सामग्री पर जाएँ
सर्वकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 148, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 148

षष्ठः परिच्छेदः ८९
तृतीयं रत्नखचितं तत्रस्थं परमेश्वरम् ॥ ४९ ॥
विभाव्यालङ्कृतं भक्त्या भोगैः स्रक्चन्दनादिभिः ।
अथालङ्कारासनसमर्पणमाह—मध्येऽवतार्य इति सार्धेन । तत्रस्थं परमेश्वरं
स्रक्चन्दनादिभिर्भोगैरलङ्कृतं विभाव्य कृतकृत्यो भवेदिति शेषः । यद्वा अलङ्कृत-
मित्यत्रालङ्करिष्यमाणमिति भविष्यदर्थकत्वं बोध्यम् ॥ ४९-५० ॥
अब अलङ्कार आसान का समर्पण कहते हैं—मध्य में भगवान् को उतार कर
आसन निवेदन करे । तत्रस्थ तृतीय परमेश्वर को रत्नखचित अलङ्कारों से
अलङ्कृत ध्यान करे । फिर भक्तिपूर्वक अर्घ्य, पाद्य निवेदन कर स्रक्, चन्दनादि
भोगों से उनकी अर्चना करे ॥ ४९-५० ॥
अलङ्कारासने समर्पणीयानुपचारकथनम्
समभ्यर्च्यर्घ्यपाद्येन पादुकाभ्यामनन्तरम् ॥ ५० ॥
देयमाचमनं भूयः पादपीठं तथैव च ।
समालभ्य सुगन्धेन भक्तितश्चन्दनादिना ॥ ५१ ॥
संवीज्य व्यजनेनैव मायूरेण ततेन च ।
केशप्रसारकृत् कूर्चं पुष्पताम्बूलकर्तरीम् ॥ ५२ ॥
निवेद्य देवदेवाय दुकूलवसने सिते ।
उपवीतं सोत्तरीयं मकुटाद्यमनन्तरम् ॥ ५३ ॥
पादनूपुरपर्यन्तमलङ्करणमुत्तमम् ।
विचित्रं हि शिरोमाल्यं मुक्तपुष्पसमन्वितम् ॥ ५४ ॥
स्रग्दामसूत्रसम्बद्धमा कर्णाच्चरणावधि ।
रुचिरं कङ्कणं चाथ दद्यात् प्रतिसरं ततः ॥ ५५ ॥
धातुभिः कुङ्कुमाद्यैर्वा विचित्रं सितसूत्रजम् ।
पूरितं मृदुतूलेन ग्रथितं चान्तरान्तरा ॥ ५६ ॥
अञ्जनं सशलाकं च ताम्बूलं गन्धभावितम् ।
ललाटतिलकं हैमं मुखवासनरोचनम् ॥ ५७ ॥
कर्णावतंसकुसुमे मण्डलं दर्पणं महत् ।
प्राकारं चित्रकुसुमैर्दीप्तं रत्नप्रभोज्ज्वलम् ॥ ५८ ॥
मृष्टधूपसमायुक्तं गुग्गुलं धूपयेच्छुभम् ।
सह घण्टारवै रम्यैश्चाल्यमानेन बाहुना ॥ ५९ ॥
उपानहौ सितं छत्रं शिबिकां च रथादि यत् ।
वाहनं गजपर्यन्तं सपताकं खगध्वजम् ॥ ६० ॥
सा० सं० - 10