सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 153, कुल 837 में से
संदर्भ में पढ़ें९४ सात्वतसंहिता
तथा च लक्ष्मीतन्त्रे— 'देयमाचमनं पश्चान्मात्रा गौर्माधुपर्किकी' (३९।३०) इति ।
एतद्गोमात्रानन्तरं बीजमात्रा विनिवेदनीया । 'ओषधीः शालिपूर्वाश्च स्रक्फलाढ्यं
वनस्पतिम् । मूर्तं निवेदयेत् पूर्वम्' (ई०सं० ५।७; पा०सं० ६।३७९-३८०)
इतीश्वरादिषु प्रतिपादनात् प्रभूतं प्रचुरमित्यर्थः । नैवेद्यं = पायसान्नादि-हविरष्टकम् ।
भक्ष्याणि अपूपानि, भोज्यानि फलानि । तथा च पारमेश्वरे—'भक्ष्याण्यपूपपूर्वाणि
भोज्यानि तु फलानि च । लेह्यानि मधुपूवार्णि चोध्याण्याम्रादिकान्यपि । पेयानि
क्षीरपूर्वाणि अनुपानान्वितानि च ।' (१८।३८६-३८७) इति । मधुराद्या रसा सर्वे
इत्यनेन षण्णामपि रसानां भगवन्निवेदनार्हत्वमुक्तं भवति । यद्यपि—
अपक्वव्रीहिविहिततण्डुलेनैव साधितम् ।
भक्ष्यं दुग्धाज्यसंसिक्तं गुलखण्डफलान्वितम् ।
अक्षारलवणोपेतं देवानां हविरुच्यते ॥
—(ई० २५।८८-८९; पा० १८।१६४-१६५)
इति मधुररसमात्रस्य देवतार्हत्वमुक्तम्, तथापि व्रतयज्ञादिविषयत्वमात्रं बोध्यम्;
अन्यत्र सर्वेषामपि रसानां समर्पणीयत्वोक्तेः । तथा चेश्वरपारमेश्वरयोः—
अक्षारलवणं सिद्धं गुलक्षीरफलान्वितम् ।
शान्तये व्रतयज्ञे च संसाध्यं हविरुत्तमम् ॥ इति ।
—(ई० २५।९०-९१; पा० १८।१६७)
शाकफलमूलानां ग्राह्याग्राह्यत्वविवेचनं हविःसाधनविधानं पानकादिप्रकल्पनं
तत्तन्निवेदनप्रकारादिकं सर्वमीश्वरादिषु विस्तरेणोक्तं द्रष्टव्यम् । सरलतिलमात्रा सुव-
र्णादिपात्रेण निवेदनीया । तथा चेश्वरे—
तिलान्यथ सुरत्नानि सुवर्णे वाथ राजते ॥
पात्रे कृत्वाऽथ मात्रार्थं देवाय विनिवेदयेत् । (५।२२-२३) इति ।
ताम्बूलम्—
लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् ।
जातीपूगफलोपेतं ससुगन्धच्छदं बहु ॥
कर्पूरचूर्णसंमिश्रं मुक्ताचूर्णविमिश्रितम् ।
मातुलुङ्गफलोपेतं नालिकेलफलान्वितम् ॥
प्रदद्यात् प्रणतश्चान्ते ताम्बूलं जगतः पतेः ।
—(ई०सं० ५।२३-२५)
इत्युक्तलक्षणं ज्ञेयम् ।
पूर्वमलङ्कारासने ताम्बूलस्य समर्पितत्वात् पुनरित्युक्तम् ॥ ६३-६९ ॥
रूई से परिपूर्ण गद्दे, जो क्षौम वस्त्र से आच्छन्न हो, ऐसा आसन प्रदान
करे । फिर प्रधान अर्घ्यपात्र, जो स्वच्छ तथा सुगन्ध पूर्ण हो, उसे अलग पात्र में
स्थापित कर समर्पण करे । इसके बाद दधि, मधु, घृत युक्त मधुपर्क, फिर शीतल
तर्पण जल तथा पूर्व कथित उद्वर्तन चूर्ण प्रदान करे ॥ ६३-६५ ॥