सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)
Sangitamakaranda of Narada (Musicology & Raga-Ragini)
देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा
नृत्याध्याये प्रथमः पादः । ३३
तत्पुरुषेत्युत्तरे च मुखे सामवेदोद्भवं तथा ।
सम्पद्वेष्टिकतालोऽयं तस्मात्सम्भवमुच्यते (?) ॥ ४६ ॥
गान्धर्वमिति संज्ञं च मणिवर्णप्रशंसितम् ।
रिगमा इति संज्ञं तु ऋषिभिः प्रतिपादितम् ॥ ४७ ॥
ईशानोर्ध्वमुखे जातः शास्त्रागमसमन्वितः ।
तस्मादुद्भव उद्घटस्तालोऽयं नामतः क्रमात् ॥ ४८ ॥
नानाजातिर्नीलवर्णो यतिः समबतिः क्रमात् ।
रुद्रपञ्चमुखेभ्यश्च तालाः पञ्चविधा मताः ॥ ४९ ॥
ब्रह्महा च सुरापानी स्वर्णस्तेयी च तल्पगः ।
तत्संयोगी पञ्चमश्च येऽतिपातकिनः स्मृताः ॥ ५० ॥
तद्दोषपरिहारार्थं प्रायश्चित्तमुदीरितम् ।
गणैर्नन्दीश्वराद्यैश्च ऋषिभिर्नारदादिभिः ॥ ५१ ॥
आदितालादितालानामेकोत्तरशतं क्रमात् ।
शृण्वतां पातकहरं राज्ञां क्रतुफलं लभेत् (?) ॥ ५२ ॥
राज्याभिवृद्धिसन्तानं रणे शत्रुविनाशनम् ।
सौभाग्यारोग्यमतुलं कामशास्त्रविवर्धनम् ॥ ५३ ॥
लास्याङ्गे संपरिज्ञानं कलावेदिनमुत्तमम् (?) ।
सर्वसङ्गीतसुभगं नृपाणां कीर्तिवर्धनम् ॥ ५४ ॥
इति श्रीनारदकृतौ सङ्गीतमकरन्दे नृत्याध्याये नाट्यशालासभासभापतिपात्रपु-
ष्पाञ्जलिपञ्चतालोत्पत्तिनिरूपणं नाम प्रथमः पादः ।
नृत्याध्याये द्वितीयः पादः ।
सदाशिवो हरिर्ब्रह्मा भरतः कश्यपो मुनिः ।
मतङ्गो यश्च दुर्गा च शक्तिशार्दूलकोहलाः ॥ १ ॥
हनूमांस्तुम्बुरुश्चैव अङ्गदश्चैव नारदः ।
एते साहित्यसर्वज्ञा बुधास्तालान्प्रचक्रमुः ॥ २ ॥
५
३४ सङ्गीतमकरन्दे ।
एकोत्तरशतताला उच्यन्ते ।
चञ्चत्पुटश्चाच्चुपुटः षट्पितापुत्रकस्तथा ।
सम्पद्वेष्टक उद्घट्ट आदितालश्च दर्पणः ॥ ३ ॥
चर्चरी सिंहलीलश्च कन्दर्पः सिंहविक्रमः ।
श्रीरङ्गो रतिलीलश्च रङ्गतालः परिक्रमः ॥ ४ ॥
हंसलीलो वर्णभिन्नो राजचूडामणिस्तथा ।
प्रत्यङ्गो गजलीलश्च त्रिभिन्नो वीरविक्रमः ॥ ५ ॥
रङ्गद्योतो राजतालः सिंहविक्रीडितस्तथा ।
वनमाली वर्णतालस्ततो रङ्गप्रदीपकः ॥ ६ ॥
हंसनादः सिंहनादो मल्लिकामोदसंज्ञकः ।
भवेच्छरभलीलश्च रङ्गाभरण एव च ॥ ७ ॥
ततस्तुरङ्गवि(व)ल्ली स्यात्ततस्तु सिंहनन्दनः ।
जयश्री विजयानन्दः प्रतितालो द्वितीयकः ॥ ८ ॥
मकरन्दः कीर्तितालो विजयो जयमङ्गलः ।
राजविद्याधरो मण्ठो जयतालः कुडुक्ककः ॥ ९ ॥
ततो निःसारिणी क्रीडा मल्लतालश्च दीपकः ।
अनङ्गलीलो विषमो नान्दीतालो मुकुन्दकः ॥ १० ॥
एकतालश्च कङ्कालश्चतुस्तालश्च दोम्बुलिः ।
अभङ्गो राघभङ्गालस्तथैव लघुशेखरः ॥ ११ ॥
प्रतापशेखरश्चान्यो जगझम्पश्चतुर्मुखः ।
झम्पश्च प्रतिमण्ठश्च तथा तालस्तृतीयकः ॥ १२ ॥
तस्मादुपरि विज्ञेयो वसन्तललितो रतिः ।
करुणाख्यायितश्चैव पट्टतालो वर्धनस्तथा ॥ १३ ॥
ततो वर्णयतिश्चैव रायनारायणस्तथा ।
मदनश्चैव विज्ञेयः पार्वतीलोचनस्तथा ॥ १४ ॥
ततो गरुडतालः स्यात्ततः श्रीनन्दनो जयः ।
लीलावलोकितश्चान्यो ललितप्रियमेव च ॥ १५ ॥
नृत्याध्याये द्वितीयः पादः । ३५
जनको यद्वल्लक्ष्मीशो रागवर्धनसंज्ञकः ।
उत्सवश्चेति तालानामेकेनाभ्यधिकं शतम् ॥ १६ ॥
तल्लक्षणं हि वक्ष्येऽहं मुनिनारद इत्यसौ ।
अथ ताललक्षणमाह ।
ताले चच्चत्पुटे ज्ञेयं गुरुद्वन्द्वं लघुद्रुतम् ॥ १७ ॥
गुरुर्लघुर्गुरुश्चैव भवेच्चाचपुटाभिधे ।
पलगा गलपाश्चैव षट्पितापुत्रकस्तथा ॥ १८ ॥
मगणः स्यात्प्लुताद्यन्तं (ः) संपद्वेष्ट्याख्यसंज्ञके ।
उद्घ(द्ध)ट्टो मगणस्त्वेक आदितोऽतिलघुः स्मृतः ॥ १९ ॥
दर्पणः स्याद्द्रुतद्वन्द्वं गुरुश्चैव प्रकीर्तितः ।
अष्टगुर्वक्रचर्चर्यां विरामं च द्रुतौ लघुः ॥ २० ॥
