सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 185, कुल 837 में से
संदर्भ में पढ़ें१२६ सात्वतसंहिता
नन्वत्र समयपरिच्छेदे—
प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् ॥
अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् ।
दूरात् प्रदक्षिणं कुर्यान्निकटात् प्रतिमां विभोः ॥
दण्डवत् प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् । (२१।११-१३)
इति बहुवचनमपि वक्ष्यति । तस्य का गतिरिति चेत्, सत्यम् । तत्र चतुर्दिशमिति
स्थानभेदोऽप्यस्तीति ज्ञेयम् ।
ननु च—'एकत्रिपञ्चसप्तादिगणनाविषमं हि यत्' (३७।५३) इति विषम-
प्रणामनिषेधकपौष्करोक्तिः, तदनुसारिणी—'तत्र प्रदक्षिणानि प्रणामांश्च युग्मान्
कुर्यात्' (पृ० ११४) इति पाञ्चरात्ररक्षोक्तिश्च भवता न श्रुता किमिति चेत्, उच्यते—
पौष्करनिष्ठानामेव तदुक्तानुष्ठानम्, सात्वतनिष्ठानां तु सकृदेव प्रणामानुष्ठानं बोध्यम्,
'सकृत्ते नमः, द्विस्ते नमः' इत्यादिभिः पक्षद्वयस्यापि श्रुत्युक्तत्वात्, तथैव शिष्टाचारा-
च्च । आगमाध्ययनं कुर्यात् तद्वाक्यार्थविचारणमित्यत्र पाञ्चरात्ररक्षायाम्—'तदिह
भगवत्प्रीणनस्वचित्तरञ्जकेतिहासपुराणस्तोत्रनिगमान्तद्वयव्यापकमन्त्रादीनां श्रवणमनन-
प्रवचनजपादयो वादसंवादादयश्च यौगिकज्ञानप्रदीपस्नेहायमानाः,
पारुष्यमनृतं चैव पैशुन्यं चैव सर्वतः ।
अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ —(मनु० १२।६)
इत्यादिदर्शितवाचिकपापोदयप्रतिबन्धिनश्च सर्वे व्यापारा यथासंभवं संभूय पृथग्भूय
वा स्वाध्यायीभवन्ति' (पृ० १४९) । इति संगृहीतं द्रष्टव्यम् ॥ १८७-१८९ ॥
तदनन्तर आचमन कर संयमपूर्वक भगवान् के मन्दिर में पुनः जावे । फिर
मन, बुद्धि, अभिमान के साथ कछुये के समान चारों हाथ, पैर और पाँचवाँ शिर
पृथ्वी पर स्थापित कर साष्टाङ्ग सर्वदा प्रदक्षिणा करे ॥ १८७-१८८ ॥
इस प्रकार साष्टाङ्ग नमस्कार कर भगवान् के आगे बैठकर आगम (मन्त्र)
शास्त्र का स्वाध्याय करे और उसके अर्थों पर विचार करे ॥ १८९ ॥
प्राप्ते तु सन्ध्यासमये स्नात्वा च जघनावधि ।
क्षालयित्वा ततः कुर्याद् वासःसम्परिवर्तनम् ॥ १९० ॥
अर्चयित्वार्घ्यपुष्पाद्यैर्देवमग्निं यजेत् ततः ।
यथाशक्ति जपं कुर्यादासाद्य शयनं ततः ॥ १९१ ॥
समाधाय बहिर्देवं निरालम्बपदे स्थितम् ।
अप्रयत्नेन वै तावदनिरुद्धेन तेजसा ॥ १९२ ॥
सह तेनैव वै निद्रा यावदभ्येति साम्प्रतम् ।
समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः ॥ १९३ ॥
अथ सायन्तनस्नानादिनिद्रान्तं कर्तव्यकर्मणां क्रमं संक्षेपेणाह—प्राप्त इति
सार्धैस्त्रिभिः । अत्र स्नात्वेत्यादिना सन्ध्योपासनादिकमुपलक्ष्यते । देवमर्चयित्वेत्यत्रा-