सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 150, कुल 837 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः ९१
समयपरिच्छेदे वक्ष्यमाणत्वात् । चाल्यमानेन बाहुना = परिकल्पितैरिति शेषः । अत्र
दीपधूपयोभयत्रापि घण्टानादसहितत्वं बोध्यम् । यतः—'आवाहनेऽर्घ्ये धूपे च दीपे
नैवेद्यजोषणे' (३।८३) इतीश्वरादिषूक्तम् । वाहनं = सुवर्णादिमयममित्यर्थः । तथा च
लक्ष्मीतन्त्रे—'प्रदीपश्च प्रधूपश्च वाहनं चेतनेतरत्' (ल० ३९।२४) इति । मात्रावित्तं =
मीयते परिच्छिद्यते पूर्यत इति मात्रा, मात्रार्थं वित्तं द्रविणम् । औपचारिकभोगानां =
दृष्ट्यानन्दजनकानां दीपादीनाम्, श्रोत्रानन्दजनकानां स्तुतिवादित्रगीतानां चेत्यर्थः । एत
एव भोगा लक्ष्मीतन्त्रे सांदृष्टिकत्वेनाभिमानिकत्वेन च प्रतिपादिताः । तथाहि—
दृष्ट्यैव जन्यते प्रीतिर्यैस्ते सांदृष्टिका मताः ॥
शुभा रूपोल्बणास्ते च दीपप्रवहणादयः ।
भोगाः शुभकरास्तद्वत् तर्पयन्ति रसैर्हि ये ॥
प्रापणाचमनीयाद्यास्ते स्युराभ्यवहारिकाः ।
सुखरम्यमृदुस्पर्शा भोगैर्यैं तर्पयन्त्यजम् ॥
भोगाः सांस्पर्शिकास्ते स्युः पाद्यार्घ्यासनपूर्वकाः ।
गन्धाः सांस्पर्शिके केचित् केचिदाभ्यवहारिके ॥
निविष्टा अनिलाद्याः स्युरन्याः पाकजगन्धिनः ।
स्तुतिवादित्रगीताद्या भोगाः शब्दमया हि ये ॥
दैन्याञ्जलिपुटाद्याश्च ते स्मृता आभिमानिकाः ।
इत्थं चतुर्विधैर्भोगैः शास्त्रदृष्टेन वर्त्मना ॥
—(३६।८७-९२) इति ।
अत्र तु पवित्रोत्सवप्रकरणे औपचारिकसांस्पर्शिकाभ्यवहारिकत्वेन भोगत्रै-
विध्यस्यैव वक्ष्यमाणत्वाद् औपचारिकशब्देनैव लक्ष्मीतन्त्रोक्ताः सांदृष्टिका आभिमानि-
काश्च भोगाः संगृह्यन्ते । किञ्चात्र औपचारिकभोगानामिति सांस्पर्शिकानामित्युप-
लक्षणम् । यतोऽत्र—'सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम्' (१४।६) इति
मात्रावित्तस्य सांस्पर्शिकभोगपूरकत्वमपि वक्ष्यति । अत एव पारमेश्वरे—'सम्पूर्णार्थं
भोगानां सर्वेषां द्विजसत्तम' (पा० ६।३५९) इति मात्रावित्तस्य सर्वभोगपूरकत्वमुप-
बृंहितम् । अपि च, औपचारिकभोगानां छिद्रपूरकं मात्रान्तरमपि वक्ष्यति पवित्र-
प्रकरणे—'औपचारिकभोगानां बीजानि विहितानि वै' (१४।७) इति ।
एतद्बीजमात्रादानस्य कालस्तु ईश्वरपारमेश्वरयोर्भोज्यासने मधुपर्काङ्गोमात्रानि-
वेदनानन्तरमुक्तः। बीजानि च ग्राम्याणि ग्राह्याणि, 'मधुपर्कं च गोमात्रा साध्यबीजानि
पश्चिमे' (१८।३६५) इति तत्रैव महाहविःप्रकरणे उक्तत्वात् । साध्यबीजानि कर्ष-
णादिकृतिसाध्यबीजानि, ग्राम्यबीजानीति यावत् । आरण्यकबीजानां कृतिसाध्यत्वा-
भावादिति भावः । बीजानामलाभे गतिरप्युक्ता पारमेश्वरे—
बीजानामप्यलाभे तु फलमेकं प्रशस्यते ।
बीजेष्वेकतमं वापि तत्तत्कालानुरूपतः ॥—(१८।२७) इति ।
तत्रप्रमाणादिकमपि तत्रैव विस्तरेणोक्तं द्रष्टव्यम् । तण्डुलमात्रापि द्रव्य-
मात्रानिवेदनसमय एव दातव्या, अन्यत्रानुक्तत्वात् । गोमात्रातिलमात्रयोः कालभेदमत्रैव