समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । १८३
मुक्त्वा भागद्वयं पश्चाद् देवकोष्ठं निवेशयेत् ।
भागं मुक्त्वाग्रतः कुर्यात् सीमां भागचतुष्टयम् ॥ १४४ ॥
अष्टस्तम्भास्ततोऽलिन्द विंशतिस्तम्भभागिकोः ।
भागिकः परितोऽलिन्दोऽष्टाविंशतिघरोऽपरः ॥ १४५ ॥
द्विद्विस्तम्भयुताः कार्याः प्राग्रीवाः कोष्ठजास्त्रयः ।
सीमासँमे वलभ्यौ च प्राग्रीवौ मध्यतस्तयोः ॥ १४६ ॥
द्विद्विस्तम्भौ पुरश्चान्यौ वेदिकाजालशोभितौ ।
वेदिकाजालरूपाढ्यः सिंहकर्णोपशोभितः ॥ १४७ ॥
प्रासादोऽयं विसुर्नाम कथितो भर्तृनन्दनः ।
एवमेते समाख्याताश्चतुरश्रायता दश ॥ १४८ ॥
चतुरश्रांयतांस्तिर्यगायत्यांथापरानपि ।
प्रासादानभिधास्यामो नवसंस्थानलक्षणैः ॥ १४९ ॥
द्वौ भागौ विस्तीर्गर्भे द्विगुणां तिर्यगायतिः ।
मध्ये भागोच्छ्रितं द्वारं तदर्धेन तु विस्तृतम् ॥ १५० ॥
स्तम्भश्चतुर्भिः संयुक्ता सीमा द्वारस्य चाग्रतः ।
द्विभागायामविस्तारा तावन्मात्रसमुच्छ्रितिः ॥ १५१ ॥
तां सीमां गर्भसहितां भागेनान्येन वेष्टयेत् ।
भित्तिस्तत्र विधातव्या सगवाक्षा चतुर्दिशम् ॥ १५२ ॥
षड्दारुकयुतो ह्येष प्रासादो भव उच्यते ।
अस्यैव भागनिष्कासा शाला मुखचतुष्टये ॥ १५३ ॥
यदा षड्दारुकोपेता विशालः स तदोच्यते ।
स्तम्भैर्मुखैमुखे षड्भिर्बहिः साम्मुख्य इत्यसौ ॥ १५४ ॥
अस्यैव सं.मा कर्णस्था द्विद्विस्तम्भयुता यदा ।
प्राग्रीवैभागनिष्क्रान्ता बहिस्था प्रभवस्तदा ॥ १५५ ॥
१ द. म्भ । २ द. मासिकाः । ३ क. त । ४ द. सी । ५ क. व्ययप; द. ग्याथो । ६ ख.
भाग । ७ द. णो । ८ द. काः । ९ द. र । १० ख. द. ते । ११ ख. ६।; द. यद्वा षड्दारको ।
१२ द. स्ये । १३ ख. द. वभाग; ।
१८४ समराङ्गणसूत्रधारे
सीम्नोऽग्रतो यदास्यैव स्तम्भद्वययुतो भवेत् ।
प्राग्रीवो भागनिष्क्रान्तस्तदा स्याच्छिबिराग्रहः ॥ १५६ ॥
विशालसन्निवेशस्य मुखे शाला भवेद् यदा ।
पार्श्वयोश्चोभयोः शाले प्राग्रीवाश्च त्रयो यदा ॥ १५७ ॥
निष्क्रान्तभाग एकैकैः स्तम्भद्वितयसंयुतः ।
प्रासादः स तदा ज्ञेयो मुखशालोऽभिधानतः ॥ १५८ ॥
मुखशालाग्रशालाया यदा स्तम्भाश्चतुर्दश ।
प्राग्रीवो द्विविधश्चाग्रे द्विशालः स तदा भवेत् ॥ १५९ ॥
†भित्तिस्तदानीं(?) प्रासादो गृहराजः प्रजायते ।
गर्भायामसमावग्रपृष्ठयोर्भागविस्तृतौ ॥ १६० ॥
चतुश्चतुर्धरौ यत्र प्राग्रीवौ द्वौ च पार्श्वयोः ।
तौ तु द्विद्विधरौ गर्भविस्तारेण तु संमितौ ॥ १६१ ॥
अमलो नाम स प्रोक्तः प्रासादः शुभलक्षणः ।
अस्यैव चाग्रे पृष्ठे च द्विद्विस्तम्भयुतौ यदा ॥ १६२ ॥
प्राग्रीवौ स तदा प्रोक्तः प्रासादो दशमो विभुः ।
प्रासादान् कथयामोऽन्यान दश वृत्तायतान् पुनः ॥ १६३ ॥
अष्टभागमुखायतया विस्तृत्या चतुरश्रकम् ।
वृत्तायतं प्रकुर्वीत सबाह्याभ्यन्तरं ततः ॥ १६४ ॥
गर्भं पश्चिमभागेऽस्य चतुर्भागं समन्ततः ।
कुर्यात् तस्याग्रतः सीमां भागद्वितयविस्तृताम् ॥ १६५ ॥
भागत्रयमितां भागेनैकेनान्तरितां च ताम् ।
संयुक्तामष्टभिः स्तम्भैः सुदृढैश्चारुदर्शनैः ॥ १६६ ॥
अलिन्देन परिक्षिप्तां ससीमा देवकोष्ठकम् ।
षोडशस्तम्भयुक्तेन कुर्यात् प्राग्रीवमग्रतः ॥ १६७ ॥
१ द. 'मेकेकं । २ द. तं । ३ द. प्रा ।
† इहापि कियांश्चिद् ग्रन्थो गलित इव । इतः श्लोकद्वयात् प्रागेव क. पुस्तके पत्राणि आचतु-
