सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 149, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 149

९० सात्वतसंहिता
सितासितौ चामरौ तु मात्रावित्तमनन्तरम्।
औपचारिकभोगानामेतेषां पूरणाय च ॥ ६१ ॥
भेरीमृदङ्गशङ्खाद्यैर्जयशब्दसमन्वितैः ।
गीतकैर्विविधैर्नृत्यैस्तन्त्रीवाद्यसमन्वितैः ॥ ६२ ॥
स्तोत्रमन्त्रैर्नमस्कारैः प्रणामैः सप्रदक्षिणैः ।
अलङ्कारासने समर्पणीयान्युपचारानाह— ‘समभ्यर्च्यार्घ्यपाद्येन’ इत्यारभ्य ‘प्रणामैः
स-प्रदक्षिणैः पूज्यः’ इत्यन्तम्। चन्दनादिनेत्यादिशब्देन कुङ्कुमादिकं गृह्यते। तथा च
पारमेश्वरे—‘घृष्टकुङ्कुमकस्तूरीमृगस्नेहावलेपनम्’ (६।३४७) इति । बीजनं च
आर्द्रगन्धशোষণार्थं ज्ञेयम्। तथा च लक्ष्मीतन्त्रे—‘चन्दनाद्याः सुगन्धाश्च वीजनं
शोषणार्थकम्’ (ल० ३९।२०) इति। केशप्रसादकृत कूर्चं कङ्कतमित्यर्थः। तथा च
लक्ष्मीतन्त्रे—‘विवेचनं च केशानां कङ्कतेन प्रशोधनम्’ (ल० ३९।१९) इति।
पुष्पताम्बूलकर्तरीम्। मुक्तपुष्पसमन्वितम्, मुक्तैः अग्रथितैः पुष्पैः सहितमित्यर्थः।
पुष्पाञ्जलिसमर्पणसहितमिति यावत्। तथा च पारमेश्वरे—‘मुक्तपुष्पं ततो दद्याद्
यथाकालसमुद्भवम्’ (६।३४८) इति। लक्ष्मीतन्त्रेऽपि—
मकुटाद्या अलङ्काराः प्रदेयाः परमात्मनः।
स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः॥
पुष्पाञ्जलिः पदद्वन्दे प्राकारसुमनश्चयैः।
—(३९।२१-२२) इति।
प्रतिसरं = पवित्रमित्यर्थः। धातुभिः गैरिकादिभिः, कुङ्कुमादिभिः कुङ्कुमह-
रिद्रागोरोचनादिभिरित्यर्थः। तथा चेश्वरपारमेश्वरयोः—
निशारोचनया वापि पवित्राणां च धातुना॥
केनचिद् ग्रन्थयो विप्रा विधिवत् परिरञ्जयेद्।
—(ई०सं० १४।२६७-२६८; पा०सं० १२।५००-५०१)
मृदु तूलेनेति हेमरत्नाद्युपलक्षकम्। यतो हेमरत्नादिभिरपि गर्भपूरणमुप-
बृंहितमीश्वरादिषु। मुखवासं मुखं वास्यतेऽनेनेति मुखवासः। कर्पूरमित्यर्थः। रोचनं
गोरोचनसहितम्। प्राकारं चित्रकुसुमैः रत्नप्रभोज्ज्वलं रत्नसदृशनिजप्रभाभासुर-
मित्यर्थः। अत्र विशेषणान्तराण्यप्युक्तानीश्वरादिषु ग्राह्याणि—
प्रभूतैस्तु महाज्वालैस्तैलतैलाज्यपूरितैः॥
अभुक्ताहतसुश्वेतरचितैर्वर्तिवेष्टितैः ।
ग्रन्थीकृतत्वगेलाद्यैः पूजयेत् तदनन्तरम् ॥
—(४।१८३-१८४) इति।
मृष्टधूपसमायुक्तं = कृतधूपेनागर्वाद्विना वा विमिश्रितमित्यर्थः। कर्पूरमेलनम-
प्युक्तमीश्वरादिषु—‘कर्पूरचूर्णसंमिश्रं सुगन्धि मधुरं बहु (४।१८५) इति। अत्राज्य-
मिश्रणमपि कार्यम्, ‘धूपार्थं गुग्गुलुः साज्यो देयश्चाभवतोऽपरः’ (२१।३५) इति