सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 152, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः ९३
उपानह, श्वेत छत्र, शिविका, रथादि से लेकर गज पर्यन्त सभी वाहन
पताका सहित गरुड़ध्वज समर्पित करे ॥ ६० ॥
सितासित चामर, तदनन्तर समस्त औपचारिक भोगों में दोष पूर्त्ति के लिये
मात्रावित्त (औपचारिक बीज) समर्पित करे ॥ ६१ ॥
फिर भेरी मृदङ्ग, शङ्खादि तथा जय-जयकार शब्द से युक्त अनेक प्रकार के
गाने, नृत्य एवं तन्त्री वाद्य से युक्त (जितन्तादि) स्तोत्र, मन्त्र, नमस्कार, प्रणाम
तथा प्रदक्षिणादि द्वारा पादपीठ सहित श्रीभगवान् का पूजन करे । फिर उन्हें
भोजनार्थ आसन प्रदान करे ॥ ६२-६३ ॥
पूज्यः सपादपीठं वै दद्याद् भोज्यासनं विभोः ॥ ६३ ॥
छत्रं दुकूलतूलोत्थमसूरकवरेण तु ।
अथार्हणजलं स्वच्छं सुगन्ध्यं पात्रतः कृतम् ॥ ६४ ॥
मधुपर्कं दधिमधुघृतयुक्तमनन्तरम् ।
शीतलं तर्पणजलमथ चूर्णं पुरोदितम् ॥ ६५ ॥
देयं निष्पुंसनार्थं तु पुनराचमनं विभोः ।
स्वलङ्कृतां सुरूपां च स्रग्युक्तां विनिवेद्य गाम् ॥ ६६ ॥
प्रभूतमथ नैवेद्यं भक्ष्यभोज्यान्यनेकशः ।
मधुराद्या रसाः सर्वे शाकाः सफलमूलकाः ॥ ६७ ॥
पानकानि पवित्राणि स्वादूनि मधुपर्कवत् ।
सर्वमाचमनार्थं तु प्रदद्यादर्हणोदकम् ॥ ६८ ॥
तिलान्यथ सुरत्नानि ताम्बूलं पुनरेव हि ।
अथ भोज्यासनोपचारानाह—सपादपीठमित्यादिभिः । दुकूलतूलोत्थमसूरकव-
रेण क्षौमाद्याच्छादितदुकूलोत्थितमृद्वास्तरणेनेत्यर्थः । अर्हणजलं मधुपर्काङ्गमापोशन-
रूपं प्रधानार्घ्योदकं पात्रतः कृतं पृथक्पात्रे प्रणीतमित्यर्थः । तथा च वक्ष्यति दीक्षा-
धिवासपरिच्छेदे प्रधानाविनियोगविवरणप्रकरणे—'तदम्भसाचार्हणं तु तथैव परिषे-
चनम्' (१८।७२) इति । दधिमधुघृतयुक्तमित्यत्र क्षीरमपि योज्यम्, 'नाconstruct/नाविकं मधु-
पर्कार्थे दधिक्षीरादिकं शुभम्' (२१।३७) इति समयपरिच्छेदे वक्ष्यमाणत्वात्, 'पयसो
मधुनो दध्नः संयोगो मधुपर्ककः' (३९।२७) इति लक्ष्मीतन्त्रोक्तेश्च । तर्पणजलं
मधुपर्कनिवेदनानन्तरं तृप्त्यर्थं पानीयम् । तदपि प्रधानार्घ्योदकमेव, 'कुर्यात् प्रणय-
नादानम्' (१८।७२) इति प्रधानार्घ्यविनियोगस्य वक्ष्यमाणत्वात् । प्रणयनं = पात्रान्तरे
सेचनम्, तत्पूर्वकमादानं = ग्रहणमित्यर्थः । तथा च व्यक्तमुपबृंहितमीश्वरपारमेश्व-
रयोः—'तर्पणं सम्प्रतिष्ठाप्य वासितं चार्यवारिणा' (ई०सं० ५।३; पा०सं०
६।३७६) इति । पुरोदितं चूर्णं स्नानासनोक्तमुद्वर्तनचूर्णमित्यर्थः । निष्पुंसनार्थं =
हस्तोद्वर्तनार्थम् । गां विनिवेद्य । इदं गोविनिवेदनं मधुपर्कच्छिद्रसम्पूर्णार्थमिति ज्ञेयम् ।