ष्पञ्चाशाध्यायैकद्दे.। लुप्तानि । ग. ग्रन्थस्तु पुरैवावसितः ।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २८९
छन्नाइछाद्यद्वयेनायमामोद इति कीर्तितः ।
वृत्तायतेषु प्रथमः प्रासादः स्वामिनो हितः ॥ १६८ ॥
समाहितौ यदास्यैव प्राग्रीवौ भागमिश्रितौ ।
चतुःस्तम्भै रैकिकस्तु वृत्ताभ्यां तुङ्ग उच्यते ॥ १६९ ॥
यदा सीमावधिर्भिर्त्तिर्गवाक्षैरुपशोभिना ।
वृत्तप्राग्रीव एकोऽन्ये (?) तदा चारुरुदाहृतः ॥ १७० ॥
सीमामध्ये विधातव्यौ प्राग्रीवौ भागविस्तृतौ ।
विस्तारसदृशायामौ दक्षिणेति (?) त्रिषु त्रयः ॥ १७१ ॥
कार्याः प्राग्रीवकास्ते च गर्भकोष्ठेन सम्मिताः ।
भूतिरित्येष (सं)प्रोक्तः प्रासादः शुभलक्षणः ॥ १७२ ॥
मुखायतौ स्याच्चतुरो भागान्यत्तिर्यगायतान्(?) ।
क्षेत्रवृत्तं ततः कुर्यात् तन्मध्ये गर्भवेश्म च ॥ १७३ ॥
चतुर्भागायतं तत् स्याद् भागद्वितयविस्तृतम् ।
अलिन्दो बाह्यतस्तस्य द्वादशस्तम्भसंयुक्तः ॥ १७४ ॥
भागद्वितयविस्तारः प्राग्रीवश्चांशनिर्गतः ।
निषेध इति वि(वक इति ) ख्यातः प्रासादोऽयं पुरातनैः ॥१७५॥
यदा(?) निषेधः स्यादस्य पुरः प्राग्रीवको यदि ।
चतुर्द्वारपरिक्षिप्तोऽलिन्देनाष्टधरेण वा ॥ १७६ ॥
अयमेवांशकेन स्याद् यदालिन्देन वेष्टितः ।
मुखभागत्रयं मुक्त्वा भित्त्या च परिवेष्टितः ॥ १७७ ॥
यदा च कर्णप्राग्रीवौ प्राग्रीवश्चाग्रतो भवेत् ।
विशेषरचना या च द्वा.विंशतिधरान्वितौ(?) ॥ १७८ ॥
गवाक्षैः शोभनैर्युक्तस्तदा सिंहः प्रकीर्तितः ।
द्वादशांशायते क्षेत्रे तथा षड्भागविस्तृते ॥ १७९॥
१ द. रिरिकस्तु । २ द. रि । ३ द. मुखायतो ।
३८६ समराङ्गणसूत्रधारे।
पश्चादंशद्वयं त्यक्त्वा द्विभागायामविस्तृतः ।
देवकोष्ठो विधातव्यस्तद्द्वारं भागमुच्छ्रितम् ॥ १८० ॥
सीमाग्रे सान्तरा द्व्यंशविस्तृता चतुरानता ।
अष्टस्तम्भोऽस्य गर्भो वै षोडशस्तम्भको बहिः ॥ १८१ ॥
अलिन्दस्तस्य पुरतो वृत्तप्राग्रीवकोऽपि च ।
सीमाप्राग्रीव१कालिन्दकोष्ठान् वृत्तान् प्रकल्पयेत् ॥ १८२ ॥
प्राग्रीवौ पार्श्वयोः सीमासमौ भागविनिर्गतौ ।
द्वाभ्यां द्वाभ्यां युतौ ज्ञेयौ२ स्तम्भाभ्यां वर्तुलाकृती ॥ १८३ ॥
एतत्सर्वं विधानव्यमलिन्देनाभिवेष्टितम् ।
चतुर्विंशधरोऽयं३ च भागिकोऽयं प्रशस्यते ॥ १८४ ॥
द्विस्तम्भयुक्तान् प्राग्रीवान् कुर्याद् गर्भस्य दिक्त्रये ।
एवमेष समाख्यातः प्रासादः सुप्रभः शुभः ॥ १८५ ॥
भागद्वितयविस्ताराः प्राग्रीवा येऽस्य कीर्त्तिताः ।
चतुरश्रास्त एव स्युर्द्विद्विस्तम्भयुता यदि ॥ १८६ ॥
शेषा भवति भित्तिश्च गवाक्षैरुपशोभिता ।
प्रासादोयं तदा ज्ञेयो दशमो४ लोचनोत्सवः ॥ १८७ ॥
अष्टाश्रमथ वक्ष्यामः प्रासादांल्लक्षणैः सह ।
चतुर्भागान्विते क्षेत्रे तथाष्टाश्रीकृते पुनः ॥ १८८ ॥
द्वौ भागौ गर्भकोष्ठः स्यादलिन्दो भागिकस्तदा ।
स्तम्भाष्टकमलिन्दे स्यात् प्राग्रीवस्तस्य चाग्रतः ॥ १८९ ॥
द्व्युच्छ्रायच्छा(च्छा)दिनः श्रीमान् प्रासादो वज्रको भवेत् ।
अस्यैवाग्रे यदा सीमा चतुरश्रा चतुर्धरा ॥ १९० ॥
स्याच्चतुर्विंशतिस्तम्भश्चालिन्दो भागिकोऽपरः ।
नन्दनोऽयं समाख्यातः शङ्कुः प्राग्रीवकैस्त्रिभिः ॥ १९१ ॥
--------- १ द. को। २ द. यं। ३ द. यांश्च। ४ द. क। ५ द. नाः। ६ द. नो। ७ द.