सिंहलीले विधातव्यं लघ्वाद्यन्तं द्रुतत्रयम् ।
द्रुतद्वयं - १कारश्च कन्दर्पे परिकीर्तितः ॥ २१ ॥
सिंहविक्रमतालस्तु मगणो लपलो गपौ ।
श्रीरङ्गसंज्ञके ताले सगणो लगपो मतः ॥ २२ ॥
रतिलीले विधातव्यं लघ्वोर्मध्ये गुरुद्वयम् ।
चत्वारो रङ्गताले स्याद्द्रुतौ(ता)गुरुस्ततः परम् ॥ २३ ॥
परिक्रमे द्रुतद्वन्द्वं यगणस्तदनन्तरम् ।
प्रत्यङ्गसंज्ञके ताले मगणः स्याल्लघुद्वयम् ॥ २४ ॥
लचतुष्कं विरामान्त्यं गजलीले प्रकीर्तितम् ।
लघुर्गुरुः द्रुतश्चैव त्रिभिन्ने परिकीर्तितः ॥ २५ ॥
वीरविक्रमताले तु लौ द्रुतौ च गुरुस्तथा ।
सविरामं लघुद्वन्द्वं ताले स्याद्धंसलीलके ॥ २६ ॥
वर्णभिन्नाभिधे ताले द्रुतद्वन्द्वं लघुर्गुरुः ।
राजचूडामणौ ताले द्रुतौ लश्च द्रुतौ लगः ॥ २७ ॥
रङ्गद्योतेन तालेन भगणो प्लुतावपि ।
गपौ द्रुतौ गलो(लः)पश्च राजताले प्रकीर्तितः ॥ २८ ॥
१ अत्र आदर्शपुस्तकेऽक्षरमेकं त्रुटितम् ।
तालाध्याय: मार्ग व देशी ताल, वाद्य-लक्षण व सङ्गीतमकरन्द उपसंहार
[३६] सङ्गीतमकरन्दे।
द्विला पो गगलो(लः)पञ्चसिंहविक्रीडिते लपौ ।
द्वौ द्रुतौ लो द्रुतौ चैव वनमाली गुरुस्तथा ॥ २९ ॥
गुर्लघुद्रुतौ गुश्च वर्णः स्याच्चतुरस्रके ।
लघुद्रुतौ लघू गश्च तिस्रवर्णः प्रकीर्तितः ॥ ३० ॥
प्रतितूर्थविरामान्त्यं मिश्राख्यो द्वादशद्रुताः ।
प्लुतो गुरुद्रुतद्वन्द्वं गद्वयं लो गुरुस्तथा ॥ ३१ ॥
रङ्गप्रदीप्ताले स्यात्तगणाद्द्रुतो यदि ।
गद्रुतौ द्रुतयुग्मं च हंसनादे प्रकीर्तितः (तम्) ॥ ३२ ॥
घगणो लघुगुश्चैव सिंहनादो निरूपितः ।
ताले स्यान्मल्लिकामोदे गद्वयं लचतुष्टयम् ॥ ३३ ॥
लघुद्रुतचतुष्कं स्याल्लघुः शरभलीलके ।
तगणो लो द्रुतौ गश्च रङ्गाभरणसंज्ञके ॥ ३४ ॥
तुरङ्गलीलताले स्याद्द्रुतद्वन्द्वं लघुस्तथा ।
तपा लगद्रुतौ गालपलपालश्च लद्वयम् ॥ ३५ ॥
निपहं (निःशब्दं) लचतुष्कं स्यात्ताले स्यात्सिंहनन्दने ।
रगणो लघुगुश्चैव जयश्रीरिति गण्यते ॥ ३६ ॥
भवेयुर्विजयानन्दे लद्वयं गुरवस्त्रयः ।
ललितौ प्रतिताले स्याद्द्रुतौ लश्च द्वितीयके ॥ ३७ ॥
मकरन्दे द्रुतद्वन्द्वं लघुत्रयमतो गुरुः ।
लगौ पगौ लपौ गश्च कीर्तिताले प्रकीर्तितः ॥ ३८ ॥
प्लुतो गश्च प्लुतो गश्च ताले विजयसंज्ञके ।
सकारश्च सकारश्च जयमङ्गलनाम च ॥ ३९ ॥
लघुवक्त्रो द्रुतौ ताले राजविद्याधराभिधे ।
सकारो मण्ठताले स्यात्कल्पितं चचतुष्टयम् (?) ॥ ४० ॥
भारो रोधो गुरुद्वन्द्वं निःशब्दं मठतालके ।
अथवा नगणो जश्च लघुश्चैव प्रकीर्तितः ॥ ४१ ॥
जगणो लो द्रुतौ पश्च जयताले निरूपितः ।
द्रुतद्वयं लघुद्वन्द्वं भवेत्ताले कुड्डुक्के ॥ ४२ ॥
[Header] नृत्याध्याये द्वितीयः पादः । ३७
लघूद्वन्द्वं विरामान्त्यं ताले निःसारके भवेत् ।
द्रुतद्वन्द्वं विरामान्त्यं क्रीडाताले प्रकल्पितम् ॥ ४३ ॥
चन्दनिःसारुगीताले द्रुतमेवाभिधीयते ।
सकारो गुरुश्चैव त्रिभङ्गिरभिधीयते ॥ ४४ ॥
कोकिलप्रियताले स्यात्क्रमाद्गुरुर्लघुर्द्रुतः ।
ताले निःसारुके ज्ञेयो लघुश्चैव विधीयते(?) ॥ ४५ ॥
श्रीकीर्तिसंज्ञके ताले गुरुद्वन्द्वं लघुद्वयम् ।
भकारो बिन्दवो गुर्वोर्मध्ये स्याद्विन्दुमालिके ॥ ४६ ॥
समताले लघुद्वन्द्वं विरामान्त्यं द्रुतत्रयम् ।
तौ द्रुतौ च द्रुतस्यान्ते ताले स्यान्नन्दनाभिधे ॥ ४७ ॥
किञ्चिद्गुरुर्द्वयोर्मध्ये बिन्दुयुग्मं प्रचक्षते ।
उद्दीक्षणे लघुद्वन्द्वं गुरुरेकस्ततः परम् ॥ ४८ ॥
मट्टिकायां विधातव्यं गुरुर्बिन्दुः द्रुतः क्रमात् ।
विरामादि व्योमयुग्मं लद्वयं च द्विमट्टिका ॥ ४९ ॥
डिङ्गीकारक्षणं तस्यास्तस्याः सा योजने तथा ।
कौ बिन्दू लश्च बिन्दू च विज्ञेया वर्णमण्टिका ॥ ५० ॥
लद्वयं बिन्दुयुग्मं च गुरुश्चैवाभिनन्दके ।
