सङ्गीतमकरन्द (देवर्षि नारद - प्राचीन भारतीय सङ्गीत, राग-रागिनी वर्गीकरण व नाद-ब्रह्म)
Sangitamakaranda of Narada (Musicology & Raga-Ragini)
देवर्षि नारद (सम्पादक: एम. आर. तेलंग) द्वारा
पृष्ठ 52, कुल 76 में से
संदर्भ में पढ़ें[Header] नृत्याध्याये द्वितीयः पादः । ३७
लघूद्वन्द्वं विरामान्त्यं ताले निःसारके भवेत् ।
द्रुतद्वन्द्वं विरामान्त्यं क्रीडाताले प्रकल्पितम् ॥ ४३ ॥
चन्दनिःसारुगीताले द्रुतमेवाभिधीयते ।
सकारो गुरुश्चैव त्रिभङ्गिरभिधीयते ॥ ४४ ॥
कोकिलप्रियताले स्यात्क्रमाद्गुरुर्लघुर्द्रुतः ।
ताले निःसारुके ज्ञेयो लघुश्चैव विधीयते(?) ॥ ४५ ॥
श्रीकीर्तिसंज्ञके ताले गुरुद्वन्द्वं लघुद्वयम् ।
भकारो बिन्दवो गुर्वोर्मध्ये स्याद्विन्दुमालिके ॥ ४६ ॥
समताले लघुद्वन्द्वं विरामान्त्यं द्रुतत्रयम् ।
तौ द्रुतौ च द्रुतस्यान्ते ताले स्यान्नन्दनाभिधे ॥ ४७ ॥
किञ्चिद्गुरुर्द्वयोर्मध्ये बिन्दुयुग्मं प्रचक्षते ।
उद्दीक्षणे लघुद्वन्द्वं गुरुरेकस्ततः परम् ॥ ४८ ॥
मट्टिकायां विधातव्यं गुरुर्बिन्दुः द्रुतः क्रमात् ।
विरामादि व्योमयुग्मं लद्वयं च द्विमट्टिका ॥ ४९ ॥
डिङ्गीकारक्षणं तस्यास्तस्याः सा योजने तथा ।
कौ बिन्दू लश्च बिन्दू च विज्ञेया वर्णमण्टिका ॥ ५० ॥
लद्वयं बिन्दुयुग्मं च गुरुश्चैवाभिनन्दके ।
विधातव्यान्तरक्रीडा विरामान्त्यं द्रुतद्वयम्(?) ॥ ५१ ॥
समह्रुताले द्विलघु विरामान्त्यं द्रुतद्वयम् ।
द्रुतद्वन्द्वं लघुद्वन्द्वं गुरुद्वन्द्वं च दीपके ॥ ५२ ॥
लघुद्रुतौ सकारश्च स्यादानेऽभिधीयते ।
वेदद्रुतौ विरामान्तौ द्वौ प्लुतौ विषमद्रुतः ॥ ५३ ॥
नान्दीताले समुद्दिष्टा लघुबिन्दुुर्लघुर्गुरुः ।
मुकुन्दसंज्ञिके ताले लघुर्बिन्दुुर्लघुर्गुरुः ॥ ५४ ॥
अन्ये मुकुन्दलघ्वादिषड्विन्दु लचतुष्टयम् ।
लघुद्वन्द्वं साकारेण कुड्डुकः परिकीर्तितः ॥ ५५ ॥
एकेनैव द्रुतेन स्यादेकतालेतिसंज्ञितः ।
चतुर्विधान्यकङ्कालः पूर्वखण्डसमागमः ॥ ५६ ॥