सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 446, कुल 837 में से
संदर्भ में पढ़ेंतिलसर्षपपूर्णानि पात्राणि विततानि च ॥ २४४ ॥
सुसमं तद्बहिर्दद्याद् दिक्षु लोहशराष्टकम् ।
कण्ठदेशेषु बध्नीयाच्छराणां दृढतन्तुना ॥ २४५ ॥
बर्हिपक्षसमायुक्तां सर्पकञ्चुकभूषिताम् ।
महौषधीं भूतजटां शमीशाखासमन्विताम् ॥ २४६ ॥
पञ्चरागेण सूत्रेण उदगाशादितः क्रमात् ।
प्रादक्षिण्येन तु त्रेधा वेष्टयेत् तच्छराष्टकम् ॥ २४७ ॥
अष्टानां पूर्णकुम्भानामन्तरान्तरयोगतः ।
दद्यादुच्चासनस्थं तु दीपाष्टकमनुक्रमात् ॥ २४८ ॥
तैलेन राजिकाख्येन ताम्रपात्रस्थितास्तु वै ।
दीपानां वर्तयो देया महाराजतरञ्जिताः ॥ २४९ ॥
अथ बद्धशिखो मौनी प्राग्वद् दिग्बन्धमाचरेत् ।
अभिसन्धाय मनसा सर्वदोषपलायनम् ॥ २५० ॥
संयजेन्मन्त्रनाथं तु काम्यैर्बहुविधैः शुभैः ।
पुष्पैर्धूपैस्तु नैवेद्यैर्भक्ष्यैः सफलमूलकैः ॥ २५१ ॥
हुत्वाऽथ सर्वबीजानि सिद्धार्थकयुतानि च ।
राजिकाघृतयुक्तानि तिलानि सफलानि च ॥ २५२ ॥
ध्यात्वा पूर्णाहुतिं दद्यान्मध्याह्नसमये ततः ।
रक्ष्यं सुनिर्मलं कृत्वा पूर्वमभ्यञ्जनादिकैः ॥ २५३ ॥
हेमर(क्तौ? त्लौ)षधिस्नानैः प्रोक्षयित्वा प्रवेश्य च ।
ताडयित्वाऽस्त्रपुष्पेण आपादात् सन्निरीक्ष्य च ॥ २५४ ॥
नतजानुशिरः कृत्वा देवाय विनिवेदयेत् ।
उत्तराभिमुखं कृत्वा आसने परिधान्विते ॥ २५५ ॥
अस्त्रोपलक्षिते चैव तथार्घ्यादिसमन्विते ।
षडङ्गेनाथ मन्त्रेण तस्य न्यासं समाचरेत् ॥ २५६ ॥
मनसा करशाखासु स्वस्थानेष्वथ विग्रहे ।
सचक्रमथ तस्याग्रे षट्कोणं मण्डलं लिखेत् ॥ २५७ ॥
वृत्तं ज्वालागणेनैव ततस्तत्र निवेशयेत् ।
प्रागुक्तरचनाढ्यं तु सुपूर्णं गन्धवारिणा ॥ २५८ ॥
सप्तकं कलशानां तु मध्ये योज्यं तदक्षिषु ।
अश्रिभ्यामन्तरालस्थं दीपषट्कं यथा पुरा ॥ २५९ ॥