सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 469, कुल 837 में से
संदर्भ में पढ़ें४१० सात्वतसंहिता
तत्साधनमथो वक्ष्ये साधकानां हिताय च ।
मण्डलं पूर्ववत् कृत्वा शुचौ देशे मनोरमे ॥ ४४० ॥
सङ्गुप्ते तत्र मन्त्रेशं समाहूय च संयजेत् ।
त्रिरात्रं सप्तरात्रं व जुहुयात् तदनन्तरम् ॥ ४४१ ॥
प्रागुक्तेन विधानेन जपध्याने समाचरेत् ।
सर्वाधारं हरिं ध्यायेत् पद्मरागरुचिं महत् ॥ ४४२ ॥
तन्मध्ये विद्रुमाभं च बन्धुजीवनिभोज्ज्वलम् ।
ध्यायेन्मन्त्रवरं मन्त्री जपेत् पूर्वोक्तसंख्यया ॥ ४४३ ॥
स्त्रीभोगं चेतसः कृत्वा जपान्ते साधकस्ततः ।
प्रार्थयन्तेऽत्र भीताश्च सन्तप्ता मदविह्वलाः ॥ ४४४ ॥
देवकिन्नरनार्यस्तु यक्षगन्धर्वकन्यकाः ।
सिद्धाः सुराङ्गनाश्चान्या नरनागस्त्रियोऽखिलाः ॥ ४४५ ॥
आजीवावधि वै सम्यक् कर्मणा मनसा गिरा ।
सेवन्ते साधकेन्द्रं तं मन्त्रस्यास्य प्रभावतः ॥ ४४६ ॥
यं यं समीहते कामं पातालोत्तिष्ठपूर्वकम् ।
लक्षजापात् तथा होमात् तं तं यच्छति मन्त्रराट् ॥ ४४७ ॥
अथ कामोपभोगात् तु विरतस्य च मन्त्रिणः ।
मोक्षदं सम्प्रदायं च कथयिष्ये यथार्थतः ॥ ४४८ ॥
कृत्वा यागवरं भूयः प्रसन्नेनान्तरात्मना ।
पूर्वोक्तं तु यजेत् कालं तत्र मन्त्रवरं क्रमात् ॥ ४४९ ॥
तर्पयित्वा विधानेन कुण्डे वाऽथ जलेऽम्भसा ।
सर्वदोषनिवृत्त्यर्थं प्रायश्चित्तार्थमेव च ॥ ४५० ॥
जपेदयुतमेकं तु प्रागुक्तं वा स्वशक्तितः ।
हृत्पुण्डरीकमध्येऽथ स्मरेन्मन्त्रं समाहितः ॥ ४५१ ॥
रोमकूपगणैः सर्वै रत्नज्वालाशतावृत्तम् ।
तन्मयं च स्वचैतन्यं कृत्वा तद् वह्निरश्मिभिः ॥ ४५२ ॥
भूतदेहं दहेत् कृत्स्नं तद्वियुक्तश्च साम्प्रतम् ।
मार्तण्ड इव पक्षीश आस्ते मन्त्रस्वरूपधृक् ॥ ४५३ ॥
अथ मन्त्राकृतिं स्वां वै ध्यायेत् परिणतां शनैः ।
तेजोगोलकसंकाशं सर्वाङ्गावयवोज्झितम् ॥ ४५४ ॥
तत्तेजोगोलकं पश्चाद् बृहत्परिमितं च यत् ।