विधातव्यान्तरक्रीडा विरामान्त्यं द्रुतद्वयम्(?) ॥ ५१ ॥
समह्रुताले द्विलघु विरामान्त्यं द्रुतद्वयम् ।
द्रुतद्वन्द्वं लघुद्वन्द्वं गुरुद्वन्द्वं च दीपके ॥ ५२ ॥
लघुद्रुतौ सकारश्च स्यादानेऽभिधीयते ।
वेदद्रुतौ विरामान्तौ द्वौ प्लुतौ विषमद्रुतः ॥ ५३ ॥
नान्दीताले समुद्दिष्टा लघुबिन्दुुर्लघुर्गुरुः ।
मुकुन्दसंज्ञिके ताले लघुर्बिन्दुुर्लघुर्गुरुः ॥ ५४ ॥
अन्ये मुकुन्दलघ्वादिषड्विन्दु लचतुष्टयम् ।
लघुद्वन्द्वं साकारेण कुड्डुकः परिकीर्तितः ॥ ५५ ॥
एकेनैव द्रुतेन स्यादेकतालेतिसंज्ञितः ।
चतुर्विधान्यकङ्कालः पूर्वखण्डसमागमः ॥ ५६ ॥
३८ सङ्गीतमकरन्दे
पूर्णे लघुचतुष्टेन गुरुणा लघुना क्रमात् ।
द्रुतद्वन्द्वं लघुः खण्डे गुरुद्वन्द्वं लघुः समे ॥ ५७ ॥
एको गुरुर्लघुद्वन्द्वं कङ्काले विषमे भवेत् ।
चतुस्ताले गुरुः पूर्वं ततो विन्दुत्रयं भवेत् ॥ ५८ ॥
विरामान्त्यं लघुद्वन्द्वं दोम्बुलीति प्रकीर्तितः ।
लघुमेव परं त्वन्ये कालवन्धनकाभिधे ॥ ५९ ॥
अभङ्गकालकर्तव्यं गुरुरेकं लघुद्रुतम् ।
रगणो विन्दुयुग्मेन रायभङ्गाल इष्यते ॥ ६० ॥
एकेन सविरामेण लघुना लघुशेखरः ।
प्रतापशेखरेऽप्यङ्गविरामान्तं द्रुतद्वयम् ॥ ६१ ॥
झङ्कझम्पे गुरुस्त्वेको विरामान्त्यं द्रुतत्रयम् ।
चतुर्मुखाभिधे ताले जगणो रन्तरद्रुतम् (?) ॥ ६२ ॥
व्योमद्वयं विरामान्त्यं लघु झम्पे विधीयते ।
जगणो मगणो वापि प्रतिमण्ठे बुधैः स्मृतः ॥ ६३ ॥
तालज्ञैरयमेवान्यैर्झल्लुकः परिकीर्तितः ।
तृतीयताले विन्दुः स्याद्विरामान्त्यं द्रुतद्वयम् ॥ ६४ ॥
वसन्तताले कर्तव्या द्रुतद्वन्द्वं लघुर्गुरुः ।
ताले ललितसंज्ञे च द्रुतद्वन्द्वं लघुर्गुरुः ॥ ६५ ॥
रतिताले लघुः कार्यः सतस्त्वेको गुरुः स्मृतः ।
ताले करण इत्याख्ये ज्ञेयं विन्दुचतुष्टयम् ॥ ६६ ॥
पट्टतालसंज्ञके ताले विन्दुषट्कं निरन्तरम् ।
वर्धने विन्दुयुगलं ततः कार्यों गुरुः स्मृतः ॥ ६७ ॥
वर्णमण्ठाभिधे ताले लघुद्वन्द्वं नभस्त्रयम् ।
रायनारायणे विन्दुद्वितयं जगणो गुरुः ॥ ६८ ॥
द्रुतद्वन्द्वं द्रुतश्चैको मदने परिकीर्तितः ।
पार्वतीलोचने ताले तद्द्रुतौ तगणः क्रमात् ॥ ६९ ॥
अथवा मगणो लश्च गुरुद्वन्द्वं द्रुतत्रयम् ।
गारुगे कथ्यते प्राज्ञैर्विरामान्त्यं चतुर्द्रुताः ॥ ७० ॥
नृत्याध्याये तृतीयः पादः । ३९
श्रीनन्दनस्य तालः स्याज्जगणः द्रुत इत्यपि ।
जयके जगणश्चैव बिन्दुयुग्मं द्रुतस्तथा ॥ ७१ ॥
बिन्दुर्लघुः द्रुतश्चैव लीलाताले प्रकीर्तितः ।
विलोके च लघुर्वह्नव्योमयुग्मं ततः द्रुतम् ॥ ७२ ॥
ललितप्रियताले स्यात्सगणोऽनन्तरा लघुः ।
जनताभिधताले स्यान्नयनेभ्यः परं गुरुः ॥ ७३ ॥
बिन्दुद्वयं विरामान्त्यं लघुतौ रागवर्धने ।
उत्सवः कथितः प्राज्ञैर्लघोरूर्ध्वं द्रुतं लघुः ॥ ७४ ॥
एवं प्रकारः कथितो नारदेन महात्मना ।
इति श्रीनारदकृतौ सङ्गीतमकरन्दे नृत्याध्याये एकोत्तरशततालमात्रानिर्णयो
नाम द्वितीयः पादः समाप्तः ।
अथ नृत्याध्याये तृतीयः पादः ।
चतुरस्रादितालानामेतानि कथिताम्यहम् ।
प्रस्तारसहित
४० सङ्गीतमकरन्दे
पञ्चतालप्रबन्धः स्याद्द्रुताद्यन्तं द्रुतश्चतुः(?) ।
तमसा पञ्चलघुना षट्तालश्च प्रकीर्तितः ॥ ७ ॥
द्रुतौ गुर्वो (रु)र्लघुश्चैव सुलादिरभिधीयते ।
लघुरित्युच्यते तालं गीतज्ञैः पूर्वसूरिभिः ॥ ८ ॥
अष्टमङ्गलतालः स्याद्व्योमाद्यन्तं नवद्रुतम् ।
यः द्रुतो गल्पो लोपो(पः) समगौ नवतालके ॥ ९ ॥
पद्भञ्जनं दीर्घपङ्गं गुरुद्वन्द्वं लघुत्रयम् ।
दशरूपप्रबन्धः स्यात्त्रिंशन्मात्रं लघुस्तथा ॥ १० ॥
घरारसतन् भौ मो लघुद्वादशविन्दवः ।
निःशब्दो लश्च चत्वारताल एकादशे भवेत् ॥ ११ ॥
व्यञ्जनो (ने?) सरलो दीर्घद्वादशसामसम्भवम् ।