था। ८ द. राः।
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २८७
तस्य भित्तिर्विधानव्या क्षेत्रेऽष्टाश्रियुते बुधैः ।
वामनश्च(स्य) पुनद्वौँद्वौ गवाक्षौ दिक्त्रये मतौ ॥ १९२ ॥
अस्यैवाग्रे यदा सीमाभागाद् भागत्रयायता ।
द्विभागं विस्तृता ह्यंशसमुच्छेदाष्टभिर्धरैः (?) ॥ १९३ ॥
अलिन्दोवेष्टिता युक्ता प्राग्रीवैर्मेखलेऽ१तदा ।
भित्तिक्षेत्रे यदास्यैव प्राग्रीवाः परिवेष्टिताः ॥ १९४ ॥
अलिन्देन धरैः षड्भिः षड्भिर्युक्तास्तदा लयः ।
अष्टभागमिते क्षेत्रे कृतेऽष्टाश्रिणि सर्वतः ॥ १९५ ॥
भागद्वयमितं कुर्याद् देवकोष्ठं मनोरमम् ।
चतुर्भिः शोभितं द्वारैर्भागिका(लिन्दवेष्टितम्) ॥ १९६ ॥
अलिन्दस्य विधानव्याः स्तम्भाश्चाष्टौ ततोऽपरः ।
स्याच्चतुर्विंशतिस्तम्भो भागिकोऽलिन्दकः पुनः ॥ १९७ ॥
तथाविधस्तृतीयोऽपि प्राग्रीवाश्च चतुर्दिशम् ।
प्रासादोऽयं महापद्मो ब्रह्मणः शङ्करस्य च ॥ १९८ ॥
द्वितीयो(ये)ऽलिन्दक(के)ऽस्यैव प्राग्रीवाः स्युश्चतुर्दिशम् ।
अलिन्देन परिक्षिप्तो हंस एष प्रकीर्तितः ॥ १९९ ॥
प्राग्रीवोऽस्य महापद्मस्यालिन्देनाष्टनो यदा ।
कर्णप्राग्रीवकौ द्वौ द्वौ व्योमसंज्ञस्तदा भवेत् ॥ २०० ॥
हंसस्यैव वलभ्यः स्युः प्राग्रीवाणां५ पदे यदा ।
चतुःस्तम्भाः परिक्षिप्ता अलिन्देन चतुर्दिशम् ॥ २०१ ॥
तदा चन्द्रोदयो नाम प्रासादो जायते शुभः ।
एवमेषां चतुष्षष्टिः प्रासादानामुदाहृता ॥ २०२ ॥
इति सुरभवनानां सप्ततिर्दारवाणा-
मिह सदनचतुष्केणान्वितेयं प्रदिष्टा ।
१ द. न्द । २ द. ॰लैस्तदा । ३ द. स्त्रि । ४ द. गो । ५ द. वा । ६ द. ॰नां पदे
यथा । ७ द. आ । ८ द. ताः ।
§ इहानुक्रमो व्यत्यस्तः । § लदये तु मेखल इति पठितः ।
२८८ समराङ्गणसूत्रधारे
जनमयमवकोशानन्दशुभ्रांशुलेखा (?)
भवति सुविदितैषा शिल्पिनां कामधेनुः ॥ २०३ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
रुचकादिचतुष्षष्टिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः।
अथ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः।
प्रासादानामथ ब्रूमो लक्षणानि भवन्ति ये ।
प्रशस्ताश्चाप्रशस्ताश्च तस्मिन्नवनिमण्डले ॥ १ ॥
ये समाः समकर्णाश्च समस्तम्भाः समक्षणाः ।
नैवोच्चा नातिह्रस्वाश्च कर्णायामादविह्वलाः ॥ २ ॥
असंमूढा विभागेन प्रमाणेन सुसंस्थिताः ।
ऊर्ध्वाधः कर्णपादीभिरुपेताः सलिलान्तरैः ॥ ३ ॥
असङ्कीर्णोद्यैश्छद्यैः स्वमानपरिकल्पितैः ।
सुविभक्ताः सुसंस्थाश्च रेंम्यैरविकलैः कृताः ॥ ४ ॥
समभागविभक्तैश्च युक्ताश्चालिन्दकैः समैः ।
स्वजातिपरिवेषाय्या नान्यजातिप्रदूषिताः ॥ ५ ॥
असङ्कीर्णाः शरीरंण संस्थानेन सुसंस्थिताः ।
केवला जातिशुद्धाश्च प्रासादाः शुभदा नृणाम् ॥ ६ ॥
सुदृढैर्मूलपादैश्च दृढाश्चामूलमस्तकम् ।
नाधरोत्तरयुक्ताश्च सुश्लिष्टद्रव्यसन्धिभिः ॥ ७ ॥
देव(श)जातिप्रसिद्धैश्च भूषणैः सुविभूषिताः ।
प्रासादाः शुभदा नित्यं पूजासंस्कारवर्धनैः ॥ ८ ॥
कर्ता कारयिता चैषां परां वृद्धिमवाप्नुयात् ।
अभ्रमानपि वक्ष्यामः प्रासादानवलक्षणैः ॥ ९ ॥
१ द. वा । २ द. द्व । ३ द. क्ता । ४ द. र्णा । ५ द. ता । ६ द. ०हैद्रैं० ।
७ द. ना ।
प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः । २८९
विषमाः कर्णहीनाश्च क्लेशबन्धभयावहाः ।
स्तम्भैः क्षणैश्च विषमैः स्वामिनो मृत्युहेतवः ॥ १० ॥
अत्युच्चैः स्याद् भयं राज्ञो ह्रस्वैः सेना च॑ मथ्यते ।
कर्णायामेन विकलाः प्रासादाः स्युर्भयङ्कराः ॥ ११ ॥
विभागेन विहीनास्तु दारिद्र्यभयदाः स्मृताः ।
नष्टाभिः कर्णपादीभिरुद्वेगजननं नृणाम् ॥ १२ ॥
छाद्यैः सङ्कीर्णकैर्हीनः कुलक्षयकराः स्मृताः ।
दुर्विभक्ताः कुसंस्थाश्च द्रव्यैर्विकलसंयुतैः ॥ १३ ॥
