा के जल से अभिमन्त्रित कर जप करे। केशव का
जप कर पञ्चगव्य पान करे। भगवान् को निवेदित अन्न तथा घृतादि का भोजन करे
जो बहुत अधिक न हो। इसके बाद दतुअन करे। अपने शयन को सकुश मन्त्र
जल से प्रोक्षित करे। फिर शयन पर स्थित हो कर १०८ की संख्या में मन्त्र का
जप करे ॥ ४८-५० ॥
एकादश्यां प्रभातेऽथ मध्याह्ने वा दिनक्षये।
केशवाय नमस्कुर्याद् बहुशः प्रणवादिकम् ॥ ५१ ॥
एकादश्यां केशवस्य कालत्रयस्यार्चनमाह—एकादश्यामिति सार्धेन। केशवाय
नमस्कुर्याद् बहुशः प्रणवादिकमित्यन्तेन ॐ केशवाय नम इति मन्त्रमसकृज्जपेदित्युक्तं
भवति ॥ ५१ ॥
फिर एकादशी के दिन प्रातःकाल, अथवा मध्याह्न, अथवा सायङ्काल के
समय केशव को नमस्कार करे और अनेक बार प्रणवादि का जप करे ॥ ५१ ॥
तस्य वै पूजनं भक्त्या कुर्यात् कालत्रयं तु वै।
सर्वगं परमं ज्योतिरमूर्तममलं हि यत् ॥ ५२ ॥
स एव वासुदेवेति मत्वा सम्यग् यजेत् ततः।
चेतसामृतसंकाशैः पुष्पाद्यैरखिलैः प्रभुम् ॥ ५३ ॥
पश्चात् तममलं धाम ध्यायेन्मुक्तमनश्वरम्।
श्रोणीतटार्पितकरं सानुकम्प्यमनूपमम् ॥ ५४ ॥
दक्षिणेन तु हस्तेन भक्तानामभयप्रदम्।

अष्टमः परिच्छेदः १७३
पुष्पाभरणवस्त्राढ्यं शङ्खचक्रद्वयान्वितम् ॥ ५५ ॥
ततस्तस्मात्तु वै धाम्नो युगपन्निस्सृतं स्मरेत् ।
महत्स्फुलिङ्गसंकाशं महस्तु सततोदितम् ॥ ५६ ॥
तेन चाक्रमरावृन्दं समाक्रान्तं च भावयेत् ।
अथ प्रत्येकतेजोंऽशादुद्भूतं भावयेत् क्रमात् ॥ ५७ ॥
त्रयं त्रयं सिताद्यं च केशवाद्यं चतुर्भुजम् ।
अथ परात्परवासुदेवस्य मानसार्चनपूर्वकं मूर्तिध्यानम्, तस्माद्वासुदेवाद्दिव्यूहो-
त्पत्तिकथनम्, तेभ्यः केशवादीनामुत्पत्तिभावनां चाह—सर्वगं परमं ज्योतिरित्यादिभिः।
अत्र 'त्रयं त्रयं सिताद्यम्' इत्यनेन केशवादित्रिकस्य वासुदेववत् सितवर्णत्वं गोविन्दादि-
त्रिकस्य सङ्कर्षणवद्रक्तवर्णत्वं चोक्तं भवति । तथा च पौष्करे पञ्चत्रिंशेऽध्याये—
मूर्तित्रयमिदं दिव्यं कुन्देन्दुस्फटिकप्रभम् ।
भगवद्वासुदेवेन सहास्य चतुरात्मता ॥
त्रयमेवं हि देवानां सह वै ज्ञानमूर्तिना ।
चातुरात्म्यद्वितीयं तु पद्मरागोज्ज्वलद्युति ॥
मूर्तित्रितयमेतद् वै सहजस्वामिना द्विज ।
हेमधामप्रभं ज्ञेयं चातुरात्म्यतया स्थितम् ।
अतसीपुष्पसंकाशमिदं मूर्तिगणं स्मृतम् ।
सहानिरुद्धदेवेन अस्यापि चतुरात्मता ॥ इति ।
—(३६।१५०, १५६, १६२, १६८)
पारमेश्वरे तु सुदर्शननारसिंहयन्त्रप्रकरणे (२३।७२-७८) पौष्करोक्तक्रमं
विहायाहिर्बुध्न्यसंहि(तायामु?तो)क्तरीत्या केशवादीनां वर्णभेदा उक्ताः । तत्रापि तथा