गणव्योमयुतं चैव तालः स्यादर्कमालिका ॥ १२ ॥
एतानि दशतालानि वाद्यन्ते श्रूयते नरैः ।
तत्पूर्वसर्वकार्येषु सर्वोत्कृष्टश्च जायते ॥ १३ ॥
विजयो जयमानन्दो जयश्रीर्जयमङ्गलम् ।
जयतालश्च पञ्चैते श्रुत्यं (मृत्युं) जयकरं शुभम् ॥ १४ ॥
द्रुतो गणो नगो राजौ जभव्योमद्वयं पुनः ।
पञ्चतालप्रबन्धः स्याच्छ्राव्यं जयकरं शुभम् ॥ १५ ॥
मदनोत्सवलक्ष्मीशक्रीडाकीर्तिस्तथा रतिः ।
सिंहलीलश्च सप्तैते मार्तण्डजयदः क्रमात् ॥ १६ ॥
चञ्चत्पुटश्चाचपुटः षट्पितापुत्रकस्तथा ।
प्रत्यङ्गो गजलीलश्च षट्तालश्च प्रबन्धकम् ॥ १७ ॥
ध्रुवा मठा प्रतिमठा लम्बको रासकस्तथा ।
अष्टतालश्चैकतालः सुलादीत्युच्यते बुधैः ॥ १८ ॥
लघुसुलादिः ।
रङ्गश्रुतो राजतालो वनमाली त्रिधा मतः ।
त्रिभङ्गी तालवृन्दं च नारदेन यथाक्रमम् ॥ १९ ॥
नृत्याध्याये तृतीयः पादः । ४१
एकतालश्च कङ्कालश्चतुस्तालश्च डोम्बुलिः ।
चतुर्मुखप्रबन्धं स्याच्छ्रूयते शत्रुनाशनम् ॥ २० ॥
कन्दर्पो बिन्दुमाली च समतालश्च नन्दनः ।
राजविद्याधरो झम्पा विषमः कन्दुकस्तथा ॥ २१ ॥
सङ्गीतज्ञमनोरथ्यमष्टमङ्गलनामकम् ।
प्रबन्धं च शृणोत्यत्र विषमग्रहमोचनम् ॥ २२ ॥
उद्घटः सिंहनादश्च अभङ्गो वीरविक्रमः ।
ततः शरभलीला च सिंहविक्रीडितो मतः ॥ २३ ॥
प्रतापशेखरश्चान्यः सिंहविक्रम एव च ।
रायनारायणो नाम नवतालप्रबन्धकम् ॥ २४ ॥
यमौ जपो लघुर्व्योम वक्रपापविरामजौ ।
लपो तपो लपो वक्र सपो लघुगपो लघु ॥ २५ ॥
विरामान्तं लघुद्वन्द्वं पुनस्तत्र विरामकम् ।
चतुर्विन्दु ललव्योमौ जयुरुः स्यान्नवाभिषे ॥ २६ ॥
अभिनन्दान्तरक्रीडा मलतालश्च डोम्बुलिः ।
कुड्डुकका प्रतिमठो मकरन्दश्च चर्चरी ॥ २७ ॥
परिक्रमो हंसनाद एभिस्तालैः समन्वितम् ।
दशरूपप्रबन्धं च श्रूयते कीर्तिवर्धनम् ॥ २८ ॥
नान्दी तृतीयकारस्तु लघुशेखरसंज्ञकः ।
प्रतापशेखरश्चैव तथैवानङ्गलीलकः ॥ २९ ॥
वर्णमट्टश्च चर्चयों वर्णतालो द्वितीयकः ।
उत्सवो मदनश्चैवमेकादश निरूपितम् ॥ ३० ॥
वनमाली राजचूडो वर्णतालः प्रदीपकः ।
रङ्गाभरण उद्धट्टो रतिकीर्तिश्च नन्दनः ॥ ३१ ॥
वीरविक्रमलक्ष्मीश उत्सवश्च ततः परम् ।
प्रबन्धमर्कमालाख्यं श्रूयते पापनाशनम् ॥ ३२ ॥
( इति दशतालः प्रबन्धः समाप्तः । )
६
४२ सङ्गीतमकरन्दे ।
अङ्गतालाः क(थ्यन्ते) ।
गुरवः षोडश ज्ञेया द्वात्रिंशल्लघवः पुनः ।
चतुःषष्टिर्द्रुताश्चैव तालो यक्षपतिर्भवेत् ॥ ३३ ॥
विरामार्धार्धचन्द्रार्धमातृकात्रितयं तथा ।
व्यञ्जनं च लयं खण्डं लघुद्वन्द्वं द्रुतं ततः ॥ ३४ ॥
अनुद्रुतद्वन्द्वलघुस्तालोऽयं वाद्यविभ्रमः ।
इति सङ्गीतकैः प्रोक्तो द्रावडीदश विश्रुतः ॥ ३५ ॥
मरताले नकारः स्याद्गणो ल ततो लगः । , ,
ततश्च बिन्दवश्चैव कल्पितं भचतुष्टयम् ॥ ३६ ॥
पुनर्मठभकारश्च निःशब्दं च गुरुद्वयम् ।
आलापमध्ये चार्द्धेन्दुः सूरिभिश्च विरच्यते ॥ ३७ ॥
गुरुर्वैहुकलायुक्ता द्रुतयुग्मं ततः परम् ।
ब्रह्मताले भवेत्तत्र नारदस्य मतं यतः ॥ ३८ ॥
द्रुतमेकं लघुद्वन्द्वं निःशब्दो लत्रयं भवेत् ।
द्रुतमल्प (?) मया प्रोक्तो लघून्त्याभ्यो निरूपितः ॥ ३९ ॥
गीतझम्पाख्यके ताले व्यञ्जनं द्रुतमिश्रलः ।
वाद्यं झम्पा विरामान्त्यं द्रुतद्वन्द्व च बन्धनम् ॥ ४० ॥
ब्रह्माण्डतालेऽनुद्रुतो द्रुतंसालं ह्याकल्पनम् (?) ।
षड्द्रुतास्त्वर्धबिन्दुश्च लघुश्चैव द्रुतद्वयम् ॥ ४१ ॥
तद्वेदबिन्दुलश्चैव ततो मिश्रलघुद्वयम् ।
द्रुतद्वयं विरामान्त्यं रायकोलाहलः स्मृतः ॥ ४२ ॥
द्रुतत्रयं लघुद्वन्द्वं त्रिरावृत्ता भका ततः ।
मातृकाद्वितयं चैव तालः प्रोक्तो महाशनिः ॥ ४३ ॥
अव्यक्तं व्यञ्जनं बिन्दु तिस्रो लघुः पुनः पुनः (?) ।
व्यञ्जनं वलयं द्वन्द्वमव्यक्तं तिल्वलस्तथा ॥ ४४ ॥