रोगं क्लेशं च मृत्युं च क्रमशॊ विने॑रन्ति ते ।
विषमैर्भागहीनश्चाप्यलिन्दैर्व्याधितो भयम् ॥ १४ ॥
पराजयं परिवृंतैरन्यजातिप्रदूषितैः ।
ये परावृतयो ये ऽन्यसङ्कीर्णा येऽन्यविग्रहाः ॥ १५ ॥
कर्तुः कारयितुर्नैते नन्दका वापि चात्मनः ।
दुर्बला मूलपादेन विश्लिष्टैः पीठसन्धिभिः ॥ १६ ॥
अल्पायुषस्ते प्रासादा भवन्ति च भयावहाः ।
अधरोत्तरगैः श्लिष्टैर्विज्ञेया व्याधिकारिणः ॥ १७ ॥
आदेशैर्भूषणैर्युक्ताः प्रासादा न सुखावहाः ।
ये कीर्त्तिमिच्छन्ति जयन्ति भूतान् कुर्युः शुभैर्लक्ष्मभिरन्वितांस्ते ।
प्रासादमुख्यानितरे तु वर्ज्यास्तेजोयशःश्रीविजयादिकामैः ॥१८॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः ॥
१ द. श्र । २ द. टी । ३ द. नं । ४ द. च । ५ द. यो । ६ द. दृष्टिं । ७ द. याँ ।
८ द. णो ।
वा. ३७
२९० समराङ्गणसूत्रधारे
अथायतननिवेशो नामैकपञ्चाशोऽध्यायः ।
एवं नृपस्य प्रासादे कृते कॢप्तेऽथवा भुवि ।
तस्यानुजीविनः कुर्युः प्रासादान् परिधौ यदि ॥ १ ॥
तदा दिग्भागविन्यासस्थानमानान्यनुक्रमात् ।
तेषामिहाभिधीयन्ते सर्वेषां वृद्धिहेतवे ॥ २ ॥
दशाष्टौ षट् च धनुषां शतानि क्ष्माभृतां क्रमात् ।
मानमायतनस्योक्तं त्रेधा श्रेष्ठादिभेदतः ॥ ३ ॥
क्षेत्रमायतनस्यैव चतुरश्रं समन्ततः ।
तत्र भक्ताः प्रकुर्वीरंस्त्रिधा स्वे स्वामिवत्सलाः ॥ ४ ॥
ये चास्य सम्मताः केचित् कुले जाता हितैषिणः ।
द्वादशांशेन हीनानि क्रमात् तान्यनुजन्मनाम् ॥ ५ ॥
तस्यैव वामतः कुर्यादुत्सेधाद् द्विगुणान्तरे ।
कुर्याद् दशांशहीनानि नैर्ऋत्यां दिशि भूपतेः ॥ ६ ॥
प्रासादान्नृपपत्नीनां सर्वासामपि शास्त्रवित् ।
अष्टभागेन हीनानि प्रतीच्यां दिशि कारयेत् ॥ ७ ॥
देवधिष्ण्यानि तन्त्रैः स्यात् स्वसुराणां विधानतः (?) ।
सौम्यायां मारुतीं यावन्नवांशापचिताः क्रमात् ॥ ८ ॥
प्रासादा मन्त्रिसनानीप्रतीहारपुरोधसाम् ।
एतेषां पूर्वभागस्थं राजमातुर्निवेशनम् ॥ ९ ॥
हीनमेकादशांशेन तत् कार्यं राजकारिता (?) ।
ऐशीमाश्रित्य देवानां तुल्यमैन्द्रपदावधि ॥ १० ॥
स्वसॄणां मातुलानां च कुमाराणां तथा क्रमात् ।
आग्नेय्यां द्विजमुख्यानां विधातव्यं निवेशनम् ॥ ११ ॥
कार्यः पुरोधःप्रासादः तुल्यतत्पुनरेव वा (?) ।
याम्यायां कुर्युष्टांशहीनान्युर्वीशमन्दिरात् ॥ १२ ॥
१ द. नः ।
आयतननिवेशो नामैकपञ्चाशोऽध्यायः । २९१
सामन्तं१कुञ्जारोहभटं२पौरजनाः क्रमात् ।
एतान्यायतनान्येषां यथाभागं प्रकल्पयेत् ॥ १३ ॥
मर्मवेध३प्रदेशस्थान् द्वारवेधगतानपि ।
स्वस्थानान्तरितांश्चैतान् न कुर्याद्धितकाम्यया ॥ १४ ॥
अलिन्दैर्गर्भकोष्ठैश्च सीमास्तम्भगवाक्षकैः ।
द्वारद्रव्यतलोच्छ्रायैः प्राग्ग्रीवैः सिंहकर्णकैः ॥ १५ ॥
न कुर्याद् भूषणैस्तुल्यं समं वास्थंदरूपतः (?) ।
समरूपं भवेद्धर्म्यं नियुक्तं च न नन्दति ॥ १६ ॥
राजपीडा भवेत् तस्मिन्नाधिक्ये च कुलक्षयः ।
प्रासादाद् भूमिपालस्य निवेशं परिधौ स्थितं५म् ॥ १७ ॥
द्रव्येण कतरेणापि नोत्कृष्टं कारयेद् बुधः ।
संस्थानान्मानतश्चापि विस्तारेणोच्छ्रयेण वा ॥ १८ ॥
पूर्वोक्तेभ्यो विभागेभ्यः किञ्चिद्धीनतमः शुभः ।
अन्योन्यं द्विगुणच्छाद्यैरैककस्यान्तरं शुभम् ॥ १९ ॥
सुभोग्यं तं च कुर्वीत बहुभिर्भवनान्तरैः ।
कोष्ठिकाभोजनागारैर्भाण्डोपस्करधामभिः ॥ २० ॥
शिर्लोल्लूषात(?)शालाभिः शेषं तु परिपूरयेत् ।
प्रशस्तान् कारयेत् सर्वान् शुभरूपान् मनोरमान् ॥ २१ ॥
प्रायशः स्वालयांश्चान्यान् सर्वस्यान्यगृहाणि च ।
नरेन्द्रायतनस्यैव निवेशात् परिकल्पयेत् ॥ २२ ॥
अन्यथात्वे महादोषा वैपरीत्ये कुलक्षयः ।
इति कथितदिगादिभेदयोगैः
सुरभवनानि भवन्ति यस्य राज्ञः ।
१ द. न्तः । २ द. ट्ट । ३ द. धः । ४ द. र्द्धम्यं । ५ द. शः । ६ द. तः । ७ द.
