सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 467, कुल 837 में से
संदर्भ में पढ़ेंविष्णुर्नारायणो हंसः सर्वशक्तिमयः प्रभुः ।
द्रव्यात्मना विभक्तश्च ज्ञातव्यो ज्ञानकर्मणि ॥ ४०९ ॥
त्रिविधेन तु भेदेन बुद्बुदाद्या यथाम्भसि ।
एवं दानं स्वमात्मानं पात्रं नारायणात्मकम् ॥ ४१० ॥
बुद्ध्वा सामान्यबुद्ध्या प्राक् पुनस्तत्रिविधं पृथक् ।
सविशेषं परिज्ञेयं दानकाले ह्युपस्थिते ॥ ४११ ॥
उपायलक्षणं द्रव्यमभ्यूह्यादौ स्वचेतसा ।
अनन्तशक्तेः सामर्थ्यमिदं किञ्चिदनश्वरम् ॥ ४१२ ॥
दानाभिमानदेहस्तु प्रत्यगात्मा त्वहं प्रभुः ।
पात्रभावत्वमापन्नो मदनुग्रहकाम्यया ॥ ४१३ ॥
देवः पञ्चतनुः साक्षात् पञ्चभूतात्मना त्विदम् ।
ज्ञात्वैवं द्वादशार्णेन स्वेन वा न्यस्तविग्रहः ॥ ४१४ ॥
प्रत्ययं मन्त्रमालम्ब्य द्रव्यहोमादिकं ततः ।
स्वरूपमजहद् ध्यायेन्महद्रश्मिकदम्बवत् ॥ ४१५ ॥
अमन्त्रेण यजेत् पश्चादर्घ्यपुष्पानुलेपनैः ।
सिंहद्विष्ट्कमन्त्रेण स्वेकेनाङ्गोोज्झितेन वा ॥ ४१६ ॥
सकलीकरणं कुर्यात् पात्रभूतपरात्मना ।
तमर्चयित्वा विधिवद् वस्त्रस्रगनुलेपनैः ॥ ४१७ ॥
भगवत्प्रीतिपूर्वं तु दानं दद्याच्च सोदकम् ।
तेनापि प्रीणनं कार्यं भगवद्भावितात्मना ॥ ४१८ ॥
दानं ज्ञानात्मतां येन प्रयात्यच्युतवेदिनाम् ।
नारायणः परंब्रह्म प्रतिशब्दत्वमागतः ॥ ४१९ ॥
संसारानलतप्तानां भक्तानां मोहशान्तये ।
अतस्तस्य स्वमन्त्रेण मूर्तिदानं समाचरेत् ॥ ४२० ॥
द्वादशाक्षरपूर्वेण त्वथवाऽन्येन केनचित् ।
अनन्तं त्वमलं त्वेवं क्रोडीकृत्य तदात्मना ॥ ४२१ ॥
समर्चनीयं विधिवन्मन्त्राकृति यथा सदा ।
एवं दानप्रदानेन यजेन्मन्त्रात्मना परम् ॥ ४२२ ॥
महन्मन्त्रात्मना चैव पुनः सद्व्रतसिद्धये ।
ब्रह्मत्वमेति वै येन व्रतिना भगवद्व्रतम् ॥ ४२३ ॥
अनेकभेदभिन्नं च सदानं यत्पदार्थिनाम् ।