ध्यानं यन्त्रमात्रविषयम् । अन्यत्र पौष्करोक्तध्यानमेव सार्वत्रिकं ग्राह्यम्, पौष्करोप-
बृंहणत्वात् ॥ ५२-५८ ॥
भगवान् केशव का तीनों कालों में भक्तिपूर्वक पूजन करे । जो सर्वग परम
ज्योति-अमूर्त एवं अमल हैं, वही वासुदेव हैं ऐसा मान कर उनका यजन ठीक
तरह से करे । इसके पश्चात् मुक्त एवं अनश्वर उन अमल धाम विष्णु का ध्यान करे
जिनका एक बायाँ हाथ नितम्ब प्रदेश पर तथा दूसरा दाहिना हाथ अनुकम्पापूर्वक
भक्तों को अभय प्रदान करने वाला है ॥ ५२-५५ ॥
भगवान् केशव पुष्प के आभरणों से शोभित हो रहे हैं और शङ्ख एवं चक्र
से युक्त हैं । इस प्रकार भगवान् के उस धाम से निकलते हुए बहुत बड़े स्फुलिङ्ग
के समान सतत उदीयमान तेज का स्मरण करे ॥ ५५-५६ ॥
चक्र के ऊपर स्थित समस्त देवताओं को उस तेज से आक्रान्त होते हुए
ध्यान करे । फिर उस तेज से प्रत्येक अंश से निकलते हुए वासुदेव के समान
सितवर्ण वाले चतुर्भुज केशवादि तीन-तीन का ध्यान करे ॥ ५६-५८ ॥

१७४ सात्वतसंहिता
दक्षिणोत्तरपाणिभ्यां पृष्ठतः केशवादिषु ॥ ५८ ॥
युग्मं युग्मं परिज्ञेयं क्रमेणोर्ध्वगतं त्विदम् ।
शङ्खचक्रकजं विद्या साथ शङ्खोऽथ हेतिराट् ॥ ५९ ॥
तच्छङ्खं सकजं विद्याऽशङ्खं चक्रं गदा त्वरि ।
गदा चक्रं कजं पद्मं चक्रं शङ्खं ततो गदा ॥ ६० ॥
केशवादीनां पश्चात्करद्वयस्थितलाञ्छनक्रममाह—दक्षिणोत्तरेति सार्धद्वाभ्याम् ।
कजं = पद्ममित्यर्थः । विद्या = गदेत्यर्थः । तद् अम्बुजं = सशङ्खमित्यर्थः ।
विद्याशङ्खमिति पदच्छेदः । अशङ्खं = चक्रमित्यर्थः । यतोऽन्यथा त्रिविक्रमस्य
शङ्खद्वयसाधारणं भवति । ननु किं तावता प्रत्यवाय इति चेन्न, प्रत्येकमायुध-
चतुष्टयधारणनियमात् । विद्या चक्रमिति पाठश्रेदेवं क्लिष्टकल्पनश्रम एव नास्ति ।
अरि चक्रमित्यर्थः ॥ ५८-६० ॥
अब केशवादि के पश्चात् दो-दो हाथों में स्थित लाञ्छन कहते हैं—ऊर्ध्व के
दक्षिण एवं उत्तर पाणि में क्रमशः दो-दो लाञ्छन इस प्रकार है—शङ्ख, चक्र, कज
(पद्म), विद्या (गदा), शङ्ख, हेतिराट् (चक्र), शङ्ख, पद्म, विद्या, चक्र, चक्र, गदा,
अरि (चक्र), गदा, चक्र, कज (पद्म), पद्म, चक्र, शङ्ख, गदा ॥ ५८-६० ॥
तद्वद् भूयोऽग्रसंस्थाभ्यामधरस्थं द्वयं द्वयम् ।
ज्ञेयं दामोदरान्तानां द्वादशानामिदं शृणु ॥ ६१ ॥
पद्मं गदा ध्वनिश्चक्रं तत्पद्मं हेतिराड् ध्वनिः ।
विद्या चक्रं च तद्विद्यात् पद्मं शङ्खं च साऽम्बुजम् ॥ ६२ ॥
पद्मध्वनिगदाशङ्खाः सविद्याम्बुरुहं त्वरि ।