स्त । ८ द. शिलोल्लूषते । ९ द. ज्ञा ।
२९२ समराङ्गणसूत्रधारे
अविरतमुदितोदितप्रतापः
स्वभुजजितां स चिरं प्रशास्ति पृथ्वीम् ॥ २३ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
आयतननिवेशो नामैकपञ्चाशोऽध्यायः ॥
अथ प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः ।
अवतारो निवेशानां विधानं वास्तुनो यतः ।
कार्त्स्न्येन तमतो ब्रूमः सभ्यस्य प्रसवोत्तमः (?) ॥ १ ॥
कुलजातिक्रमाणां च क्रमं दीर्घाल्यजीविनाम् ।
संस्थानमभिधास्यामो लक्ष्यलक्षणमेव च ॥ २ ॥
शुभाशुभानां वैराजमादिं तेषां प्रचक्षते ।
पूर्वोक्तस्य विमानस्य तस्यातो लक्ष्म कथ्यते ॥ ३ ॥
वैराजस्य यथाकारव्यवस्थानमशेषतः ।
चतुरश्रं समं क्षेत्रमशीत्यंशैर्विभाजयेत् ॥ ४ ॥
संयुक्तमष्टभिर्भागैः कुर्याद् गर्भगृहं शुभम् ।
द्विपञ्चाशद्दरैः सीमा गर्भकोष्ठसमन्विताः ॥ ५ ॥
द्वात्रिंशता देवकोष्ठैः सर्वैरेकान्तरैश्च तैः ।
बाह्यस्थाने ततः स्थानाद् द्वादशक्षोभणैर्धरैः ॥ ६ ॥
हेमरत्नमयैः स्तम्भैः शुक्त्रपट्टैश्च भूषितैः ।
शुक्लाङ्गारखचितैर्वितानैश्च विभूषणैः ॥ ७ ॥
स्फाटिकैर्विविधैर्जालैः सहरिन्मणिवेदिकैः ।
हंसकर्णकपोतालीतिर्यक्स्थाल्यर्थकर्णिकैः ॥ ८ ॥
पर्यन्तदेशधृतया गर्भस्योपरि घण्टया ।
लोकनाथेन तत् सृष्टमाद्यं वैराजसंज्ञितम् ॥ ९ ॥
१ द. चिरसमु° २ द. क्ष्य ।
प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः । २९३
तस्मात् स्वस्तिकसंज्ञः प्राग् गृहच्छन्दो विजायते ।
चतुश्शालस्त्रिशालश्च हिरण्यौकस्त्वतोऽपि च ॥ १० ॥
सिद्धार्थको द्विशालः स्यादेकशालस्तु कुम्भकः ।
सृष्टमन्यद् विमानं च वरं वीरं चतुर्मुखम् ॥ ११ ॥
गणानां देवतानां च स्कन्दस्य च यथाक्रमम् ।
प्रासादा द्वादशैतेऽन्ये जज्ञिरे शुभलक्षणाः ॥ १२ ॥
स्वस्तिकः श्रीतरुश्चैव तृतीयः क्षितिभूषणः ।
भूजयो विजयो भद्रैः श्रीकूतोष्णीषसंज्ञितौ ॥ १३ ॥
नन्द्यावर्तो विमानश्च सर्वतोभद्र एव च ।
विमुक्तकोणप्रासाद इति वैराजसंभवाः ॥ १४ ॥
एकैकस्मात् क्रमेणैवमेकैकः समजायत ।
स्वस्तिकाद् रुचको ज्ञेयः श्रीतरोः सिंहपञ्जरः ॥ १५ ॥
क्ष्माभूषणात् तु शाला स्याद् भूजयाद् गजयूथपः ।
विजयादवतंसश्च भद्रान्नन्दी विनिर्गतः ॥ १६ ॥
श्रीकूटाच्चित्रकूटाख्य उष्णीषात् प्रमदाप्रियः ।
व्यामिश्रो नन्दिकावर्ताद् विमानाद्धस्तिजाव(ति)कः ॥ १७ ॥
कुबेरः सर्वतोभद्रान्मुक्तकोणाद् धराधरः ।
एतेभ्योऽपि च संभूताः कनीयांसोऽभिधानतः ॥ १८ ॥
तद्भेदास्ते तदाकारैर्लक्ष्यैः स्वैः स्वैः पृथग्विधैः ।
भागैस्तेषूत्तमैः पूर्वान् मध्यमान् मध्यमस्तथा ॥ १९ ॥
कनीयसः कनीयोभिः प्रासादानुपकल्पयेत् ।
शिखरैरपरैः श्लिष्टाः प्रासादा जज्ञिरे ततः ॥ २० ॥
प्रथमो रुचकस्तेषु द्वितीयो वर्धमानकः ।
अवतंसस्तृतीयस्तु चतुर्थो भद्र उच्यते ॥ २१ ॥
१ ॰प्याकस्व॰ । २ द. द्रा । ३ द. ता । ४ द. क्षा ।
२९४ समराङ्गणसूत्रधारे
पञ्चमः सर्वतोभद्रः षष्ठः स्यान्मुक्तकोणकः ।
मेरुर्मन्दर इत्यष्टौ विज्ञेयाः शिखरोत्तमाः ॥ २२ ॥
चतुरश्राः समाख्याता देवानामालयाः शुभाः ।
एते ते वंशजाः सर्वे निवेश्या ब्रह्मजातयः ॥ २३ ॥
वैराजकुलसंभूताः प्रासादाः परमोत्तमाः ।
एतेभ्योऽन्येऽपि संभूताः पुत्रपौत्रप्रपौत्र्य(जा)ः ॥ २४ ॥
स्ववंशाः सुपरिवाराः परवंशविवर्जिताः ।
कर्तव्या भूतिकामेन तेजसा शुभलक्षणाः ॥ २५ ॥
नन्दका वर्धनाश्चैव सर्वकामफलप्रदाः ।
हृष्टपुष्टजनाकीर्णाः पूजासंस्कारवर्धनाः ॥ २६ ॥
