सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 468, कुल 837 में से
संदर्भ में पढ़ेंसप्तदशः परिच्छेदः ४०९
तपो यज्ञं हि विधिवद् ब्रह्मभावनयाऽर्चयेत् ॥ ४२४ ॥
यथा स्यान्मोक्षफलदमचिराद् विष्णुयाजिनाम् ।
नानाद्रव्याङ्गदेहं यद् यज्ञं चानेकलक्षणम् ॥ ४२५ ॥
मूर्ततां यज्ञमन्त्रेण नीत्वैवं प्राक् समर्चयेत् ।
जुहुयादा समाप्यन्तं पूर्णान्ते हेममृच्छति ॥ ४२६ ॥
दानानां च व्रतानां च तपसां यज्ञकर्मणाम् ।
निवेदितव्यं यद् द्रव्यं दत्तं वा यत्र यत्पुरा ॥ ४२७ ॥
कर्तव्यमनुयागार्थं प्राक् तदेव हि केवलम् ।
तद्भावितमतोऽश्नीयात् पावनं प्रापणान्वितम् ॥ ४२८ ॥
भवेत् त्रिरात्रं फलदं भक्तानां शुभकारिणाम् ।
किं पुनस्तु समर्थानां चोदनाश्रयिणां तु वै ॥ ४२९ ॥
दानधर्मरतानां च व्रतिनां यज्ञयाजिनाम् ।
परत्र भवभीरूणामल्पार्थिनां शुभार्थिनाम् ॥ ४३० ॥
शमीपलाशश्रीवृक्षैः समिद्भिश्चामलद्रुमैः ।
अम्भसा चाम्बुमध्ये च मन्त्रतर्पणमाचरेत् ॥ ४३१ ॥
सप्ताहे समतीते तु मन्त्रमुत्थाप्य मण्डलात् ।
ध्यानयुक्तं जपं कुर्याल्लक्षसंख्यं समाहितः ॥ ४३२ ॥
ब्रह्मचर्यस्थितो मौनी दुष्टाहारविवर्जितः ।
क्षारारनालतैलानां परित्यागी ह्यलोलुपः ॥ ४३३ ॥
नित्यं कुशाजिनेशायी मानमात्सर्यवर्जितः ।
तप्तहाटकसंकाशं परिभ्रमणविग्रहम् ॥ ४३४ ॥
भूरिधारासमाकीर्णं वक्त्रमग्रे खगं स्मरेत् ।
तन्नाभिसंस्थितं मन्त्रमचलं चैव सम्मुखम् ॥ ४३५ ॥
नानारत्नप्रभाकान्तिमुद्गिरन्तं स्वविग्रहात् ।
हेमादिधातुनिचयं चन्द्रकान्तादिसन्मणीन् ॥ ४३६ ॥
एवं ध्यायेज्जपेच्चापि पूजयेदन्तरान्तरा ।
नियमादा समाप्त्येव जपान्ते वित्तपः स्वयम् ॥ ४३७ ॥
आज्ञावश्यो विधेयः स्यादात्मना च धनेन च ।
प्रयच्छत्यर्थिनां कामं भुङ्क्ते सोऽविरतं स्वयम् ॥ ४३८ ॥
आयुरारोग्यसंयुक्तो मन्त्रेशस्य प्रभावतः ।
प्रवर्ततेऽर्थयुक्तानां काम आशु च भोगिनाम् ॥ ४३९ ॥
सा० सं० - 30