सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 221, कुल 837 में से
संदर्भ में पढ़ें१६२ सात्वतसंहिता
तन्मण्डलमध्ये कर्णिकोपरि वासुदेवादिचातुरात्म्यार्चनं कार्यमित्याह—तन्मध्य
इति ॥ ३ ॥
उस मण्डल के मध्य में कर्णिका के ऊपर वासुदेवादि चातुरात्म्य का क्रमशः
चारों दिशाओं में अर्चन करे ॥ ३ ॥
हृदादिनेत्रपर्यन्तमङ्गषट्कं यजेत् ततः ।
अर्घ्यादिभिः क्रमाद् भोगैर्व्रतज्ञेन पुराहृतैः ॥ ४ ॥
तदनन्तरमङ्गमन्त्रार्चनं वासुदेवादीनामर्घ्यादिभिः पूजनं चाह—हृदादीति ।
अङ्गमन्त्राणामर्चनस्थानं तु—
तदोदितं विभोर्देहाद् हृदयाद्यं चतुष्टयम् ॥
न्यसेत् कमलपत्राणामा पूर्वाद्युत्तरान्तिमम् ।
अग्नीशरक्षोवायव्यदलेष्वस्त्रं यथाक्रमम् ॥
नेत्रं केसरजालस्थं चक्रं नाभित्रयोपरि । (१७।६५-६७)
इति नृसिंहकल्पे वक्ष्यमाणं ज्ञेयम् ॥ ४ ॥
तदनन्तर हृदय से लेकर नेत्र पर्यन्त स्थान में षडङ्गन्यास करे । फिर पहले
से एकत्रित अर्घ्यादि भोगों से उन वासुदेवादि का अर्चन करे ॥ ४ ॥
ततः कुण्डान्तरे चैव संस्कृतेऽग्नौ च विन्यसेत् ।
चक्रं मन्त्रगणोपेतं समिद्भिस्तर्पयेत् क्रमात् ॥ ५ ॥
पश्चात् तण्डुलसंमिश्रैः सघृतैर्बहुभिस्तिलैः ।
सचक्रमण्डलस्य भगवतोऽग्निमध्ये ध्यानं सन्तर्पणं चाह—
तत इति सार्धेन ॥ ५-६ ॥
इसके बाद कुण्ड के भीतर स्थापित अग्नि में न्यास करे । तदनन्तर समस्त
मन्त्रगणों से युक्त चक्र का क्रमशः समिधाओं से तर्पण करे । इसके बाद तण्डुल
मिश्रित अधिकाधिक घृत और तिलों से होम करे ॥ ५-६ ॥
अर्घ्योदकेन शिरसा पवित्रीकृत्य साम्प्रतम् ॥ ६ ॥
नतजानुशिरः शिष्यं कृत्वासौ श्रावयेत् प्रभुम् ।
त्वदाराधनकामोऽयं व्रतं चरितुमिच्छति ॥ ७ ॥
सङ्कल्पसिद्धयै भगवन् पूरयास्य मनोरथान् ।
इति विज्ञाप्य देवेशं ततः पुष्पाणि दापयेत् ॥ ८ ॥
ततः शिष्यं शिरोमन्त्रेण प्रोक्ष्य तं नतजानुशिरस्कं कृत्वा त्वदाराधनश्लोकं
विज्ञाप्य शिष्याञ्जलिस्थपुष्पाणि मण्डलोपरि प्रदापयेदित्याह—अर्घ्योदकेनेति सार्ध-
द्वाभ्याम् । यद्यप्यस्मिन् त्वदाराधनकामोऽयमित्यादिश्लोके व्रतशब्दस्य विद्यमानत्वात्,