यदि हीना भवन्त्येते परवंशेन दूषिताः ।
तदुद्वेगं नृणां नित्यमर्थनाशं कुलक्षयम् ॥ २७ ॥
पीडां च स्वामिनः कुर्युर्यदन्यदपि गर्हितम् ।
तस्मादेते विधातव्या दूषिता नान्यजातिभिः ॥ २८ ॥
इति वैराजजातानामुत्पत्तिः परिकीर्तिता ।
वैराजजन्म सुरसद्मपरम्परेय-
मुक्तेवमत्र शुभलक्ष्मवती समासात् ।
आनन्दकीर्त्तिधनधान्यकरी कृता स्या-
दन्यादृशी पुनरनर्थफलैव कर्तुः ॥ २९ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः ॥
अथ जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः ।
ब्रूमो जघन्यवास्तूनां द्वारमानमतः परम् ।
विस्तारं सतलोच्छ्रायं द्रव्यन्यासविधिं तथा ॥ १ ॥
१ द. ॰मन्दिर । २ द. ॰त्र्यजाः ॥ ३ द. तृ ।
जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः । २९५
कथिता ये निराधाराः प्रासादास्तिर्यगायताः ।
तेषां भागचतुष्केन गर्भवासं विभाजयेत् ॥ २ ॥
द्वारं सार्धेन भागेन कुर्वीत स्वार्धविस्तृतम् ।
द्वारविस्तारपादेन पेयाया विस्तृतिर्भवेत् ॥ ३ ॥
विस्तारार्धेन पिण्डः स्यात् तत्समः स्यादुदुम्बरः ।
सार्धमूलादुम्बरकः(?)शाखा व्यासवशाद् भवेत् ॥ ४ ॥
चतुर्विधश्च कर्तव्यः पेयापिण्डः प्रमाणतः ।
शाखा तु पेयापिण्डश्च(स्य) विस्तारेण विधीयते ॥ ५ ॥
शाखाविस्तारतो रूपशाखा स्यात् सार्धविस्तृतिः ।
अर्धेन पेयापिण्डस्य खल्वशाखा विधीयते ॥ ६ ॥
रूपशाखासमाः कार्या विस्तारात् तुङ्गशाखिकाः ।
तुङ्गाया बाह्यतः शाखाः क्रियन्ते यास्तु काश्चन ॥ ७ ॥
अष्टांशाभ्यधिकाः सर्वाः कर्तव्या विस्तरेण ताः ।
द्वारस्यायामविस्तारयोगात् सङ्ख्या भवेत् तु या ॥ ८ ॥
तलोदयस्य तन्मानं गर्भमण्डपयोः समम् ।
यदि भिन्नतलं कर्तुं मण्डपैः कश्चि हीयते(?) ॥ ९ ॥
द्वारोच्छ्रिते तद्गुणानां मण्डपे स्यात् तलोच्छ्रितिः ।
प्रासादेषु कनीयस्सु तलमानमुदाहृतम् ॥ १० ॥
षड्भागाभ्यधिकं ज्येष्ठे मध्येऽष्टांशाधिकं ततः ।
बलविधिः(?) समपदः प्रासादस्य विधीयते ॥ ११ ॥
नाधस्तात् स प्रयोक्तव्यो नोर्ध्वतश्चाप्युदुम्बरात् ।
कुम्भिकाभरणपट्टजयन्तीशीर्षकायफलकेषु तुला(नाम्) ।
उक्तं(मान)मिह यत् प्रथमं तन्नाधिकं प्रविदधीत न हीनम् ॥१२॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः ॥
४ द. सृ° । २ द. प । ३ द. द । ४ द. मुक्तमिह । ५ द. ना ।
३. द्वार, गवाक्ष, विमान व यंत्र-विधान (अध्याय ३६-५०)
२९६ समराङ्गणसूत्रधारे
अथ प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः ।
इदानीमभिधास्यामः प्रासादानां यथाक्रमम् ।
द्रव्येषूदयविस्तारं बाहल्यं परिधिं तथा ॥ १ ॥
प्रासादभागिकोत्सेधं प्रासादद्वारमिष्यते ।
सत्त्र्यं शोच्छ्रितं वापि¹ सार्धांशोच्छ्रयमेव वा ॥ २ ॥
स्वीयस्वीयोदयादर्धविस्तारं च तदिष्यते ।
विस्तृतिभागतुर्यांशात् पेचायाः स्थौल्यमर्धतः ॥ ३ ॥
पेयाँबाहल्यविस्तीर्णा शाखा भवति मानतः ।
उत्तराङ्गानि कुर्वीत पेयाशाखासमानि तु ॥ ४ ॥
सपादपेचाविस्तारा रूपशाखा विधीयते ।
रूपशाखान्वितः कार्यः पीठबन्धस्तथोपरि ॥ ५ ॥
वृत्तं कार्यमधोवृत्ते पत्रकैश्च निरन्तरम् ।
स्तम्भाच्च द्विगुणव्यासं भरणं भूषणान्वितम् ॥ ६ ॥
रूपशाखासमं तच्च कर्तव्यमतिसुन्दरम् ।
ऊर्ध्वं समन्ताच्चाष्टांशमात्रे तच्चतुरश्रकम् ॥ ७ ॥
तदूर्ध्वं भरणोच्छ्रायः स्यात् पादोनसमुच्छ्रितिः ।
कपोतश्चाप्यधश्शीर्षगर्भः स च विधीयते ॥ ८ ॥
सरथालयपत्रो वा स्वोदयार्धविनिर्गमः ।
