सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 447, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 447

३८८ सात्वतसंहिता
कृत्वा मध्यमकुम्भे तु साङ्गं मन्त्रेश्वरं यजेत् ।
नमो नृसिंहभूतेभ्यः प्रणवाद्येन पूजयेत् ॥ २६० ॥
कोणेषु भगवद्भक्तनिचयं दोषनाशनम् ।
पूजयित्वा यथान्यायं पुष्पधूपादिकेन वै ॥ २६१ ॥
दिग्बन्धमथ वै कुर्यात् सास्त्रैः सिद्धार्थकैः क्रमात् ।
ताडयेदातुरं पश्चादा पादान्मस्तकावधि ॥ २६२ ॥
स्वपाणिव्यजनेनाथ समाकृष्य विनिक्षिपेत् ।
दोषजालं च तद्देहाद् गगने वा धरातले ॥ २६३ ॥
ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत् ।
तस्मिन्निरिन्धने कुर्याद् होमं सिद्धार्थकैस्तिलैः ॥ २६४ ॥
मूलमन्त्रेण वास्त्रेण शताष्टाधिकसंख्यया ।
अमुकं रक्ष रक्षेति स्वाहाशब्दसमन्वितम् ॥ २६५ ॥
मन्त्रान्ते तु पदं कुर्याद् भ्रामयेन्मूर्ध्नि चाहुतिम् ।
महिषाक्षमथादाय सिद्धार्थकसमन्वितम् ॥ २६६ ॥
प्रजप्य धूपयेत् तं वै कृत्वा च्छन्नं तु वाससा ।
निधाय सजलं पात्रमग्निपात्रोपगं ततः ॥ २६७ ॥
नैवेद्यशेषमन्यस्मिन् सर्वमुद्धृत्य सोदकम् ।
पशुप्रतिनिधिं चैव रञ्जितं कुङ्कुमादिना ॥ २६८ ॥
धात्वाश्रितानां दोषाणां मनसा परिकल्पितम् ।
यदीयमस्य वै बाधमिन्द्रियाणां च धातुषु ॥ २६९ ॥
आदाय च बलिं शश्वत् सिंहसत्येन मुञ्चतु ।
अन्तरान्तरयोगेन वामदक्षिणपाणिना ॥ २७० ॥
असंख्यमाचरेद् होमं बलियुक्तं प्रदक्षिणैः ।
बलिपाणिमथ क्षाल्य अस्त्रजप्तेन वारिणा ॥ २७१ ॥
भूतिमादाय वै कुण्डाद् दग्धगोमयजं तु वा ।
प्रजप्य बहुशोऽस्त्रेण ललाटादङ्घ्रिगोचरम् ॥ २७२ ॥
कार्याणि चोर्ध्वपुण्ड्राणि पृष्ठे पार्श्वद्वयेऽपि वा ।
स्वस्त्यस्तु ते युतेनाथ मन्त्रेणार्घ्योदकेन तु ॥ २७३ ॥
मन्त्रकुम्भात् समेतेन विप्रुड्भिह्लादियेदनु ।
ध्यात्वा पूर्णेन्दुगं मन्त्रं पूर्णचन्द्रायुतोपमम् ॥ २७४ ॥
ब्रह्मरन्ध्रे तु साध्यस्य स्रवन्तममृतं महत् ।