सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)
Sangitamakaranda of Narada (Musicology & Raga-Ragini)
देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा
पृष्ठ 55, कुल 76 में से
संदर्भ में पढ़ें४० सङ्गीतमकरन्दे
पञ्चतालप्रबन्धः स्याद्द्रुताद्यन्तं द्रुतश्चतुः(?) ।
तमसा पञ्चलघुना षट्तालश्च प्रकीर्तितः ॥ ७ ॥
द्रुतौ गुर्वो (रु)र्लघुश्चैव सुलादिरभिधीयते ।
लघुरित्युच्यते तालं गीतज्ञैः पूर्वसूरिभिः ॥ ८ ॥
अष्टमङ्गलतालः स्याद्व्योमाद्यन्तं नवद्रुतम् ।
यः द्रुतो गल्पो लोपो(पः) समगौ नवतालके ॥ ९ ॥
पद्भञ्जनं दीर्घपङ्गं गुरुद्वन्द्वं लघुत्रयम् ।
दशरूपप्रबन्धः स्यात्त्रिंशन्मात्रं लघुस्तथा ॥ १० ॥
घरारसतन् भौ मो लघुद्वादशविन्दवः ।
निःशब्दो लश्च चत्वारताल एकादशे भवेत् ॥ ११ ॥
व्यञ्जनो (ने?) सरलो दीर्घद्वादशसामसम्भवम् ।
गणव्योमयुतं चैव तालः स्यादर्कमालिका ॥ १२ ॥
एतानि दशतालानि वाद्यन्ते श्रूयते नरैः ।
तत्पूर्वसर्वकार्येषु सर्वोत्कृष्टश्च जायते ॥ १३ ॥
विजयो जयमानन्दो जयश्रीर्जयमङ्गलम् ।
जयतालश्च पञ्चैते श्रुत्यं (मृत्युं) जयकरं शुभम् ॥ १४ ॥
द्रुतो गणो नगो राजौ जभव्योमद्वयं पुनः ।
पञ्चतालप्रबन्धः स्याच्छ्राव्यं जयकरं शुभम् ॥ १५ ॥
मदनोत्सवलक्ष्मीशक्रीडाकीर्तिस्तथा रतिः ।
सिंहलीलश्च सप्तैते मार्तण्डजयदः क्रमात् ॥ १६ ॥
चञ्चत्पुटश्चाचपुटः षट्पितापुत्रकस्तथा ।
प्रत्यङ्गो गजलीलश्च षट्तालश्च प्रबन्धकम् ॥ १७ ॥
ध्रुवा मठा प्रतिमठा लम्बको रासकस्तथा ।
अष्टतालश्चैकतालः सुलादीत्युच्यते बुधैः ॥ १८ ॥
लघुसुलादिः ।
रङ्गश्रुतो राजतालो वनमाली त्रिधा मतः ।
त्रिभङ्गी तालवृन्दं च नारदेन यथाक्रमम् ॥ १९ ॥