सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 593, कुल 837 में से
संदर्भ में पढ़ें५३४ सात्वतसंहिता
तदन्ते विनियोक्तव्यं पदं वै कच्छपात्मने ।
षड्विंशार्णमिमं विद्धि मन्त्रं मन्त्रविदांवर ॥ ६९ ॥
१५. ॐ भगवदनन्तबलशक्तये तेजोमयाय भुवनधृते कच्छपात्मने
नमः ॥ ६८-६९ ॥
यज्ञाङ्गदेहायाद्याय महापदमत्ः परम् ।
वराहाय ततो दद्यात् पुराणपुरुषाय वै ॥ ७० ॥
दद्यात् ततः प्रजाशब्दं तदन्ते पतये पदम् ।
चतुर्विंशाक्षरं मन्त्रमेतन्मन्त्रविदांवर ॥ ७१ ॥
१६. ॐ यज्ञाङ्गदेहाय महावराहाय पुराणपुरुषाय प्रजापतये नमः ॥ ७०-७१॥
नमो भगवते कृत्वा नारसिंहाय वै ततः ।
तेजोनिधे पदं दद्यात् पदं हन हनेति च ॥ ७२ ॥
ततो विकर्मजाद्यं वै शब्दं पञ्चाक्षरं भवेत् ।
दुष्कृतं हि तदन्ते वै सप्तविंशाक्षरस्त्वयम् ॥ ७३ ॥
आदायामृतमूर्ते वै ततो ज्ञानबलात्मने ।
सर्वेश्वराय भगवन्न्यूनविंशाक्षरस्त्वयम् ॥ ७४ ॥
१७. ॐ नमो भगवते नारसिंहाय तेजोनिधये हन हन विकर्मजात्यं दुष्कृतं
नमः ॥ ७२-७३ ॥
१८. ॐ अमृतमूर्ते ज्ञानबलात्मने सर्वेश्वराय भगवन्नमः ॥ ७३-७४ ॥
आदाय पुण्डरीकाक्षपदं वै परमेश्वर ।
ततः सकलशब्दं तु सुखसौभाग्य वै पदम् ॥ ७५ ॥
निधे वाञ्छितशब्दं तु ततः सिद्धिप्रदेति वै ।
पदं चाखिलदुःखेति ततस्तु शमनाग्नये ॥ ७६ ॥
आनन्दसुन्दरपदं ततो लक्ष्मीपदं न्यसेत् ।
पतये शब्दमुच्चार्य पञ्चाशार्णस्त्रिरुज्झितः ॥ ७७ ॥
१९. ॐ पुण्डरीकाक्ष परमेश्वर सकलसुख सौभाग्यनिधे वाञ्छित सिद्धि-
प्रदाखिलदुःखशमनाग्नये आनन्दसुन्दरलक्ष्मीपतये नमः ॥ ७५-७७ ॥
सदसत्पदमादाय मूर्तये तदनन्तरम् ।
विश्वोत्तमाय तदनु ततोऽमृतनिधे तु वै ॥ ७८ ॥
षोडशार्णस्त्वयं मन्त्र उक्तः कान्तात्मनोविभोः ।
२०. ॐ सदसन्मूर्तये विश्वोत्तमायामृतनिधये नमः ॥ ७८-७९ ॥