सामग्री पर जाएँ
सर्वकोश
सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary

आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 500, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 500

३८८ सर्वार्थसिद्धि
तेजोलेश्यैः संयतासंयतैः प्रथमस्वर्गे मारणान्तिकाद्य-
पेक्षया सार्धरज्जुः स्पृष्टा । पद्मलेश्यैः संयतासंयतैः
सहस्रारे मारणान्तिकादिविधानात् पञ्चरज्जवः स्पृष्टाः।
शुक्ललेश्यैर्मिथ्यादृष्ट्यादिसंयतासंयतान्तैर्मारणान्तिका-
द्यपेक्षया । सम्यग्मिथ्यादृष्टिभिस्तु मारणान्तिके तद्-
गुणस्थानत्यागाद्विहारापेक्षया षड्रज्जवः स्पृष्टाः ।
अष्टावपि कुतो नेति नाशङ्कनीयम्, शुक्ललेश्यानामधो
विहाराभावात् । यथा च कृष्णलेश्यादित्रयापेक्षयाव-
स्थितलेश्या नारकाः, तथा तेजोलेश्यादित्रयापेक्षया
देवा अपि । तदुक्तम् —
'तेऊ तेऊ तह तेऊपम्मा पम्मा य पम्मसुक्काय ।
सुक्का य परमसुक्कालेस्सा भवणादिदेवाणं ॥
—[ प्रा० पंचसं० १८९ ]
तद्यथा भवनवासिव्यन्तरज्योतिष्केषु जघन्या तेजो-
लेश्या । सौधर्मेशानयोर्मध्यमा । सानत्कुमारमाहेन्द्र-
योरुत्कृष्टा तेजोलेश्या जघन्यपद्मलेश्याविवक्षया ।
ब्रह्मब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्रेषु मध्यमा
पद्मलेश्या । शतारसहस्रारयोरुत्कृष्टा पद्मलेश्या जघन्य-
शुक्ललेश्याविवक्षया । आनतप्राणतारणाच्युतनव-
ग्रैवेयकेषु मध्यमा शुक्ललेश्या । नवानुदिशपञ्चानुत्तरेषू-
त्कृष्टा । उक्तं च—
'तिण्हं दोण्हं दोण्हं छहं दोण्हं च तेरसहं च ।
एत्तो य चोद्दसण्हं लेस्सा भवणादिदेवाणं ॥'
—[ पंच० गा० १८८ ]
ततोऽन्यत्र लेश्यानियमा