तिस्रो व्यञ्जनो बिन्दु(ः) तिसृमात्रेकमेव च ।
तिनाभेरिरिति प्रोक्तो वाद्यविद्याविशारदैः ॥ ४५ ॥
१ °द्रुतसायन्त्ववत्त्वनं° इति स्यात् ।
नृत्याध्याये तृतीयः पादः । ४३
गगनिःशब्दलध्वेकद्वितीयं लगलश्रुतम् ।
नगलो द्वौ द्रुतं दीर्घं यगणो लवलः स्मृताः ॥ ४६ ॥
गुरवः सप्त विज्ञेयाः सरलानि च षोडश ।
द्रुता विंशतिराख्यातास्तालो वाद्यगजाङ्कुशः ॥ ४७ ॥
(अथ) तालशब्दनिष्पत्तिः ।
तालशब्दस्य निष्पत्तिः प्रतिष्ठार्थेन धातुना ।
गीतं वाद्यं च नृत्यं च भाति ताले प्रतिष्ठितम् ॥ ४८ ॥
संयोगे च वियोगे च वर्तते च तयोर्द्वयोः ।
स्थापितोऽपि दश प्राणैः स कालस्तालसंज्ञिकः ॥ ४९ ॥
शिवशक्त्यात्मकं पुण्यं यशस्यं भुक्तिमुक्तिदम् ।
दशप्राणात्मकं तालं यो जानाति स तत्त्ववित् ॥ ५० ॥
कालमार्गक्रियाङ्गानि ग्रहजातिकलालयाः ।
यतिप्रस्तारकं चैव तालप्राणा दश स्मृताः ॥ ५१ ॥
अथ काललक्षणम् ।
उपर्युपरि विन्यस्य पद्मपत्रशतं सकृत् ।
स कालः सूचिसंवेदात्तत्क्षणस्य कलं प्रति ॥ ५२ ॥
लवः क्षणैरष्टभिः स्यात्काष्ठा चाष्टलवात्मिका ।
अष्टकाष्ठा निमेषः स्यान्निमेषैरष्टभिः कला ॥ ५३ ॥
ताभ्यां चैव चतुर्भागचतुर्भानामनुद्रुतः (?) ।
अनुद्रुताभ्यां बिन्दुश्च बिन्दुभ्यां तु लघुर्भवेत् ॥ ५४ ॥
लघुद्वन्द्वं गुरुश्चैव त्रिलघु द्रुतमुच्यते ।
इतिमानगतिः प्रोक्ता तालज्ञैः पूर्वसूरिभिः ॥ ५५ ॥
अथ मार्गलक्षणम् ।
दक्षिणो वार्तिकश्चैव तथा चित्रविचित्रकः ।
तथा चित्रतरस्तु स्यादतिचित्रतरो मतः ॥ ५६ ॥
४४ सङ्गीतमकरन्दे ।
षैडवः कथितो मार्गस्तस्य रूपं निरूप्यते ।
एतदेव नारदस्य मतमिष्टं यथाक्रमम् ॥ ५७ ॥
अष्टमात्रा कला ज्ञेया मार्गे दक्षिणसंज्ञके ।
वार्तिकस्य तु चतुर्मात्रा कला चित्रा द्विमात्रिका ॥ ५८ ॥
द्रुता चित्रतरे तस्या लघुश्चित्रतरो मतः ।
अतिचित्रतरो मार्गकलाश्च द्रुतसंज्ञिकाः (?) ॥ ५९ ॥
मात्रालक्षणम् ।
लघ्वक्षराणां पञ्चानां मानमुच्चारणे हि तत् ।
तत्प्रमाणं परिज्ञेयं मार्गस्तालस्ततो बुधैः ॥ ६० ॥
मार्गदेशीगतत्वे च तत्राद्यस्य क्रिया द्विधा ।
तद्द्विधं कथयिष्यामि नारदो मार्गलक्षणी (णम्) ॥ ६१ ॥
तत्र चौवाद्निष्क्रामं विक्षेपं च प्रवेशनम् ।
चतुर्विधं च कल्पेत निःशब्दः कथितो बुधैः ॥ ६२ ॥
शम्यतालो द्रुतश्चैव संनिपातस्तथा परम् ।
सशब्देन च संयुक्तो विज्ञेयश्च चतुर्विधः ॥ ६३ ॥
सर्वाङ्गुलिसमाक्षेप औपाद इति कीर्तितः ।
निष्क्रामोध गतिस्तस्या अङ्गुलीनां प्रसारणम् ॥ ६४ ॥
तस्य दक्षिणतः कालो विक्षेप इति कथ्यते ।
विवर्णनं च हस्तस्य प्रवेशोऽधोमुखस्य च ॥ ६५ ॥
तस्य हस्तनिपातस्तु शम्यतालस्तु वामतः ।
हस्तयोरुभयोर्घातो संनिपातद्रुतौ स्मृतौ ॥ ६६ ॥
एतदष्टप्रकारास्तु मार्गभेदा विवक्षिताः ।
तत्रा(द्य)द्वित्रिचतुरकलासु प्रतियोगितः (नः) ॥ ६७ ॥
अथ देशीक्रिया ।
देशीयोग्यं (ग्यान्) प्रवक्ष्यामि व्यापारान् ध्रुवकादिकान् ।
ध्रुवका सर्पिणी कृप्या पद्मिनी च विसर्पिका ॥ ६८ ॥
१ 'षड्भिः कथि' इति शुद्धः पाठः स्यात् । २ 'चावाप' इति शुद्धः पाठः स्यात् । ३ 'आ-
वाप' इति शुद्धः पाठः स्यात् ।
नृत्याध्याये तृतीयः पादः । ४५
विक्षिप्ताख्या पताकाख्या मातृका त्वरित्राष्टमी ।
अमात्राणि (पि) विज्ञेया कथितं नारदेन च ॥ ६९ ॥
सशब्दो ध्रुवका ज्ञेया सर्पिणी वामगामिनी ।
कृष्या दक्षिणतः पातः पद्मिनी स्यादधोगता ॥ ७० ॥
विसर्पिका बहिर्याता विक्षिप्ता कुलजात्मिका ।
पताका चोर्ध्वगमना पतिता करपालना ॥ ७१ ॥
दक्षिणमार्गमात्रानामानि ।
ध्रुवका सर्पिणी चैव पताका परिकीर्त्यते ।
चतुर्मात्रा कला ज्ञेया वार्तिकेऽपि न योजयेत् ॥ ७२ ॥
ध्रुवकापतिते चित्रसरिचित्रादिकान् द्रुतान् (?) ।
