सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 427, कुल 837 में से
संदर्भ में पढ़ें३६८ सात्वतसंहिता
नास्याः कुर्याः परित्यागं कर्मणा मनसा गिरा ।
सध्यं विना न कुर्याद् वै स्नानादीनां च लोपनम् ॥ १२५ ॥
यावज्जीवं यथाशक्तिः संस्थितो यत्र कुत्रचित् ।
स्थानेषु हृदयाद्येषु कुर्यान्मन्त्रगणार्चनम् ॥ १२६ ॥
द्रव्यैः पुष्षाम्बुपूर्वैस्तु तदभावे तु वै हृदि ।
मानसीं पूर्ववत् पूजां निर्वपेन्न्यासपूर्विकाम् ॥ १२७ ॥
मन्त्रनाथं गुरुं मन्त्रं समत्वेनाभिवीक्षयेत् ।
मन्त्रमण्डलमुद्राणां परां गुप्तिं समाचरेत् ॥ १२८ ॥
दूरादेव नमस्कार्यो मृगराड् व्याघ्र एव वा ।
तदाकृतिमृगोऽन्यो वा तच्चर्म क्वापि नारुहेत् ॥ १२९ ॥
न चाक्रमेत पादेन न च तल्पादिकं स्पृशेत् ।
पद्मपत्रैस्तथाश्वत्थपर्णैर्भोजनभाजनम् ॥ १३० ॥
वर्जनीयं तथा शङ्खपद्माद्याङ्कितमासनम् ।
नक्तं वा परिपीडं वाऽप्येकादश्यां समाचरेत् ॥ १३१ ॥
विशेषपूजनं कुर्याद् द्वादशीष्वखिलासु च ।
अयनादिषु चान्येषु सूर्यसंक्रमणे षु च ॥ १३२ ॥
न भूतग्रहदुष्टानां व्याधीनां वा कदाचन ।
असिद्धेन स्वमन्त्रेण कुर्यादुत्सारणं तु वै ॥ १३३ ॥
मन्त्रजं सिद्धिलिङ्गं यत् स्वप्ने प्रत्यक्षतोऽपि वा ।
अनुभूतं न वक्तव्यं कस्यचिद् गुरुणा विना ॥ १३४ ॥
व्यक्तं नृसिंहबीजं तु दृश्यते यत्र कुत्रचित् ।
नमस्कुर्यात् समभ्यर्च्य वाक्पुष्पैः सप्रदक्षिणैः ॥ १३५ ॥
कृत्वाऽश्रुपातं शोकं वा विप्रयोगनिमित्ततः ।
स्नानादृते न कुर्याद् वै देवाग्निपितृतर्पणम् ॥ १३६ ॥
आ नाभिवर्धनात् कालादन्यत्र सति सङ्करे ।
सूतकाख्ये न कर्तव्यं प्रागुक्तं चैव यत्नतः ॥ १३७ ॥
स्वानुष्ठानं हि वै यस्मादागमात् समुपागतम् ।
तस्य सम्पूजनं यत्नाद् गोपनं च समाचरेत् ॥ १३८ ॥
ब्राह्मणादीन् यथाशक्ति दीनानाथांश्च पालयेत् ।
एवं हि समयान् दद्याद् भक्तानां भावितात्मनाम् ॥ १३९ ॥
सम्पालनाच्च येषां वै प्राप्नुयान्मन्त्रजं फलम् ।