सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 274, कुल 837 में से
संदर्भ में पढ़ेंनवमः परिच्छेदः २१५
जीवात्मानः सर्व एते नोपास्तिर्वैष्णवी हि सा ।
आविष्टमात्रास्ते सर्वे कार्यार्थममितद्युते ॥
अनर्थ्याः सर्व एवैते विरुद्धत्वान्महामते ।
अहङ्कृतियुताश्चैव जीवमिश्रा ह्याधिष्ठिताः ॥
-(तत्त्व० पृ० १३०-१३२)
इत्यादिभिर्मुख्यः साक्षादवतारः, गौणस्त्वावेशावतार इति प्रतिपादितम् । अत्र तु
साक्षादवतारानावेशावतारांश्च सह पठित्वा प्रादुर्भावगणो मुख्य इत्युभयेषामपि मुख्य-
प्रादुर्भावत्वप्रतिपादनादुभयसाधारणप्रसिद्धत्वमेव मुख्यशब्दार्थः, न तु साक्षादवतारत्व-
मिति बोध्यम् ।
किञ्च, "प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः" (९।८४) इत्यत्र प्रादुर्भाव-
शब्देन मुख्यप्रादुर्भावा गौणप्रादुर्भावाश्च यथा संगृहीताः, तथा प्रादुर्भावान्तराण्युपि
संगृहीतानि बोध्यानि, त्रिविक्रमादीनां प्रादुर्भावान्तरत्वात् । प्रादुर्भावान्तरं नाम तत्त-
दवताराणामवान्तरभेदाः । तथा च पौष्करे-
स्वभावमजहच्छश्वदाकारान्तरमाकृतेः ।
यत्तदंशसमुद्भूतं प्रादुर्भावान्तरं तु तत् ॥ इति । (३६।२०१-२०२)
कण्ठरवेण च प्रतिपादितास्तत्रैव-
तथा वामननाथेन खर्वमूर्तिधरेण च ।
स्नातकब्रह्मचारीयलाञ्छनेर्लाञ्छितेन च ॥
तस्य रूपान्तरेणैव सुखानां सुखदेन च ।
त्रिविक्रमाख्यसंज्ञेन त्रैलोक्याक्रान्तमूर्तिना ॥ (३६।१९६-१९८)
इत्यादिभिः । विष्वक्सेनंसंहितायां चैवमेवोक्तम्-
पूर्वोत्पन्नाद् वैभवीयात् प्रादुर्भूता महेश्वराः ।
प्रादुर्भावान्तरान् विद्धि तान् गणेश्वर मुख्यतः ॥
उपेन्द्राच्च यथा मुख्यात् त्रिविक्रमतनुर्हरिः । (तत्त्व०, पृ० १३५)
इत्यादिभिः । लक्ष्मीतन्त्राहिर्बुध्न्यसंहितयोस्त्वावेशावताराणां प्रादुर्भावान्तरत्व-
मुक्तम्-
आविश्याविश्य कुरुते यत्र देवनरादिकम् ।
जगद्धितं जगन्नाथस्तज्ज्ञेयं विभवान्तरम् ॥
-इति, (लक्ष्मी० ४।३०)
विभवान्तरसंज्ञं तद् यच्छक्त्यावेशसंभवम् ।
-इति च । (अहि० ८।५१)
वस्तुतस्तु "प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः" (९।८४) इति पद्म-
नाभादीनां मुख्यत्वोक्त्या तदन्येऽमुख्या विभवावतारा बहवः सन्तीति ज्ञायते । अत्र
श्रीकृष्णस्य पारिजातहरणशब्देनोक्तत्वात् तदनुक्तिर्न शङ्कनीया ।