अनेनैव प्रकारेण कालमार्गक्रिया भवेत् ॥ ७३ ॥
अथ अङ्गानि ।
अनुद्रुतो द्रुतश्चैव लघुर्गुरुस्ततः परम् ।
प्लुतश्चेति क्रमेणैव तालाङ्गानि च पञ्चधा ॥ ७४ ॥
द्रुतस्य देवता शम्भुर्लघोश्चाद्रिपतेः सुता ।
गौरी च श्रीश्चापि गुरोः प्लुते ब्रह्मादयस्त्रयः ॥ ७५ ॥
अथ ग्रहाः ।
ग्रहास्त्रिधा समा नीतास्तथानागत इत्यपि (?) ।
तल्लक्षणं च वक्ष्यामि नारदो मुनिपुङ्गवः ॥ ७६ ॥
निकोतीते त्वतीतस्य तालातीते त्वनागतः ।
समः समग्रहः प्रोक्तस्तालज्ञैः पूर्वसूरिभिः ॥ ७७ ॥
अथ जातिः कथ्यते ।
३चतुरस्रस्तिस्रमिपस्तालं खंखाभिधे तथा (?) ।
चतुर्विधो भवेत्तालस्तत्स्वरूपं निरूप्यते ॥ ७८ ॥
१ 'समो नीतस्तथा' इति शुद्धः पाठः स्यात् । २ 'नीतोऽतीते' इति पाठः शुद्धः स्यात् । उ-
द्देशे (श्लो. ७६) 'नीतः' इत्येव पाठदर्शनात् । ३ 'चतुरस्रस्तिस्रमिथस्ततः खण्डाभिधस्तथा' इति
शुद्धः पाठः स्यात् ।
नृत्याध्याये तृतीयः पादः । ४७
द्रुतादयः क्रमाद्यत्र यतिः स्रोतोवहा मता ।
गोपुच्छा इति विज्ञेया द्रुतादीनां विपर्ययात् ॥ ८८ ॥
अथ प्रस्तारः ।
अन्येऽपि सन्ति भूयिष्ठास्तालास्ते लक्ष्यवर्त्मनः ।¹
प्रसिद्धविधिरत्रैव शास्त्रेऽस्मिन्प्रतिपादितः ॥ ८९ ॥²
तथेति³ तक्प्रयार्थं तु (?) लघूपाया भवन्त्यमी ।
प्रस्तारसंख्या⁴ नष्टं चोद्दिष्टं पातालकस्तथा ॥ ९० ॥
द्रुतमेरुर्लघुमेरुर्गुरुमेरुः प्लुतस्य च ।
मेरुः संयोगमेरुश्च खण्डप्रस्तारकं तथा ॥ ९१ ॥
प्राचां चतुर्णां मेरूंणां नष्टोद्दिष्टं पृथक् पृथक् ।
एकोनविंशतिरिति प्रैतिख्यानं⁵ ब्रुवेऽधुना ॥ ९२ ॥
प्रस्तारो यथा-
⁶न्यस्याल्पमध्यमहतोऽधस्तात्क्षेपं यनोपरि (?) ।
प्रागूने वामघःस्थाप्यं⁷ संभवे महतो लिखेत् ॥ ९३ ॥
अल्पानासम्भवे तालपूर्त्यै भूयोऽप्ययं विधिः ।
सर्वद्रुतावधिः कार्यः प्रस्तारोऽयं लघौ गुरौ ॥ ९४ ॥
प्लुतो व्यस्ते नन्यते च चाक्षराणि चतुर्विधम् (?) ।
संज्ञया तत्परिज्ञेयं द्रुतं लघुगुरुप्लुतम् ॥ ९५ ॥
प्रत्येकं तु द्रुतादीनां भवेत्कार्यसपञ्चकम् (?) ।
अनुद्रुतमर्धचन्द्रं व्यञ्जनं चारु नासिकम् ॥ ९६ ॥
अव्यक्तं चेति पञ्चैते पर्यायाख्यमनुद्रुते ।
अर्धमात्रद्रुतं व्योम वलयं बिन्दुके द्रुतम् ॥ ९७ ॥
१ °भूयांसस्तालास्ते लक्ष्यवर्त्मनि° । इति सङ्गीतरत्नाकरे पाठो दृश्यते । २ °प्रसिद्धिविधुरत्वेन
शास्त्रेऽस्मिन्प्रदर्शिताः° । इति पाठः सङ्गीतरत्नाकरे । ३ °तद्भेदप्रत्ययार्थं तु लघू° इति पाठः स-
ङ्गीतरत्नाकरे । ४ °प्रस्तारसंख्ये न° इति पाठः सङ्गीतरत्नाकरे । ५ °प्रत्ययार्थं ब्रुवेऽधुना° इति
सङ्गीतरत्नाकरपाठः । ६ 'न्यस्याल्पमाद्यान्महतोऽधस्तात्क्षेप्यं यथोपरि' इति सङ्गीतरत्नाकरे । ७
°प्रागूने वामसंस्थास्तु संभवे° इति सङ्गीतरत्नाकरे ।
नृत्याध्याये चतुर्थः पादः । ४९
समध्वनिसमायुक्तं श्रूयते पुत्रवर्धनम् ।
राज्याभिवृद्धिरतुलं रणे शत्रुपलायनम् ॥ ८ ॥
एकमेकं भिन्नरूपं ध्वनिं यत्र शृणोति यः ।
शिवनादे भवेद्याधिः शक्त्या दारिद्य्रमाप्नुयात् ॥ ९ ॥
( इति मृदङ्गलक्षणम् ।)
अरेखा सारिणी चैव सम्प्रसारी ततः परम् ।
समगैकेव कैवालं हस्तसंयुक्तमेव च ॥ १० ॥
अरेखा संपुटीयुक्ते पुरोदृष्टिमवेक्षते ।
सारिणीं दक्षिणभुजे करौ खण्डयुतौ द्रुतौ ॥ ११ ॥
प्रसारिणी वामभुजे हस्ते हस्तकनिष्ठिके ।
अङ्गुली कङ्कणाभावे वेष्टिताग्र आन्त्यकौ ॥ १२ ॥
समगैकेति विख्याता हस्तौ वामस्तने धृतौ ।
कैवालं दक्षिणकुचे लग्नौ चूचुकदर्शनम् ॥ १३ ॥
चतुरं च कुवलं च धृतहस्तमनूरणम् ।
परिक्रमं च पञ्चैते चासंयुतमर्तं विदुः ॥ १४ ॥
चतुरं कमलं हस्तमुन्नतपार्श्वदक्षिणे ।
वामे पताकवद्वृत्ता चलनं च कुवालकम् ॥ १५ ॥