तस्योपरिष्टात् कर्तव्यं स्यादुच्छालयपत्रकम् (?) ॥ ९ ॥
रथिका (तु) विधातव्या द्वयोरप्युच्छ्रितिस्तयोः ।
सार्धप्रमाणभरणाद् भूषा स्यात् पुष्पकादिभिः ॥ १० ॥
रूपकैर्वा यथाशोभं स्तम्भिकाभिश्च सर्वतः ।
कण्टकोयत्रिभागेन(?) कूटाकारं भवेर्द्दतः ॥ ११ ॥
१ द. रि । २ द. ॰सं । ३ द. पेयाबाँ । ४ ख. द. थि । ५ द. ठा । ६ द. द ।
विभूषितं सिंहचक्रैर्हस्तिशुण्डैरथापि वा ।
कपोतादि विधातव्यमन्तरे रूपशाखयोः ॥ १२ ॥
कार्यं विषमसंख्यं च सर्वमेतद् विचक्षणैः ।
तस्माद् बहिर्विधातव्या सर्वतः परिमण्डली ॥ १३ ॥
अन्त्यशाखासमा सा^१ च प्रमाणेन विधीयते ।
तस्यां सद्धारशाखायां (प्रा)^२येशः पद्मपत्रिकाः ॥ १४ ॥
कार्यात्रा वाच(वा द्वार)शाखायास्तद्विस्तारसमुच्छ्रिताः ।
भवेदधस्तादर्धेन ग्रीवाया रसना तथा ॥ १५ ॥
ग्रीवया सार्धया तुल्यमन्तरं पत्रकाण्यधः ।
भागद्वयं प्रकुर्वीत जङ्घा त्र्यंशा ततोऽप्यधः ॥ १६ ॥
पेद्यापिण्डप्रमाणेने खल्वशाखा विधीयते ।
पेद्यापिण्डसमो बाह्यशाखान्यासः प्रकीर्तितः ॥ १७ ॥
क्रमेणानेन कर्तव्याः शाखाँः स्वल्पा यदृच्छया ।
न नवभ्यः परं कार्या द्वारशाखाः कथञ्चन ॥ १८ ॥
निर्गमो वा प्रवेशो वाँ विस्तारेण समन्वितः ।
पेद्याया यदि वार्धेन शाखानां स विधीयते ॥ १९ ॥
सार्धपेद्यापिण्डसमः पिण्डस्योदुम्बरो भवेत् ।
तलन्यासस्तदर्धेन भूमिरङ्गा च(ङ्गाञ्च) तत्समाँः ॥ २० ॥
उदुम्बरकपिण्डस्य मानात् सिंहमुखानि च ।
उदुम्बरात् पादहीनस्तुल्यो वाभ्यधिकोऽथवा ॥ २१ ॥
पट्टस्य पिण्डस्त्रिविधो विस्तारात् स्तम्भतोऽधिकः ।
भागपादैंसमस्तम्भो द्वादशांशं प्रपीडितः ॥ २२ ॥
भागद्वये च कर्तव्यो रूपलक्षणसंयुतः ।
चतुष्षष्टिप्रकारोऽयं नानारूपप्रपञ्चतः ॥ २३ ॥
१ द. स्ता । २ द. पश । ३ ख. द. ०ख्या शाखारतन्न यं । ४ ख. द. वा सविस्तारेण
संमितः । ५ ख. र्धा । ६ द. उ । ७ क. मा । ८ क. ह । ९ ख. रस्त; द. र ।
१० ख. दः ।
वा. ३८
२९८ समराङ्गणसूत्रधारे
स्तम्भविस्तारविस्तीर्णं पिण्डे तत्पादवर्जितम् ।
विस्तारात् त्रिगुणं दैर्ध्याद्दी¹रै²र्ग्रहणमिष्यते ॥ २४ ॥
प्रविष्टौ स्तम्भमाने स्तः कुम्भिकोत्कालकौ सदा ।
तलपट्टसमं पद्ममुत्तरं परिकल्पयेत् ॥ २५ ॥
तौ³(ही)रं तस्य त्रिभागेन समुत्सेधाद् विधीयते ।
किञ्चिद् विनिर्गतं पट्टा⁴द् यथाशोभं प्रकल्पयेत् ॥ २६ ॥
अत ऊर्ध्वं यथाशोभं कण्ठके⁵नो⁶सनेन च ।
रथकै⁷श्चित्ररूपैश्च कू⁸टागारैः सतोरणैः ॥ २७ ॥
⁹अलिन्दे मण्डपे वापि चतुष्के वलभीषु वा ।
वितानानि विचित्राणि समुत्क्षिप्ततलानि च ॥ २८ ॥
लक्षणेनं च युक्तानि विदधीत यथोचितम् ।
लु¹⁰मांः फलकवर्तीभिः कृ¹¹ताः समभिदध्महे ॥ २९ ॥
उत्क्षिप्तानां च ये भेदा जायन्ते सर्ववास्तुषु ।
तु¹²म्बिनी लम्बिनी हेला शान्ता कोला मनोरमा¹³ ॥ ३० ॥
आध्माता चेति सप्ताैता नामतः कथिता लुमाः ।
चतुरश्रीकृते क्षेत्रे¹⁴ कान्ते भूमितले शुभे ॥ ३१ ॥
सूत्रं क्षेत्रसमं कृत्वा कर्णात् कर्णं विभाजयेत् ।
वि¹५न्यस्येद् गर्भसूत्राणि तयोर्मध्यगतानि च ॥ ३२ ॥
भूयश्चान्यानि मध्येषु सूत्राणि विनिवेशयेत् ।
मध्ये वृत्तं समालिख्य तु¹⁷म्बिका कमलोपमा ॥ ३३ ॥
कार्या भागीकृतं तत्र वृत्तं क्षेत्रे¹⁸ प्रवर्तयेत् ।
सूत्रे सूत्रे तु¹⁹ पिण्डस्थां²⁰ लुमां²¹ सूत्रेण वालिखेत् ॥ ३४ ॥
१ द. स्त्र्रि । २ द. °तिहार° । ३ क. नी । ४ द. °ता पट्टा अ° । ५ क. को । ६ ख. न;
द. कंचकेन शेनेन च । ७ द. ठा । ८ द. आ । ९ द. णानं । १० क. ख. माफ। ११ क. ख.
