सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)
Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary
आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा
पृष्ठ 521, कुल 558 में से
संदर्भ में पढ़ेंपरिशिष्ट २ ४०९
§ ६०२
२३३. ९ पूर्वोत्तरभावप्रज्ञापननयो व्यवहारनयः ।
सोऽनन्तं.........॥४०॥
§ ६०४
२३५. ६ परमनिरुद्धो बुद्ध्या अविभागभेदेन
भेदितः ।
इति पञ्चमोऽध्यायः ।
काय.......॥२॥
§ ६१०
२३८. ८ औदारिकादिसप्तविधः कायः औदारिकौ-
दारिकमिश्रवैक्रियिकवैक्रियिकमिश्राहारकाहारकमिश्र -
कार्मणलक्षणो । मिश्रत्वं च कायस्यापरिपूर्णत्वम् ।
शुभ.........॥३॥
§ ६१४
२३९. १२ शुभयोगस्यापि ज्ञानावरणादिबन्धहेतु-
त्वाभ्युपगमात् । यथा उपोषितादेः पठतो विश्रम्य-
तामिति वागादियोगस्य ।
सकषाय.........॥४॥
§ ६१६
२४०. ८ ईरणमीर्या यमाह योग इति कायादि-
व्यापार इत्यर्थः । अस्यापि तात्पर्यमाह गतिरित्यर्थः ।
कायादिवर्गणालम्बी आत्मप्रदेशपरिस्पन्द इत्यर्थः ।
सैव न कषायादिद्वारमास्रवः मार्गो यस्य तत्तद्द्वारकं
कर्म ।
इन्द्रिय.........॥५॥
§ ६१८
२४१. १५ विशसनं मारणम् ।
निवर्तना.........॥९॥
५२
§ ६२६
२४५. ४ अनाभोगनिक्षेपः पुनरनालोकितरूपतयोप-
करणादिस्थापनम् ।
तत्प्रदोष.......॥१०॥
§ ६२८
२४५. ९ अनभिव्याहरतः । वचनमनुच्चारयतः ।
दुःखशोक........॥१२॥
§ ६३०
२४६. ७ वैक्लव्यविशेषो दीनत्वविशेषः । आवि-
लान्तःकरणस्य कलुषितान्तःकरणस्य । तीव्रानु-
शयो अतिशयेन पश्चात्तापः ।
§ ६३०
२४७. ३ आस्थीयते ( आस्तीर्यते ) प्रतिज्ञायते ।
§ ६३०
२४७. ८. न दुःखं न सुखमित्यादि । चिकित्सिते
हेतुः—शस्त्रादिः, स न दुःखं सुखं वा-दुःखरूपः
सुखरूपो वा स्वरूपेण न भवति जडत्वात् । चिकि-
त्सायां तु युक्तस्य वैद्यादेर्यदि क्रोधादिरस्ति तदा दुःखं
स्यात् दुःखेहेत्वधर्मोपार्जनत्वात् । एवं मोक्षसाधने हेतुः
उपवासलोचादिः, स स्वरूपेण दुःखरूपः सुखरूपो वा
न भवति । यस्तु तेन युक्तो गुरुशिष्यादिः स पूर्ववत्
सुखदुःखरूपो वेदितव्यः क्रोधादिसद्भावासद्भावाभ्याम् ।
भूत.........॥१२॥
§ ६३२
२४८. ३ अक्षीणाशयः—गृहादावनिवृत्ताभिप्रायः ।
अवरोधः ( अनुरोधः )—स्वीकारः ।
कषायोदय.........॥१४॥
§ ६३६
२४९. १३ अतिसन्धानं-वञ्चनम् ।
§ २३६
२५०. १ व्यपरोपणं विनाशनम् । पराङ्गनावस्कन्दः
परभार्यापहारः ।