सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 448, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 448

सप्तदशः परिच्छेदः ३८९
शरीरविटपं तेन सेचयेच्च नखावधि ॥ २७५ ॥
एवं कृत्वाऽर्चयेद् भूयो मन्त्रं मण्डलकुम्भगम् ।
कुम्भं तं शयनागारे ऊर्ध्वदेशे निधाय वै ॥ २७६ ॥
वस्त्रपीठोपरिस्थं तु च्छन्नं कृत्वा तु वाससा ।
तत्रापि दिग्विदिकूस्थं च दद्यात् पूर्णघटाष्टकम् ॥ २७७ ॥
अच्छिन्नप्रसरं धूपं दीपपात्रं घृतादिना ।
फलपुष्पौषधीदीपलाजाः सिद्धार्थकं दधि ॥ २७८ ॥
पात्रसङ्घं तदग्रे तु कृत्वा चाथ बलिं हरेत् ।
बलिदानप्रकारकथनम्
निशामुखे तु सम्प्राप्ते सर्वदोषप्रशान्तये ॥ २७९ ॥
एकस्मिन् वै समादाय पात्रे यत् कल्पितं विभोः ।
आपुष्पधूपदीपाच्च उपसंगृह्य यत्नतः ॥ २८० ॥
तद्भूतदत्तमन्यस्मिन् षण्णां वा तत्पृथक् पृथक् ।
स्वदीपालङ्कृतं कृत्वा स्वघटोपरि विन्यसेत् ॥ २८१ ॥
रक्षरक्षपदोपेतं मन्त्रमस्त्रयुतं स्मरेत् ।
रक्ष्यस्य शिरसि भ्राम्य यथा दत्तं क्रमेण तु ॥ २८२ ॥
सत्त्वशुद्धांस्तथा भूयो मद्भक्तान् बलिवाहकान् ।
अस्त्राभिमन्त्रितान् दद्यात् तेषां सिद्धार्थकान् करे ॥ २८३ ॥
प्रजप्य भस्मना कुर्याल्ललाटे तिलकं तु वै ।
प्रवाहयेद् बलिं मन्त्री हागाधेऽम्भसि वै पुरा ॥ २८४ ॥
चत्वरे वृक्षमूलेऽथ ग्रामाद् वा नगराद् बहिः ।
देवभूतबलिक्षेपो विहितश्चात्र कर्मणि ॥ २८५ ॥
धूमायन्तं च सिद्धार्थैर्वह्निपात्रं पुरोदितम् ।
तेनैव बलिपात्रेण सोदकेन समन्वितम् ॥ २८६ ॥
त्यजेत् कूपसमीपे तु वाप्यां वा निकटे तरोः ।
बलिं क्षिप्त्वा समाचम्य धौताङ्घ्रिकरपल्लवः ॥ २८७ ॥
रक्ष्यावनौ सुलिप्तायां परितः शोधितस्य च ।
तन्मूर्ध्नि दीपपात्रे च सिद्धार्थक्षेपमाचरेत् ॥ २८८ ॥
प्रजप्य बहुशोऽस्त्रेण मूलसम्पुटितेन च ।
बध्नीयात् सप्तरात्रं तु प्रत्यहं तस्य चाम्बरे ॥ २८९ ॥