सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 433, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 433

३७४ सात्वतसंहिता
अथोक्तमिह संक्षेपाद् वदेदन्यत्र विस्तरात् ।
अथ संसाधितं मन्त्रं ब्रह्मचर्यादिसंयमैः ॥ १५३ ॥
पयोयावकशाकाम्बुघृतमूलफलाशनैः ।
मन्त्री यथा प्रयुञ्जीयाच्छान्तिकादिषु तच्छृणु ॥ १५४ ॥
एवं पयोयावकादिप्राशनब्रह्मचर्यनियमैः साधितस्य मन्त्रस्य शान्तिकादिषु प्रयोग-
क्रमं शृण्वित्याह—अथेति द्वाभ्याम् ॥ १५३-१५४ ॥
यहाँ संक्षेप में कहा गया है । अन्यत्र विस्तार से कहा गया है । अब दूध
यावकादि प्राशनपूर्वक ब्रह्मचर्यादि नियमों द्वारा साधित मन्त्र का शान्तिकादि कर्म में
जिस प्रकार अनुष्ठान किया जाता है, हे सङ्कर्षण ! उसे सुनिये ॥ १५३-१५४ ॥
शान्तिविधानम्
ज्ञात्वादौ स्वशरीरोत्थैर्लौकिकैरपि लक्षणैः ।
प्राप्तेन स्वप्नयोगेन संस्थितिं जीवितस्य च ॥ १५५ ॥
ततः शल्यविनिर्मुक्तं स्थानमासाद्य शोभनम् ।
संच्छन्नं शरजालेन साम्बरेणाथवा गृहम् ॥ १५६ ॥
तत्र मण्डलमालिख्य सर्वोपकरणान्वितम् ।
चन्दनक्षोदयुक्तेन शशिना सहितेन च ॥ १५७ ॥
सुगन्धशालिचूर्णेन प्रागुदीरितलक्षणम् ।
निर्व्रणं लक्षणाढ्यं च पूरितं गालिताम्भसा ॥ १५८ ॥
हेमरत्नौषधीवृक्षशाखादूर्वाफलोदरम् ।
धूपिताहतशुष्केण वाससा परिवेष्टितम् ॥ १५९ ॥
सुसमाधारसंस्थं च बाह्यतो मण्डलस्य च ।
विन्यसेत् समसूत्रेण दिग्विदिक़्कलशाष्टकम् ॥ १६० ॥
सुधाचन्दनलिप्ताङ्गं लाजतण्डुलपूरितम् ।
श्वेतपट्टगलोपेतं सितपुष्पस्रगान्वितम् ॥ १६१ ॥
मुक्तफलोदरं चैव बीजमल्लकभूषितम् ।
उपकुम्भाष्टकं त्वेवं कुम्भानामुपरि न्यसेत् ॥ १६२ ॥
श्वेतचामरसंयुक्तं सितमूर्ध्ववितानकम् ।
बद्ध्वा सितेन सूत्रेण सप्तधा कलशाष्टकम् ॥ १६३ ॥
संवेष्ट्य कण्ठदेशान्तं त्वच्छिन्नेन दृढेन च ।
कृत्वैवं च ततः स्नायात् कुर्यान्न्यासादिकं ततः ॥ १६४ ॥
निशाम्बुना चन्दनेन श्वेतदूर्वाङ्कुरेण च ।