सामग्री पर जाएँ
सर्वकोश
सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary

आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 502, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 502

[पृ. ३९०]

३९० सर्वार्थसिद्धि


[वाम स्तम्भ]

शंका—पहले तो आपने बारह राजु कहे थे अब
ग्यारह कहे हैं इससे तो पूर्वापर विरोध आता है ?
उत्तर—ऐसा कहना उचित नहीं है, पहले मारणान्तिक
समुद्घातकी अपेक्षा बारह राजु स्पर्शन कहा है।
किन्तु मारणान्तिक अवस्थामें जीव अनाहारक नहीं
होता किन्तु उत्पाद अवस्थामें अनाहारक होता है ।
सासादन सम्यग्दृष्टि एकेन्द्रियोंमें मारणान्तिक करता
है उत्पाद नहीं करता; क्योंकि उत्पाद अवस्थामें
सासादनपना छूट जाता है ।]
§. १०
३९. ५ काल:— जघन्येनान्तर्मुहूर्त्तः मुहूर्तश्च सहस्र-
त्रितयसप्तशतत्र्यधिकसप्ततिपरिमाणोच्छ्वासलक्षणः ।
तस्यान्तरन्तर्मुहूर्तः समयाधिकामवलिकामादिं कृत्वा
समयोनमुहूर्तं यावत् । स चेत्थमसंख्यातभेदो भवति ।
तदुक्तम्—
‘तिण्णि सहस्सा सत्तय सदाणि तेहत्तरिं च उस्सासा।
एसो हवदि मुहुत्तो सव्वेसिं चेव मणुयाणं ।’
उत्कर्षेणार्धपुद्गलपरिवर्त्तो देशोनः । स च 'संसारिणो
मुक्ताश्च' (त. सू. २,१०) इत्यत्र वक्ष्यते । सासा-
दनैकजीवं प्रत्युत्कर्षेण षडावलिकाः । आवलिका
चासंख्यातसमयलक्षणा भवति ।
'आवलि¹ असंखसमया संखेज्जा आवली य उस्सासो ।
सत्तुस्सासो थोवो सत्तत्थोवो लवो मणियो ॥
²अट्ठत्तीसल्लवा णाली बे णालियामुहुत्तं तु ।
तीसमुहुत्तं दिवसं पणरस दिवसाण हवइ तह पक्खं ॥'
इति वचनात् । सम्यग्मिथ्यादृष्ट्येकजीवं प्रति जघन्येन
जघन्योऽन्तर्मुहूर्तः, उत्कर्षेण चोत्कृष्टो अन्तर्मुहूर्तश्च
पश्चाद् गुणान्तरं यातीत्यग्रे बोद्धव्यम् । असंयतसम्य-
ग्दृष्ट्येकजीवं प्रत्युत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि
सातिरेकाणि । तथाहि कश्चिज्जीवः पूर्वकोटचायुरुत्पन्न-


[दक्षिण स्तम्भ]

स्सान्तर्मुहूर्ताष्टवर्षानन्तरं सम्यक्त्वमादाय तपोविशेषं
विधाय सर्वार्थसिद्धावुपद्यते ततश्च्युत्वा पूर्वकोटचा-
युरुत्पन्नोऽष्टवर्षानन्तरं संयममाददातीति । जघन्येनैकः
समयः । तथाहि-सर्वो जीवः परिणामविशेषवशात्
प्रथमतोऽप्रमत्तगुणं प्रतिपद्यते । पश्चात्सप्रतिपक्षभूतं
प्रमत्तगुणम् । तत्र गुणस्थानान्तरस्थितो निजायुःसमय-
शेषेऽप्रमत्तगुणं प्रतिपद्य म्रियत इत्यप्रमत्तैकजीवं प्रति
जघन्येनैकसमयः । तथाऽप्रमत्तस्थाने स्थितो निजायुः-
कालान्त्यसमये प्रमत्तगुणं प्रतिपद्य म्रियते इति प्रमत्तैक-
जीवं प्रत्यपि जघन्येनैकसमयः । चतुर्णामुपशमकानां
चतुःपञ्चाशच्चावद्यथासंभवं भवतां युगपदपि प्रवेशमरण³-
संभवान्नानाजीवापेक्षयैकजीवापेक्षया च जघन्येनैकः
समयः । नन्वेवं मिथ्यादृष्टेरप्येकसमयः कस्मान्न
भवतीत्यप्यनुपपन्नं, प्रतिपन्नमिथ्यात्वस्यान्तर्मुहूर्त्तमध्ये
मरणासंभवात् । तदुक्तं, श्लोकः—
‘मिथ्यादर्शनसंप्राप्तेर्नास्त्यनन्तानुबन्धिनाम् ।
यावदावलिकापाकोऽन्तर्मुहूर्ते मृतिर्न च ।'
सम्यग्मिथ्यादृष्टेरपि मरणकाले तद्गुणस्थानत्यागान्नैक-
समयः संभवति । प्रतिपन्नासंयतसंयतासंयतगुणोऽपि
नान्तर्मुहूर्तमध्ये म्रियते ततो नासंयतसंयतासंयतयोर-
प्येकसमयः संभवति । चतुर्णां क्षपकाणामयोगकेवली-
नां च मुक्तिभावत्वेनावान्तरमरणासंभवान्नै कजीवा-
पेक्षया जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः । सयोगकेवल्येक-
जीवं प्रति जघन्येनान्तर्मुहूर्तस्तद्गुणस्थानप्राप्त्यनन्तर-
मन्तर्मुहूर्त्तमध्येऽयोगगुणस्थानप्राप्तेः । उत्कर्षेण पूर्व-
कोटी अष्टवर्षानन्तरं तपो गृहीत्वा केवलमुत्पादयतीति
कियद्वर्षहीनत्वात् देशोना ।
• [ अब कालका कथन करते हैं । जघन्यकाल अन्तर्मु-
हूर्त है । तीन हजार सात सौ तिहत्तर उच्छ्वासोंका
एक मुहूर्त होता है । उसके अन्तर्गत अन्तर्मुहूर्त
होता है । अर्थात् एक समय अधिक आवलीसे लेकर


[पादटिप्पणी]

१. गो. जी. ५७३ । २. गो. जी. ५७४ । 'एगसमएण हीणं भिण्णमुहुत्तं तदो सेसं' इति उत्तरार्धपाठः ।
जम्बू० प० १३।५-६ । ३. अपूर्वकरणस्य अवरोहणकाले मरणमबोद्धव्यम् । आरोहकापूर्वकरणस्य
प्रथमभागे—'मिस्साहारस्स य खवगा चढमाणपढमपुव्वा य । पढमुवसम्मा तमतमगुणपडिवण्णा य ण
मरंति ॥' इत्यागमोक्तप्रकारेण मरणाभावात् । ननु अधस्तनगुणस्थानेभ्यः स्वस्वगुणस्थानानि प्राप्य तत्रैकैक-
समयान् स्थित्वा निवृत्तानां चतुर्णामुपशमकानामप्येकसमयाः संभवन्तीति न शङ्कनीयम्, तदसंभवात्,
तत्संभवे च जघन्यतोऽन्तर्मुहूर्तान्तरवचनानुपपत्तेः । वक्ष्यते च तत् चतुर्णामुपशमकानामेकजीवं प्रति जघन्येना-
न्तर्मुहूर्त इति ।