सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 183, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 183

१२४ सात्वतसंहिता
नैवेद्यहीने दुर्भिक्षं मरणं मन्त्रहीनके ॥
अमन्त्रमविधिं चैवमकालं चैव पूजनम् ।
नित्यं राष्ट्रभयं कुर्यात् तत्तद्ग्रामं तु नश्यति ॥
इत्यादि, तदेतत्सर्वं राजराष्ट्रादिसमृद्ध्यर्थं काम्याराधनेष्वन्येष्वपि पूर्णानुष्ठान-
शक्तस्य सम्पूर्णानुष्ठानद्रव्यस्य लोभादिभिस्तत्तद्धानौ मुख्यकल्पसमर्थस्यानुकल्पेन वृत्तौ
च दोषमाह, न तु नित्ये कर्मणि निष्कामस्ययथाशक्तिकरणे’ (पृ० १७५-१७६) इति
च स्पष्टमुक्तम् । रसात्माऽध्यक्षसंज्ञोऽत्र इत्यत्रान्नस्य वीर्यरूपरसेषु क्रमेण सङ्कर्षणादीनां
केवलं बलवीर्यतेजोरूपेणावस्थानं भाव्यम्, बलादीनां भोज्यगुणत्वात् । भोक्ता
वासुदेवस्तु ज्ञानैश्वर्यशक्तिरूपेण भाव्यः, ज्ञानादीनां भोक्तृगुणत्वात् । तथा च पारमेश्वरे
महाहविःप्रकरणे—
बलं वीर्यं च तेजश्च अर्घ्यपुष्पं समुत्क्षिपेत् ।
केवलेन च सास्त्रेण नेत्रमन्त्रेण भावयेत् ॥
ततः स्वदक्षिणे हस्ते विज्ञानैश्वर्यशक्तयः ।
स्मर्तव्याः स्वस्वमन्त्रेण भोजकाः करणात्मकाः ॥
स्पृष्ट्वा स्पृष्ट्वा यथाभोगं बद्ध्या ग्रासमुद्रया ॥
निवेदनीया वै विष्णोरन्तमूर्त्यन्तरस्थिताः ।
रसवीर्यादिभेदोत्थास्तेजोवीर्यबलात्मकाः ॥
—इति (१८।३७८-३८१)
लक्ष्मीतन्त्रेऽपि—
तारिकामुच्चरन् कुर्यान्नामन्त्रस्थां विभावयेत् ॥
सोमानन्दमयीं दिव्यां क्रमाद्यन्नाद्यतां गताम् ।
वीर्यरूपरसाकारां तेजोवीर्यबलात्मिकाम् ॥
ऐश्वर्यशक्तिविज्ञानरूपं भोक्तारमव्ययम् ।
आत्मानं पुण्डरीकाक्षं भावयेत् पुरुषोत्तमम् ॥
—(४०।९६-९८) इति
अम्भश्चुलुकं पिबेदित्यत्र परिषेचनमपि कार्यम् । तथा च लक्ष्मीतन्त्रे—
अस्त्रेण तारया प्रोक्ष्य तारया परिषिच्य च।
उपस्तीर्य ततश्चापो दद्यात् प्राणाहुतिं ततः ॥ (४०।९५) इति।
वक्त्रकुण्डेऽथ तेनैवेति प्रणवेनैव प्राणाहुतयः प्रतिपादिताः । अतः प्रसिद्ध-
प्राणाहुतिमन्त्रपरित्यागान्न भेतव्यम् । यतः सच्चरित्ररक्षायाम्—‘येषां तु तत्र भगवद-
साधारणमन्त्रैर्वक्त्रकुण्डे होमो विहितः, न तेषु वैदिकमर्यादाविरोधः शङ्कनीयः, कल्प-
सूत्रप्रतिनियतधर्मान्तरवत् तदुपपत्तेः’ (पृ० १३०) इति प्रत्यपादि । एवं च प्रणवेनैव
प्राणाहुतिरिति नियमोऽपि नास्ति । यतः सच्चरित्ररक्षायाम्—
येन येन तु मन्त्रेण बहिराराधनक्रमे ।
वेद्यादिस्थस्य देवस्य प्रापणं विनिवेदितम् ॥
तेन तेन तु मन्त्रेण जुहुयुर्वक्त्रकुण्डके ।