सामग्री पर जाएँ
सर्वकोश
सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary

आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 490, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 490

परिशिष्ट २
श्रीप्रभाचन्द्रविरचिततत्त्वार्थवृत्तिपदम्
सिद्धं जिनेन्द्रममलप्रतिमबोधं त्रैलोक्यवन्द्यमभिवन्द्य गतप्रबन्धम् ।
दुर्वारदुर्जयतमःप्रविभेदनाकं तत्त्वार्थवृत्तिपदमप्रकटं प्रवक्ष्ये ॥
§. १
१.२ कश्चिद्भव्यः प्रसिद्धचैकनामा । 'प्रत्यासन्ननिष्ठः'
निष्ठाशब्देन निर्वाणं चारित्रं चोच्यते । प्रत्यासन्ना निष्ठा
यस्यासौ प्रत्यासन्ननिष्ठः ।
१.३ अवाग्विसर्गं न विद्यते वाचां विसर्गो विसर्जन-
मुच्चारणं यत्र निरूपणकर्मणि ।
१.४ उपसद्य समीपे गत्वा ।
§. २
२.१ निराकारत्वात् स्वपरव्यवसायलक्षणाकारशून्य-
त्वात् ।
२.३ आहत्यनिरूपिता हठात् समर्थिता ।
सम्यग्दर्शन-॥१॥
§. ५
४.५ एतेषां निर्देश्यामः निर्देशं करिष्यामः ।
§. १
१.१ 'मोक्षमार्गस्य' मीमांसं प्रति । 'भेत्तारं' यौगं
प्रति । 'ज्ञातारं' सौगतं प्रति ।
[मंगलाचरणमें 'मोक्षमार्गस्य' पद मीमांसकको लक्ष्य
करके रखा गया है क्योंकि वह मोक्षको स्वीकार नहीं
करता । 'भेत्तारं कर्मभूभृतां' पद नैयायिक वैशेषिकको
लक्ष्य करके रखा गया है क्योंकि वे ईश्वरको अनादि
सिद्ध मानते हैं । तथा 'ज्ञातारं विश्वतत्त्वानां' पद
बौद्धको लक्ष्य करके रखा गया है ]
१.१ विविक्ते अस्रवाधारहिते ।
१.६ कर्म द्रव्यकर्म, मलं भावकर्म ।
१.९ प्रमाणेन शून्यो वादः प्रवादः । तीर्थङ्करमिवा-
त्मानं मन्यन्ते तीर्थङ्करंमन्याः निश्चयस्वरूपशून्यत्वात् ।
२.१ 'बुद्धि - सुख - दुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्का-
राणां नवानामात्मगुणानामत्यन्तोच्छित्तिर्मोक्षः ।'
'वर्गेः शक्तिसमूहोऽणोरणूनां वर्गणोदिता ।
वर्गणानां समूहस्तु स्पर्धकं स्पर्धकापहैः ॥'
—[ अमित० पञ्चसं० १।४५ ]
§. ५
४.५ लक्षणतो लक्षणमाश्रित्य । विधानतो विधानं
प्रकारमाश्रित्य । उद्देश्यमात्रं स्वरूपकथनमात्रम् ।
४.७ सोहः अनध्यवसायम् ( यः )
८.८ आगूर्णस्य उद्यतस्य ।
§. २२
नामस्थापना ००० ॥५॥
१३.३ अतद्गुणे न विद्यते शब्दवृत्तिनिमित्तभूताः ते
प्रसिद्धजाति-गुण-क्रिया - द्रव्यलक्षणगुणा - विशेषणानि
यत्र वस्तुनि तद् अतद्गुणं तस्मिन् । पुरुषाकारात्
हठात् । पुस्तकर्म लेपकर्म ।
१३.३ अक्षाणां पाशानां, निक्षेपो विवक्षितप्रदेशे
स्थापनम् । आदि शब्दात् वराटकादी(दि) निक्षेप-
ग्रहणम् ।
१३.११ मनुष्यभाविजीवो यदा जीवादिप्राभृतं न
जानाति अग्रे तु ज्ञास्यति तद्भाविनोआगमः ।
१. 'मलमप्रतिमप्रबोधं' इत्यपि पाठान्तरं । अनेकान्त वर्ष १, कि० १, पृ० १९७ । अंकों के पहले सन्दर्भ
पैराग्राफ (§), तथा दूसरे पृष्ठ और पंक्ति के हैं । २. एतत्पद्यं किमर्थमत्रागतमिति न प्रतीयते । अमितगतिकृत-
पञ्चसंग्रहस्य पञ्चचत्वारिंशत् संख्याकमिदं पद्यमस्ति ।