सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 186, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 186

षष्ठः परिच्छेदः १२७
र्चनप्रकारः, अग्निं यजेदित्यत्र होमप्रकारश्च पूर्वोक्त एव ग्राह्यः । एतेन स्वार्थ-
परार्थयोरुभयत्रापि कालद्वयार्चनं मुख्यं भवति, अविशेषेणोक्तत्वात् । सति विभवे
पारमेश्वराद्युक्तं द्वादशकालार्चनादिकं परार्थे कार्यम्, तदुद्दिश्यैवोक्तत्वात् । साय-
माचमनं चानुयागान्तमिति ज्ञेयम्,
सायंप्रातर्द्विजातीनामशनं श्रुतिचोदितम् ।
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥ —(मनु० २।५२)
इति रात्रिभोजनस्यापि शास्त्रीयत्वात् ।
नन्वत्रानुयागः कण्ठरवेण नोक्तः, लक्ष्मीतन्त्रेऽपि—
सन्ध्यामुपास्य विधिवदभिगम्य मां धिया ।
योगं युञ्जीत विधिवच्छास्त्रशुद्धेन चेतसा॥ —(४०।१०२)
इत्यत्रानुयागो नोक्तः, ईश्वरपारमेश्वरयोरपि— 'सायन्तनार्चनं कुर्यात् षडङ्गं बलि-
पश्चिमम्' (ई०सं० ६।७८; पा०सं० ७।४३७) इति, 'त्रिकालेष्वेकसप्ताङ्गं षडङ्गं
चाचरेद् द्वयम्' (ई०सं० ६।७८; पा०सं० ७।४३४) इति च वह्निसन्तर्पणान्त-
मेवार्चनमुक्तम् । एवं वचनेषु जागरूकेषु कथं रात्रावनुयागः शास्त्रीयो भवतीति चेत्,
सत्यम् । अत्र सर्वत्रापि रात्रिभोजनस्य नैयत्याभावात् तथोक्तमिति ज्ञेयम् । यतः पाद्मे—
ततः पश्चिमसंध्यायां प्राप्तायां तत्र चोदितम् ।
जपहोमादिकं सर्वं कृत्वा परमपूरुषम् ॥
अर्चयित्वा यथान्यायं यथापूर्वमशेषतः ।
भुक्त्वा संविश्य शयने समुत्थाय महानिशि ॥
आचम्य प्रयतो भूत्वा ध्यात्वा परमपूरुषम् ।
इति रात्रिभोजनमप्युक्तम् । ननु रात्रिभोजनस्य नैयत्याभावेन तदप्रतिपादने
समर्थित एकादश्याद्युपवासदिवसेषु दिवाभोजनस्यापि नैयत्याभावात् तत् कथं
प्रतिपादितमिति चेत्, ब्रूमः—दिवोपवासस्य क्वाचित्कत्वाद् रात्र्युपवासस्य पञ्चपर्वादिषु
बाहुल्याद् दिवारात्र्यनुयागयोः प्रतिपादनाप्रतिपादने बोध्ये ।
नित्यग्रन्थेषु दिवानुयागस्याप्यनुक्तिरेवमेव समर्थिता वेदान्ताचार्यैः पञ्चरात्र-
रक्षायाम्—'तथाह्युपवासदिवसेष्वेकादश्यादिष्वनुयागस्य लोपो भवति । सप्ताङ्गमेव
तदानीं यजनम् । अत एवानुयागस्यानियतत्वव्यञ्जनाय भाष्यकाराणां तदनुक्तिः ।
तदर्थकालश्च तस्मिन् दिवसे स्वाध्याययोगादिष्वन्यतमेन यथोचितं यापनीयः' (पृ०
१६७) इति । अत्र सप्ताङ्गमित्यनेनैकादश्यादिष्वपि पितृसंविभागः कार्य इत्युक्तं
भवति । स च तिलोदका(न्तरूपं ? न्न्रूपो) न ब्राह्मणभोजनरूप इति ज्ञेयम्, यतस्तत्रैव
कदाचिद् द्वादश्यादिषु प्रभाते पारणं भवति । तदर्थं पूर्वं यजने कृतेऽपि स्वकालप्राप्तं
मध्यन्दिनयजनं सप्ताङ्गमिति भोजनानन्तरमपि पितृसंविभाग उक्तो नान्नश्राद्धरूपः, अपि
तु तिलोदका(न्त? न्न)रूप एव ।
ननु भवता द्वादश्यादिषु प्राभातिकार्चनानन्तरमपि पितृसंविभागः कथमुक्त इति
चेत्, सत्यम् । तत् परार्थविषयम्, तत्र प्राभातिकार्चनस्याप्युक्तत्वात्, 'तत्र प्राभातिकीं
कुर्यात् पूजामष्टाङ्गसंयुताम्' (ई०सं० ६।७६; पा०सं० ७।४३२) इति कण्ठो-