सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 210, कुल 837 में से
संदर्भ में पढ़ेंप्रकार दोनों पक्षों में एकादशी के दिन उपवास और जागरण करे । अवशिष्ट दिनों
में रात्रि को भोजन तथा मध्याह्न समय में चार या एक ब्राह्मण भोजन कराए ।
अशक्त होने पर मात्र गो ग्रास का दान करे और प्रतिपक्ष में पूर्वोक्तदान करना
चाहिये । इस प्रकार संवत्सर पर्यन्त संहार क्रम से इन मूर्त्तियों की पूजा करने से
उस अधिकारी भक्त पर भगवान् अधोक्षज प्रसन्न हो जाते हैं ॥ ७५-८२ ॥
षोडशाख्यव्रतनिरूपणम्
षोडशाख्यमतो वक्ष्ये व्रतं धन्यतमं हि यत् ।
पूर्ववद् रात्रिसमय आषाढस्याद्यवासरे ॥ ८३ ॥
गृहीत्वा नियमं कुर्यादा प्रभातादिपूजनम् ।
त्रिसन्ध्यं वामनादीनां विधिवद् द्वादशाहकम् ॥ ८४ ॥
त्रयोदश्यां ततोऽभ्यर्च्य चतुर्वर्गप्रदं प्रभुम् ।
आद्यन्तमनिरुद्धादि तदाद्यमपरेऽहनि ॥ ८५ ॥
तृतीयं पञ्चदश्यां तु संशान्तव्यक्तलक्षणम् ।
एवं मूर्त्यन्तरेर्युक्तं चातुरात्म्यं त्रिधा स्थितम् ॥ ८६ ॥
आराध्य परया भक्त्या चैकादश्यामनश्नतः ।
पूर्णं तदर्चनं कृत्वा पञ्चदश्यां यथाविधि ॥ ८७ ॥
चत्वारस्तन्मयाः पूज्याः श्रद्धापूतेन चेतसा ।
आत्मयागं ततः कुर्याद् दिनान्तेऽर्चनपूर्वकम् ॥ ८८ ॥
एवमाश्वयुजे भूयः पर्वादौ प्रारभेत् क्रियाम् ।
पद्मनाभादिमूर्तीनामर्चनं विहितं क्रमात् ॥ ८९ ॥
एकादश्यामनश्नंस्तु सर्वं निर्वर्त्य पूर्ववत् ।
सम्प्राप्ते च ततः पौषे यजेन्नारायणादिकम् ॥ ९० ॥
द्वादश्यां तद् द्विषट्कं च तथा व्यूहत्रयं त्वपि ।
चैत्रे तद्दिवसादादौ विष्ण्वादीनां समर्चनम् ॥ ९१ ॥
विहितं सद्ब्रतज्ञानां सह व्यूहत्रयेण तु ।
विशेषपूजनं कुर्यात् सम्पन्ने वत्सरे सति ॥ ९२ ॥
विभोरग्रे द्विजेन्द्राणां षोडशानां स्वशक्तितः ।
अथ व्रतान्तरमाह—'षोडशाख्यमि'ति प्रक्रम्य 'षोडशानां स्वशक्तितः' इत्य-
न्तम् । अत्र केशवादयो द्वादश वासुदेवादयश्चत्वारः, आहत्य षोडशमूर्तयः । एतेषां
षोडशानामुक्तक्रमेणार्चनादिकं षोडशाख्यव्रतमित्युच्यते । यद्वा आषाढादिमासचतुष्टये
प्रतिमासं वासुदेवादीनां चतुर्णामर्चनात् षोडशाख्यमिति ज्ञेयम् । आषाढे वामनादीनाम्,