अथ मुख्यहस्तद्वयस्थितायुधक्रममाह—तद्वदिति सार्धद्वाभ्याम् । ध्वनिः शङ्ख-
मित्यर्थः । तत् चक्रमित्यर्थः पुनः तच्चक्रमित्यर्थः । स शङ्ख इत्यर्थः । पुनः स शङ्ख
इत्यर्थः । एवं च पद्मगदाशङ्खचक्राख्यायुधचतुष्टयधारणं केशवादिद्वादशमूर्तीनामपि
समानम्, किन्तु हस्तभेदैस्तद्धारणमेव तत्तन्मूर्तेर्विशेषः । स च तन्त्रभेदेन नैकरूपः ।
वस्तुतस्तु पाद्मोक्त एव प्रायेणैतदेककण्ठो भवति तथाहि—
केशवस्याम्बुजं शङ्खं चक्रं दण्डस्थायुधम् ।
प्रादक्षिण्येने बाहूनामन्येषामुच्यते क्रमात् ॥
नारायणः शङ्खपद्मगदाचक्रधरः स्मृतः ।
माधवो गदया सार्धं शङ्खचक्राम्बुजायुधः ॥
गोविन्दश्चक्रदण्डाब्जशङ्खायुधधरो भवेत् ।
विष्णुर्गदाब्जशङ्खारिधरः स्यान्मधुसूदनः ॥
चक्रशङ्खाब्जदण्डास्त्रधरः कार्यस्त्रिविक्रमः ।
पद्मशङ्खारिदण्डास्त्रो वामनः शङ्खचक्रधृक् ॥
गदाब्जपाणिश्च तथा श्रीधरो धृतवारिजः ।

अष्टमः परिच्छेदः १७५
सार्धं चक्रगदाशङ्खो हृषीकेशमतः शृणु ॥
गदाचक्राब्जशङ्खास्त्रधरो दामोदरः स्मृतः ।
अब्जशङ्खगदाचक्रधरा द्वादश मूर्तयः ॥ इति ।
अत्र त्रिविक्रमपद्मनाभोक्तलक्षणं विनाऽन्यत् सर्वमेकरूपं ज्ञेयम् ।
नन्वेतदुक्तं नारायणमूर्तिलक्षणं यादवाचलस्थनारायणमूर्ती न लक्ष्यत इति चेत्,
सत्यम् । न तावता प्रत्यवायोऽस्ति, स्वयं व्यक्तस्य निरङ्कुशत्वात् । ननु स च नारायण-
मूर्तिरेवेत्यत्र किं विनिगमकमिति चेत्, अस्ति पौराणिकी प्रसिद्धिः । न च पौराणिक-
नारायणशब्दस्य व्यापकत्वान्न मूर्तिनिर्णायकत्वमिति वाच्यम्,
केशवः केशिहा लोके कुरुक्षेत्रादिषु स्थितः ।
नारायणो मुनिश्रेष्ठाः स्थितो नारायणाचले ॥
—(पौ० सं० ३६।३०६, ई०सं० २०१२१-२२)
इति पौष्करेश्वरयोर्मूर्तिविशेषनियतशब्देनैव व्यक्तोक्तेः । किञ्च, पौष्करोक्तं
नारायणमूर्तिलक्षणं यादवाचलस्थनारायणे लक्ष्यत एव । तथाहि—
सव्यापसव्यहस्ताभ्यां मुखाभ्यां तु गदाम्बुजे ॥
वामादौ शङ्खचक्रौ तु संधत्ते पश्चिमद्वये ।
नारायणाख्यो भगवान् (पौ०सं० ३६।१४७-१४८) इति ।
ननु तत्र मुख्यदक्षिणहस्तेऽम्बुजमपि न लक्ष्यत इति चेत्, अस्ति सूक्ष्मरेखारूपं
कमलं तत्रेति सन्तोष्टव्यमायुष्मता । वक्ष्यति हि द्वादशे परिच्छेदे—
यस्मात् कार्यवशेनैव मूर्तीनामपि पाणिगाः ।
चतुःपद्मादयो मूर्ता मूर्ताः शान्तास्तथोद्यताः ॥ (१२।१४५) इति।
नास्त्रैर्वस्त्रैर्ध्वजैर्येषां व्यक्तिर्व्यक्ता जगत्त्रये ॥
तेऽपि लाञ्छनवृन्दं तु धारयन्त्यङ्घ्रिगोचरे ।
ललाटे चांसपट्टे तु पृष्ठपाणितलद्वये ॥
तनूरुहद्वये मूर्ध्नि कर्मिणां प्रतिपत्तये ।