कनिष्ठाङ्गुलिमुखेन वलये धृतहस्तकम् ।
समपादतलौ दृष्टिपाश्र्वैकैकरो मतः ॥ १६ ॥
ससर्पफणिपक्षेन ऊर्ध्वान्तलपुरो यदि ।
दक्षिणे कटिनृत्यं च करोति च मनूरणम् ॥ १७ ॥
वामपार्श्वं तु वलयं हस्तं यत्र करोति सः ।
तर्जन्यङ्गुष्ठकं रन्ध्रं परिक्रममुदीरितम् ॥ १८ ॥
कुरुडायी चित्रतरं तथा चित्रकलीति च ।
घनरवं नागबन्धं चक्रभ्रमरिका तथा ॥ १९ ॥
अतिचक्रभ्रमरी विध्रुतभ्रमरिका ततः ।
अष्टभ्रमरिकान्येव नारदेन विचर्चिता ॥ २० ॥
५० : सङ्गीतमकरन्दे ।
कुरुडायी शिरोभ्राम्यं स्थितं दक्षिणपार्श्वके ।
पार्श्वे दृष्टिर्विपपदा उच्चोचगमनं ततः ॥ २१ ॥
शिरोभ्रमणम् ।
वामे कटिभ्रमणकं विक्षेपं पा.....णे ।
वामस्कन्धं च दृष्टिं च स्थाप्यचित्रकुली तथा ॥ २२ ॥
भ्रमणं दक्षिणकटे (टौ) पादं विक्षिप्य वामके ।
वामस्कन्धे दृष्टिं.... घनरवं भ्रमणं च तत्(?) ॥ २३ ॥
शिरोभ्रमणकं कृत्वा स्कन्धमध्ये निवेशयेत् ।
समदृष्टिः समगतिर्नागबन्धं कराङ्गुलिम् ॥ २४ ॥
कट ऊर्ध्वं भ्रमणकं कटे लग्नं तु वामकम् ।
वामपार्श्वे तु गमनं चक्रभ्रमरिका भवेत् ॥ २५ ॥
सदैव भ्रमणं कुर्याद्धस्तो दक्षिणकट्यपि (?) ।
निवेश्य दक्षिणगतिरतिभ्रमरकं भवेत् ॥ २६ ॥
सर्वाङ्गभ्रमणं कुर्यात्समदृष्टिरधो द्वयोः ।
मध्ये मध्ये च नटनं धृतभ्रमरिका भवेत् ॥ २७ ॥
घोटारणी चिगुरुश्च समगात्रं यथाक्रमम् ।
वीरगात्रं विपमकमर्धगात्रं तथैव च ॥ २८ ॥
वीरगात्रफणीवालं चिटिवोटवणिस्तथा ।
शिरांसि नवसङ्ख्यानि नारदस्य मतानि तु ॥ २९ ॥
उन्नतं च शिरः कृत्वा भ्रूविक्षेपश्च वीक्षकैः ।
उद्धतौ च करौ कृत्वा चलनं वोटवेणिकम् ॥ ३० ॥
वामहस्ते शिरः स्थाप्य (?) कटाक्षैर्वीक्षितो गतिः ।
मध्ये मध्ये च गमकं चिगुरुः कथ्यते बुधैः ॥ ३१ ॥
तथैव दक्षिणे हस्ते स्थापयेच्च शिरो दृशः ।
मध्यमध्ये विरामं च समगात्रमिति स्मृतम् ॥ ३२ ॥
१ अस्मदादर्शपुस्तके त्रीण्यक्षराणि त्रुटितानि । २ अत्रादर्शपुस्तके द्वे अक्षरे लुप्ते ।
नृत्याध्याये चतुर्थः पादः । ५१
अधोदृष्टिशिरःपातवदनं चिह्नतालुकम् (?) ।
१............तं वरगात्रमिति स्मृतम् ॥ ३३ ॥
अर्धपार्श्वगतिं शीर्षं वक्रकटिसमन्वितम् ।
वामहस्तेऽङ्गुलितटं कटकं विपगात्रकम् ॥ ३४ ॥
अर्धगात्ररङ्गिशिरः पुरोहस्तौ कटीतटौ ।
धृत्वा रञ्जितसर्वत्रनृत्यं नृत्यं च कोहलम् ॥ ३५ ॥
तथैव वामजङ्घोरु शिरो निक्षिप्य दृष्टयः ।
गमनं च फणीवालं २.........भवेत्तथा ॥ ३६ ॥
अन्तःशिरो बाह्यशिरो (रः) ऊर्ध्वाधो बाहुकुञ्चनम् ।
भ्रमति भ्रम्यचतुरो विटभाटावणिक्रमम् ॥ ३७ ॥
चित्रं चैवातिचित्रं च विन्दन्ति सम एव च (?) ।
चत्वारश्चरणा भेदाः कथिता नारदेन च ॥ ३८ ॥
चक्रपादाङ्गुलीरम्यं नटभावं विनिर्दिशेत् ।
नीचोच्चगमनं कुर्याच्चित्रलक्षणमुच्यते ॥ ३९ ॥
उभौ पादाङ्गुली वक्रौ (के) कृत्वा गमनमादिशेत् ।
मध्ये भ्रमणकं कुर्यादतिचित्रं वदन्ति च ॥ ४० ॥
पाद्मालाङ्गुलौ गम्यमधोहस्तौ कृतौ नटः ।
अर्धपार्श्ववक्रभेदं भयेद्विवन्ति तालगाः ॥ ४१ ॥
समपादौ समा दृष्टिः समचारीकृतान्विताः ।
समभ्रमणनटनः सममित्युच्यते बुधैः ॥ ४२ ॥
त्रयस्त्रिंशन्नटीभावाः सर्वदेशेषु संमताः ।
सर्वशास्त्रसमा भावाः कथिता नारदेन च ॥ ४३ ॥
इति श्रीनारदकृतौ सङ्गीतमकरन्दे नृत्याध्याये हस्तकप्रकरणं नाम
चतुर्थपादः समाप्तः ॥
इति सङ्गीतमकरन्दः समाप्तः ।
१ अत्रादर्शपुस्तके सप्ताक्षराणि लुप्तानि । २ अत्रादर्शपुस्तके चत्वार्यक्षराणि त्रुटितानि ।
३ इतोऽग्रे आदर्शपुस्तके लेखकेन आदर्शपुस्तकावलोकनकालः स्वाभिधानादिकं च निरूपितं यथा—
“शके १४९९ शालिवाहे पिलङ्गनामवत्सरे आश्विनमासे शुक्लपक्षे विजयदशम्यां विद्यापुरमहानगरे
श्रीमन्महागणपतिदासात्मजकृष्णाजीदत्तेनेदं सङ्गीतमकरन्दाख्यपुस्तकं लिखितम् । महागणपतिर्जयति” ॥
