सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 184, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः १२५
चतुः पञ्चत्रिधा वापि प्राणपूर्व्वैर्द्विजोत्तम ॥
केवला भक्तिपूतास्तु त्रयीधर्मरता द्विजाः ।
प्राणापानादिभिर्मन्त्रैर्जुहुयुः पञ्चधा क्रमात् ॥
हृदयस्थाय देवाय विष्णवे सर्वजिष्णवे । —(पृ० १३०) इति ।
नन्वेवं प्राणापानादिमन्त्रान् विना साक्षात् तदन्तरात्मभगवदसाधारणमन्त्रैराहुति-
पक्षे निवेदितशेषं विना पृथगनेनानुयाग उदितः । अन्यथा निवेदितनिवेदनाख्यदोषः
संभवति । अत एवात्र भोज्यं नैवेद्यपूर्वं तु समादायाथ पात्रगमिति नैवेद्यशब्दः प्रयुक्तः,
न निवेदितशब्दः । नैवेद्यम् अन्तरात्मनिवेदनाय कल्पितमित्यर्थः स्वरसः । तथा सति
पवित्रीकृत्य चाम्भसेत्युक्तेरपि सार्थक्यं भवतीति चेति सच्चरित्ररक्षादिकं कदापि न
श्रुतवानसि, यतस्तत्र सवन्दनाभिषेकन्यायेन निवेदितनिवेदनाख्यदोषः परिहृतः । निवे-
दितार्थकनैवेद्यशब्दा अपि बहुशस्तत्र तत्रोदाहृताः ॥ १८१-१८६ ॥
इसके बाद शरीर यात्रा के लिये परमेश्वर की प्रार्थना कर आज्ञा प्राप्त करे ।
तदनन्तर यथाविधि आत्मयाग करे । सर्वप्रथम पात्र में रहने वाला सभी प्रकार का
नैवेद्य देवता को निवेदन कर जल से प्रक्षालित कर भोजन करे । यतः अलक्ष्या
एवं सत्यरूपा चतुरात्मीया भावना ही अन्नदोष का नाश करने वाली है अतः उसकी
भावना करनी चाहिये ॥ १८१-१८३ ॥
यतः अन्न रसात्माध्यक्ष संज्ञक है, उसके भगवान् स्वादुभाव रूप में प्रद्युम्न
व्यस्थित है, वीर्य में सङ्कर्षण स्थित हैं और स्वयं भगवान् वासुदेव स्वयं इसके
भोक्ता हैं । इस प्रकार की भावनापूर्वक भोजन के अनन्तर चार बार प्रणव से
अभिमन्त्रित एक चुल्लू जल पीवे ॥ १८४-१८५ ॥
इसके बाद पुनः वक्त्ररूप कुण्ड में उसी प्रणव से चार आहुति प्रदान करे ।
इसी प्रकार अभिमत वक्त्ररूप कुण्ड में अभिमत (यथेच्छ) ग्रास की आहुति देकर
यथारुचि भोजन करे ॥ १८६ ॥
समाचम्य पुनर्यायात् प्रयतो भगवद्गृहम् ।
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ॥ १८७ ॥
कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ।
प्रदक्षिणसमेतेन त्वेवंरूपेण सर्वदा ॥ १८८ ॥
अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतः प्रभोः ।
आगमाध्ययनं कुर्यात् तद्वाक्यार्थविचारणम् ॥ १८९ ॥
अथैवमनुयागानन्तरं पुनराचमनपूर्वकं भगवद्गृहप्रवेशं तत्र कर्तव्याष्टाङ्गप्रणाम-
प्रकारमागमाध्ययनरूपस्वाध्यायं चाह—समाचम्येति त्रिभिः । अत्राष्टाङ्गेनेत्येकवचनेन
सकृत्प्रणामप्रतिपादकश्लोकद्वयमिदमेवेति सूच्यते । अत एव श्रीमद्भाष्यकारैरपि
नित्यग्रन्थे—‘भगवन्तमष्टाङ्गप्रणामेन प्रणम्य’ (पृ० १८७) इत्येकवचनमेव प्रयुक्तम्,
अष्टाङ्गप्रणामप्रतिपादकश्लोकद्वयमिदमेवोदाहृतं च (पृ० १८८) ।