—(१२।१६८-१७०) इति ।
अत एवेश्वरनारायणार्चनप्रकरणे षडङ्गन्यासादिकमप्युक्तम् ।
अलं प्रसङ्गेन ॥ ६१-६३ ॥
अब दामोदरान्त के मुख्य दोनों हाथों में धारण किये हुए दो-दो आयुधों को
कहते हैं—पद्म, गदा, ध्वनि (शङ्ख), चक्र, पद्म, चक्र, शङ्ख, विद्या, चक्र, पद्म,
शङ्ख, कमल, पद्म, शङ्ख, गदा, शङ्ख, गदा, कमल, चक्र । ये मुख्य दो-दो हाथों
के लाञ्छन हैं ।
विमर्श—१. वासुदेव—केशव, नारायण, माधव—श्री, वागेश्वरी, कान्ति ।
२. सङ्कर्षण—गोविन्द, विष्णु, मधुसूदन—क्रिया, शक्ति, विभूति । ३. प्रद्युम्न—
त्रिविक्रम, वामन, श्रीधर—इच्छा, प्रीति, रति । ४. अनिरुद्ध—हषीकेश,

१७६ सात्वतसंहिता

पद्मनाभ, दामोदर—माया, धी, महिमा । इस प्रकार द्वादश व्यूह देवता के
त्रिक हैं ॥ ६१-६३ ॥
भूयो धामगणात् तस्मात् संस्मरेन्निस्सृतं महः ॥ ६३ ॥
केशवादिविभागेन श्रियाद्यं च त्रयं त्रयम् ।
अथ केशवादिपत्नीवर्गस्योत्पत्तिमाह—भूय इति। तस्माद्धामगणाद् वासुदेवादि-
मूर्तिचतुष्टयादित्यर्थः । एवमेवोक्तं पाद्मेऽपि—
सुदर्शनाद्यायुधानि किरीटादिविभूषणम् ।
मूर्त्याविर्भावसमये सहैवैतानि जज्ञिरे ॥
देव्यः श्रियादयस्तत्तन्मूर्तिभेदसमाश्रिताः ।
श्रीवत्सादेव सकला जज्ञिरे दिव्यलाञ्छनात् ॥ इति ॥ ६३-६४ ॥
अब केशवादि पत्नी वर्ग की उत्पत्ति कहते हैं—पुनः उस महान् धाम वाले
वासुदेवादि से उत्पन्न केशवादि वर्ग के विभाग वाले तीन-तीन तेज उत्पन्न हुए ।
श्रियादि तीन एवं कमलादि तीन इत्यादि (द्र. ८.३१+३२) हैं ॥ ६३-६४ ॥
कमलादित्रयेणैव त्वन्योन्यत्वेन लाञ्छितम् ॥ ६४ ॥
बद्धपद्मासनस्थं च दिवि दिक्षु च सम्मुखम् ।
संवीजयेत् तु विनयाच्चामरेण सितेन च ॥ ६५ ॥
देवीद्वादशकं विशिनष्टि—कमला(दि?दी)ति सार्धेन ॥ ६४-६५ ॥
ये कमलादि तीन तीन देवियाँ आकाश में एवं दिशाओं में पद्मासन बाँध कर
सबके सामने खड़ी हैं । साधक विनयपूर्वक इन्हें चामर के पङ्ख से पङ्खा झले ॥ ६५ ॥
देवीद्वादशकं चैव तासां रूपमथोच्यते ।
पूर्णचन्द्राननाः सर्वाः सर्वर्तुकुसुमान्विताः ॥ ६६ ॥
सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः ।
विद्रुमाभं त्रयं त्वाद्यमपरं चम्पकप्रभम् ॥ ६७ ॥
प्रियङ्गुमञ्जरीश्यामं तृतीयं देवतात्रयम् ।
चतुर्थं त्रितयं ध्यायेज्जातीपुष्पसमप्रभम् ॥ ६८ ॥
आद्यायाः कमलं पाणावन्यस्या हेतिराट् करे ।
शङ्खं ध्यायेत्तृतीयस्या एवं ध्यायेत् त्रिषु त्रिषु ॥ ६९ ॥
चतुस्त्रिर्देवतान्तानामेवमाद्यं त्रयं क्रमात् ।
स्मृत्वा सम्पूजनं कुर्याज्जागरेण समन्वितम् ॥ ७० ॥