:परिशिष्टम् १
श्रुतीनां संख्यानामशुद्धविकृतस्वरदर्शकतालिका ।
श्रुतिसंख्या | श्रुतिनामानि | शुद्धस्वर-नामानि | शुद्धस्वर-श्रुतिसंख्या | विकृतस्वरनामानि | विकृतस्वरगत-श्रुतिसंख्या
१ | सिद्धा | ० | ० | कैशिकनिषादः | त्रिश्रुतिकः
२ | प्रभावती | ० | ० | काकलीनिषादः | चतुःश्रुतिकः
३ | कान्ता | ० | ० | च्युतषड्जः | द्विश्रुतिकः
४ | सुप्रभा | षड्जः | चतुःश्रुतिकः | अच्युतषड्जः | ०
५ | शिखा | ० | ० | ० | ०
६ | दीप्तिमती | ० | ० | ० | ०
७ | उग्रा | ऋषभः | त्रिश्रुतिकः | ० | ०
८ | ह्लादी | ० | ० | विकृतर्षभः | चतुःश्रुतिकः
९ | निर्धरी | गान्धारः | द्विश्रुतिकः | ० | ०
१० | दिरा | ० | ० | साधारणगान्धारः | त्रिश्रुतिकः
११ | सर्पसहा | ० | ० | अन्तरगान्धारः | चतुःश्रुतिकः
१२ | क्षान्तिः | ० | ० | च्युतमध्यमः | द्विश्रुतिकः
१३ | विभूतिः | मध्यमः | चतुःश्रुतिकः | अच्युतमध्यमः | ०
१४ | मालिनी | ० | ० | ० | ०
१५ | चपला | ० | ० | ० | ०
१६ | बाला | ० | ० | { त्रिश्रुतिपञ्चमः, कैशिकपञ्चमो वा | त्रिश्रुतिकः
१७ | सर्वंरत्ना | पञ्चमः | चतुःश्रुतिकः | ० | ०
१८ | शान्ता | ० | ० | ० | ०
१९ | विकलिनी | ० | ० | ० | ०
२० | हृदयोन्मलिनी | धैवतः | त्रिश्रुतिकः | ० | ०
२१ | विसारिणी | ० | ० | विकृतधैवतः | चतुःश्रुतिकः
२२ | प्रसूना | निषादः | द्विश्रुतिकः | ० | ०
परिशिष्टम् २
प्राचीनसंगीतग्रन्थानां ग्रन्थकाराणां च नामावली जिज्ञासुबोधार्थमत्र प्रका-
शिता । तत्र ये ग्रन्था मुद्रितास्तेषां नामानि नक्षत्रचिह्नेन दर्शितानि ।
ग्रन्थनामानि ग्रन्थकर्तृनामानि
अनूपसंगीतविलासः भावभट्टः
अभिनयमुकुरम् ... ...
अभिनवभरतसारसंग्रहः मुम्मडिचिक्कभूपालः
अर्जुनभरतम् अर्जुनः
अष्टोत्तरशतताललक्षणम् ... ...
आदिभरतम् भरताचार्यकृतम्
आनन्दसजीवनम् राजा मदनपालः
औमापत्यम् उमापतिः
कल्पतरुः गणेशदेवः
गीतालाङ्कारः अनन्तनारायणः
तालदशप्राणदीपिका गोविन्दः
तालदीपिका टिप्पभूपालः
तालप्रस्थम् ... ...
तालप्रस्तारः ... ...
ताललक्षणम् नन्दिकेश्वरः
तालादिलक्षणम् ... ...
तालाभिनयलक्षणम् नन्दिकेश्वरः
ध्रुवपदटीका भावभट्टः
नर्तननिर्णयः पुण्डरीकविठ्ठलः
नाददीपिका भट्टाचार्यः
नारदी शिक्षा नारदः
नृत्तरत्नावली गणपतिदेवसेनः
नृत्याध्यायः अशोक मल्लः
पञ्चमसारसंहिता नारदः
*भरतनाट्यशास्त्रम् भरतमुनिः
भरतभाष्यम् न्यायदेवः
भरतलक्षणम् ... ...
भरतशास्त्रम् रघुनाथः
भरतशास्त्रसङ्गीतम् ... ...
परिशिष्टम् २ ५५
ग्रन्थनामानि ग्रन्थकर्तृनामानि
भरतसारसङ्ग्रहः चन्द्रशेखरः
मतङ्गभरतम् लक्ष्मणभास्करः
मुक्तावलिप्रकाशिका ... ...
मुरलीप्रकाशः भावभट्टः
मेलाधिकारलक्षणम् ... ...
रागकौतूहले नृत्तप्रकरणम् रामकृष्णभट्टः
रागचन्द्रोदयः हेमल्लः
रागतत्त्वविबोधः श्रीनिवासः
रागध्यानादिकथनाध्यायः ... ...
रागनिरूपणम् नारदः
रागप्रस्तारः ... ...
*रागमञ्जरी पुण्डरीकविठ्ठलः
रागमाला पुण्डरीकविठ्ठलः
रागमाला रत्नमाला वा क्षेमकरणः
रागरत्नाकरः गन्धर्वराजः
रागलक्षणम् ... ...
रागविचारः धीररामः
*रागविबोधः सोमनाथः
रागविवेकः ... ...
रागादिस्वरनिर्णयः रघुनाथदासप्रसादः
रुद्रडमरुभवसूत्रविवरणम् ... ...
वीणावाद्यलक्षणम् ... ...
वीरपराक्रमः वासुदेवः
श्रुतिभास्करः भीमदेवः
षड्रागचन्द्रोदयः ... ...
सप्ताङ्गलक्षणम् ... ...
*षड्रागचन्द्रोदयः पुण्डरीकविठ्ठलः
सङ्कीर्णरागाध्यायः ... ...
सङ्गीतकल्पतरुः ... ...
सङ्गीतचिन्तामणिः कमललोचनः
सङ्गीतदर्पणम् हरिवल्लभः
*सङ्गीतदर्पणम् दामोदरः
सङ्गीतदामोदरः शुभङ्करः
सङ्गीतदीपिका निम्बभूपालः