सामग्री पर जाएँ
सर्वकोश
सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

सर्वार्थसिद्धि: तत्त्वार्थसूत्र (आचार्य पूज्यपाद - पं. फूलचन्द्र सिद्धान्तशास्त्री सविस्तार हिन्दी टीका)

Sarvarthasiddhi of Acharya Pujyapada on Tattvartha Sutra with Commentary

आचार्य उमास्वामी / पूज्यपाद (टीकाकार: पं. फूलचन्द्र सिद्धान्तशास्त्री) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 352, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 352

२४० सर्वार्थसिद्धौ [ ६।४ § ६१५ -
§ ६१५. आह किमयम्र्मास्रवः सर्वसंसारिणां¹ समानफलारम्भहेतुराहोस्वित्कश्चिदस्ति प्रति-
विशेष इत्यत्रोच्यते—
सकषायाकषाययोः सांपरायिकेर्यापथयोः ॥ ४ ॥
§ ६१६. स्वामिभेदादास्रवभेदः । स्वामिनौ द्वौ सकषायोऽकषायश्चेति । कषायः क्रोधादिः ।
५ कषाय इव कषायः । कः उपमार्थः । यथा कषायो नैयग्रोधादिः श्लेषहेतुस्तथा क्रोधादिरप्यात्मनः
कर्मश्लेषहेतुत्वात् कषाय इव कषाय इत्युच्यते । सह कषायेण वर्तत इति सकषायः । न विद्यते
कषायो यस्येत्यकषायः । सकषायश्चाकषायश्च सकषायाकषायौ तयोः सकषायाकषाययोः ।
संपरायः संसारः तत्प्रयोजनं कर्म सांपरायिकम् । ईरणमीर्या योगो गतिरित्यर्थः