तद्रूपलाञ्छनादिक्रममाह—तासामित्यादिभिः । आद्यायाः श्रियः, अन्यस्यां
वागीश्वर्याम्, तृतीयस्यां कान्त्याम्, त्रिषु त्रिषु क्रियादिकेच्छादित्रिके मायादित्रिके

चेत्यर्थः । चतुस्त्रिर्देवतान्तानां महिमान्तानामित्यर्थः । एवमाद्यं कमलादित्रयमेव पौनः-
पुन्येन ध्यायेदित्यर्थः ॥ ६६-७०॥
अब इन द्वादश देवियों के रूप एवं लाञ्छन चिह्नों को कहता हूँ—ये सभी
द्वादश देवियाँ पूर्णिमा के चन्द्रमा के समान मुख वाली हैं और सभी सर्वर्तु पुष्पों से
शोभित हैं ॥ ६६ ॥
ये सभी सर्व लक्षण सम्पन्ना हैं और सर्वाभरणों से भूषित हैं । इनमें से आदि
की तीन विद्रुम के समान आभा वाली हैं । इसके बाद दूसरी त्रिक वाली देवियाँ
चम्पा के समान आभा वाली हैं । तृतीय देवी त्रय प्रियङ्गु की मञ्जरी के समान
श्याम वर्ण वाली हैं । चौथी त्रितय देवियाँ जाती पुष्प के समान प्रभा वाली हैं ।
इस प्रकार इन बारह देवियों का ध्यान करे ॥ ६७-६८ ॥
आदि त्रिक वाली देवियों के हाथ में कमल है । अन्य दूसरी त्रिक वाली
देवियों के हाथ में चक्र है, तीसरी त्रिक वाली देवयों के हाथ में शङ्ख है । इस
प्रकार तीन त्रिक वाली देवियों के हाथ में तीन त्रिक का ध्यान करे । चौथे त्रिक
वाली देवियों के हाथ में आद्य त्रिक के समान कमल है । एकादशी के दिन साधक
इन देवियों का ध्यान कर जागरण समन्वित पूजन करे ॥ ६९-७० ॥
स्तोत्रैः कथानकैर्वाद्यैर्गीतकैः क्षपयेन्निशाम् ।
रात्रिक्षये ततः स्नायात् सिताम्बरधरः शुचिः ॥ ७१ ॥
एवं ध्यानपूर्वकमेकादश्यां कालत्रयार्चनं कृत्वा जागरणं कुर्यादित्याह—
स्मृत्वेति ॥ ७०-७१ ॥
मासेशमन्त्रसन्नद्धं कृत्वा देवं स्मरेत् तथा ।
पूजापनयनं कृत्वा स्नानकर्म समाचरेत् ॥ ७२ ॥
द्वादश्यां प्रातः स्वनित्यकर्मानुष्ठानपूर्वकं तन्मासेशकेशवध्यानं रात्रौ तदर्पित-
पूजाद्रव्यापनयनादिकं कृत्वाऽर्चनकाले वक्ष्यमाणं स्नपनं कुर्यादित्याह—रात्रिक्षय इति
सार्धेन ॥ ७१-७२ ॥
स्तोत्र पाठ, कथानक, वाद्य और गीतों से साधक रात बितावें । रात्रि बीतने
पर स्नान करे और श्वेत वस्त्र पहनकर शुद्ध होए । साधक द्वादशी के दिन
स्वकर्मानुष्ठानपूर्वक तन्मासेश का ध्यान कर रात्रि में तदर्पित पूजा द्रव्यों का
अपनयन करे और अर्चन काल होने पर स्नान कर्म करे ॥ ७१-७२ ॥
मध्यतः केशवस्यादौ केवलस्य महात्मनः ।
वासुदेवस्वरूपस्य चक्रस्थस्य त्वनन्तरम् ॥ ७३ ॥
प्रागरेऽभिनिविष्टस्य सकलस्याव्ययस्य च ।
तदादिद्वादशानां च दद्यात् स्नानादिकं क्रमात् ॥ ७४ ॥