सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 275, कुल 837 में से
संदर्भ में पढ़ें२१६ सात्वतसंहिता
ननु “नरो नारायणश्चैव हरिः कृष्णस्तथैव च” (९।८२) इति कृष्णास्तूच्यत
एव, तदनुक्तिः केनोच्यत इति चेन्न, यतोऽत्र प्रतिपादितः कृष्णो न वसुदेवात्मजः, अपि
तु धर्मात्मज इति बोध्यम् । तथा च पौष्करे—
धर्मात्मा भगवान् विष्णुः प्रादुर्भावं च शाश्वतम् ।
प्रादुर्भूतं हि वै यास्मान्नराद्यं कृष्णपश्चिमम् ॥ इति । (३६।२०७)
ननु चात्र केवलकृष्णशब्दस्योक्तत्वाद् वसुदेवपुत्रः प्रसिद्धः कृष्ण एव स्यादिति
चेन्न, साहचर्यविरोधाद् वक्ष्यमाणध्यानविरोधाच्च । किञ्च, अत्रानन्तस्योक्तत्वाद् बल-
भद्रलक्ष्मणावप्युक्तप्रायाविति बोध्यम् ।
अनन्तः प्रथमं रूपं लक्ष्मणश्च ततः परम् ।
बलभद्रस्तृतीयस्तु कलौ कश्चिद् भविष्यति ॥
इति प्रसिद्धेः ।
ननु भगवदवतारमध्ये शेषावतारयोर्बलभद्रलक्ष्मणयोः कथनं कस्यापेक्षितमिति
चेन्न, शेषस्यैव भगवतारत्वात् । अत एवात्र—“पद्मनाभो ध्रुवोऽनन्तः” (९।७७)
इत्यनन्तस्याप्युक्तत्वाच्च ।
ननु तर्हि मत्स्याद्यवतारदशकेऽप्यन्तर्भूतस्य बलभद्रस्यास्मिन् पद्मनाभाद्यष्टत्रिंशा-
वतारगणे कथमप्रतिपादनमिति चेत्, सत्यम् । यथा श्रीरामस्योक्त्या लक्ष्मणाद्यास्त्र-
योऽप्युक्तप्रायाः, तथा पारिजातहरस्योक्त्या तद्भ्रातृपुत्रपौत्राः सङ्कर्षणप्रद्युम्नानिरुद्धा
अप्युक्तप्राया इति बोध्यम् ।
ननु किं प्रद्युम्नानिरुद्धयोरपि भगवदतारान्तर्गतत्वमङ्गीक्रियत इति चेत्, निः-
संशयमङ्गीक्रियते । ननु तर्हि पुराणार्थानभिज्ञोऽसि, श्रीभागवते दशमस्कन्धे—
कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना ।
देहोपपत्तये भूयस्तमेव प्रत्यपद्यत ॥ (१०।५५।१)
इत्यत्र मुनिभावप्रकाशिकाख्यायां व्याख्यायाम्—“वासुदेवांश इति विशेषणम् ।
अनेन भाविजन्मप्रभृति सम्बन्ध उक्तः । न(नु?तु) चतुर्व्यूहेष्वयं तृतीयव्यूह उच्यते, नाम-
साम्यं तु तद्विभूतित्वनिबन्धनमिति विवेकः । वासुदेवाधिष्ठितचित्तप्र(भा प्र)त्वाद्
वासुदेवांशस्तत्सृष्टिहेतुत्वाद्वो” इति व्याख्यातम् । अतः प्रद्युम्नानिरुद्धयोर्भगवदवतार-
त्वं न संभवतीति चेन्न, यतस्तद्व्याख्यातृभिः सहस्रनामभाष्यादिकं कदापि न दृष्टम् ।
भगवच्छास्त्रमपि न श्रुतम् । सहस्रनामभाष्ये हि—“कृष्णात्वेऽप्यजहद्वासुदेवादिचतु-
र्मूर्तित्वादिति विभवेऽपि तन्मूलव्यूहं प्रत्यभिज्ञापयति—चतुर्मूर्तिः । बलभद्रवासुदेव-
प्रद्युम्नानिरुद्धाश्चतस्रो मूर्तयो यदुकुलेऽप्यस्येति व्यूहमूलेन निरूपाधिकपररूपेण
देवक्यामवततार” (पृ०६५८-६५९) इति, “अत्रापि तथैव समस्तव्यस्तषाड्गुण्या-
वस्थत्वाच्चतुर्व्यूहः” (पृ० ६६०) इति च प्रद्युम्नानिरुद्धयोरपि भगवदवतारत्वमस-
कृदुक्तम् । भगवच्छास्त्रेऽपि लक्ष्मीतन्त्रे—
अवतारो हि यो विष्णोश्चतुर्धा संभविष्यति ।