सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)
Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary
आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा
पृष्ठ 477, कुल 558 में से
संदर्भ में पढ़ेंपरिशिष्ट १
सूत्रपाठ
प्रथम अध्याय
पैराग्राफ संख्या
१. सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । ४
२. तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् । ९
३. तन्निसर्गादधिगमाद्वा । १३
४. जीवाजीवास्त्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् । १७
५. नामस्थापनाद्रव्यभावतस्तन्न्यासः । २१
६. प्रमाणनयैरधिगमः । २३
७. निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः । २५
८. सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च । ३२
९. मतिश्रुतावधिमनःपर्ययै²केवलानि ज्ञानम् १६३
१०. तत्प्रमाणे । १६५
११. आद्ये परोक्षम् ।³ १७३
१२. प्रत्यक्षमन्यत् । १७५
१३. मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनर्थान्तरम् । १८१
१४. तदिन्द्रियानिन्द्रियनिमित्तम् । १८४
१५. अवग्रहेहावाय⁴धारणाः । १८९
१६. बहुबहुविधक्षिप्रानिः⁵सृतानुक्तध्रुवाणां सेतराणाम् । १९१
१७. अर्थस्य । १९७
१८. व्यञ्जनस्यावग्रहः । १९९
१९. न चक्षुरनिन्द्रियाभ्याम् । २०१
२०. श्रुतं मतिपूर्वं द्वयनेकदशद्वादशभेदम् । २०५
२१. भवप्रत्ययोऽवधिर्देवनारकाणाम् ।⁶ २१२
२२. क्षयोपशमनिमित्तः⁷ षड्विकल्पः शेषाणाम् । २१४
२३. ऋजुविपुलमतीमनःपर्ययः ।⁸ २१६
२४. विशुद्धयप्रतिपाताभ्यां तद्विशेषः २१९
२५. विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ।⁹ २२१
२६. मतिश्रुतयोर्निबन्धो¹⁰ द्रव्येष्वसर्वपर्यायेषु । २२३
१. आश्रव-हारिभ० । २. मनःपर्य्याय-त० भा० । ३. तत्र आद्ये-हारिभ० । ४.-हेहापाय-त०, मा०,
हारिभ० सि० । तत्त्वार्थवार्तिकमें 'अवाय और अपाय' दोनों पाठ हैं । ५.-निश्चिता-त० मा०, क्षिप्र-
निःसृतानु- स०, श्रितनिश्चितध्रु- सि० वृ० पा० । ६. त० मा० में भवप्रत्ययो इत्यादि सूत्रके स्थान पर
द्विविधोऽवधिः ॥२१॥ भवप्रत्ययो नारकदेवानाम् ॥२२॥ ऐसे दो सूत्र हैं । ७. यथोक्तनिमित्तः । त० भा० ।
८. -मनःपर्य्यायः । त० भा० । ९.-मनःपर्य्याययोः । त० भा० । १०. सर्वद्रव्ये-त० मा० ।
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri