सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 594, कुल 837 में से
संदर्भ में पढ़ेंत्रयोविंशः परिच्छेदः ५३५
पुरुषोत्तमाय शब्दं तु ततोऽप्रतिहतेति च ॥ ७९ ॥
शक्तयेऽथ पदं दद्यात् सर्वेश्वरपदं ततः ।
समग्रोग्रभयेत्यत्र निवारणपदं ततः ॥ ८० ॥
सप्तविंशाक्षरो मन्त्र उक्तश्चातः परं शृणु ।
नियन्त्रे पदमुद्धृत्य तदन्ते विश्वहेतवे ॥ ८१ ॥
परब्रह्मसमेतं च सेतवे ओमनन्तरम् ।
मन्त्रो द्विरष्टवर्णश्च कथितो वक्ष्यतः परम् ॥ ८२ ॥
२१. ॐ पुरुषोत्तमायाप्रतिहतशक्तये सर्वेश्वराय समग्रोग्रभयनिवारणाय
नमः ॥ ७९-८१ ॥
२२. ॐ नियन्त्रे विश्वहेतवे परब्रह्मसेतवे ॐ नमः ॥ ८१-८२ ॥
पदमप्रतिमेत्यादौ प्रभावं तदनन्तरम् ।
महाविभूते तदनु महामायापदं ततः ॥ ८३ ॥
अथ दर्शकिशब्दं तु तदन्ते तालकेतवे ।
चतुर्विंशाक्षरो मन्त्रस्त्वयमुक्तः समासतः ॥ ८४ ॥
२३. ॐ अप्रतिमप्रभाव महाविभूते महामायादर्शकितालकेतवे नमः ॥८३-८४॥
शान्तात्मने पदं दद्यात् तदन्ते यम विन्यसेत् ।
नियमाश्रयाय दद्यात् परमर्धिप्रदाय च ॥ ८५ ॥
नारायणाय शब्दं तु पूर्वसंख्यासमं स्मृतम् ।
भवभङ्गपदं चैव कारिणे तदनन्तरम् ॥ ८६ ॥
२४. ॐ शान्तात्मने यमनियमाश्रयाय परमर्धिप्रदाय नारायणाय
नमः ॥ ८५-८६ ॥
ततो भगवते शब्दं दत्तात्रेयाय वै ततः ।
वर्णाश्रमपदं चाथ धर्मशब्दमतः परम् ॥ ८७ ॥
परिग्रहाय प्रणवमष्टाविंशाक्षरः स्मृतः ।
सर्वलोकमयायेति सर्वज्ञाय पदं ततः ॥ ८८ ॥
सर्वेश्वराय न्यग्रोधशयनाय पदं त्वथ ।
त्रयोविंशत्यक्षरश्च त्वयमन्यं निबोधतु ॥ ८९ ॥
२५. ॐ भवभङ्गकारिणे भगवते दत्तात्रेयाय वर्णाश्रमधर्म परिग्रहाय ॐ
नमः ॥ ८७-८८ ॥