ता स । १२ ख. द. रुचिनी । १३ ख. द. माः । १४ ख. द. पूर्वं का । १५ द. °त्रं । १६ द.
सें° । १७ ख. द. रुचिका । १८ क. ख. त्रं । १९ क. ख. ण । २० द. °स्थं लुमा २१ क.
ख. माम् ।
प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः। २९९
लुमान्तरेषु सर्वेषु वैर्कटेयेन घुषीकृतम् ।
तयोरन्तरयोर्मध्ये लुमामूले विकर्करम् ॥ ३५ ॥
द्विगुणं त्रिगुणं वा स्यात् ततश्च वलिनीं लिखेत् ।
व्यासार्धेनोदयश्चेह कर्तव्यस्तत्र मण्डले ॥ ३६ ॥
सम्पातात् तलसूत्राणां तुम्बिका चोर्ध्वसूत्रिता ।
उदयस्तलसूत्रस्य तुम्बिकायास्तथान्तरम् ॥ ३७ ॥
पूर्वसूत्रे लुमाग्रेषु कण्टकान् कल्पयेद् ऋजून् ।
बहिस्थानेषु चान्तेषु लक्षं कुर्यात् सुनिश्चितम् ॥ ३८ ॥
लक्षं गृहीत्वाधःसूत्र ऊर्ध्वसूत्राणि लक्षयेत् ।
उदये कण्टकस्यान्ते तद्भूदेवानुसन्ततम् ॥ ३९ ॥
दापयेदुत्तरं सूत्रं लुमानां खल्वकानि च ।
पिण्डव्यासं वलीनां चाप्येषु क्षोभणविस्तृती ॥ ४० ॥
लुमा कर्णगता या स्यादोध्माता सा प्रकीर्तिता ।
छेदे प्रवर्तितान्या स्यात् किञ्चिदूना मनोरमा ॥ ४१ ॥
कोला तृतीया शान्तेति चतुर्थी परिकीर्तिता ।
हेलाख्या पञ्चमी षष्ठी लम्बिनी नामतो लुमा ॥ ४२ ॥
सप्तमी तुम्बिनीत्येता मार्गसूत्रविनिर्गताः ।
एताभिः कारयेत् कोलं वितानं नयनोत्सवम् ॥ ४३ ॥
कोलाविलं हस्तितोलु चाष्टपत्रं शरावकम् ।
नागवीथीवितानं च पुष्पकं अमरावली ॥ ४४ ॥
हंसपक्षं करालं च विकटं शङ्ककुट्टिमम् ।
शङ्खनाभिः सपुष्पं च शुक्तिवृ(वृं)त्तकमेव च ॥ ४५ ॥
१ ख. काद्येन । २ द. संयाता चल° । ३ ख. द. रुचिका । ४ ख. द. मू। ५ द.
रुचिकाया° । ६ क. त्रेषुमाग्र । ७ ख. बले गृ । ८ द. ना । ९ ख. द. ल्वि । १० द. द ।
११ द. ताः । १२ ख. र्तिन्य + स्याः; द. प्रवर्तिन्यस्याः किं° । १३ द. माः । १४ द. ताः ।
१५ ख. तस्तुला । द. °तस्तुला । १६ ख. का; द. °ये का° । १७ द. °स्त° । १८ द. ती ।
१९ क. मु ।
३०० समराङ्गणसूत्रधारे ।
मन्दारं कुमुदं पद्मं विकासं गरुडप्रभम् ।
पुरोहतं पुरारोहं विद्युन्मन्दारकं तथा ॥ ४६ ॥
एतान्येवं वितानानि सङ्ख्यया पञ्चविंशतिः ।
एतेषां रूपनिर्माणमधुना संप्रचक्ष्महे ॥ ४७ ॥
समन्ताचतुरश्रे च चतुरश्रायतेऽथवा ।
क्षेत्रे वृत्तीकृते नाभ्यैकया तत् कोलमुच्यते ॥ ४८ ॥
चतुरश्रे यदा क्षेत्रे कर्णस्थानेषु कृत्स्नशः ।
चतुरश्रनिबन्धेन चतुरश्रनिबन्धने ॥ ४९ ॥
३वैलिनी विकटाकारा पूर्वं४ वृत्तान्यधस्तथा ।
भ्रमवृत्तं च यन्मध्ये परं तत्रापरा लुमाः ॥ ५० ॥
क्रियन्ते६ तुम्बिकाः पञ्च यत्र सुंस्थाः सुसंवृताः ।
मार्ग(?)स्तलेऽधःसूत्रस्य तद् भवेन्नयनोत्सवम् ॥ ५१ ॥
कोलाविलं१० समे क्षेत्रे११ भागाष्टकविभाजिते ।
मध्ये द्विभागे विलिखेद् वृत्तं तुम्बिकयान्विते ॥ ५२ ॥
तत्र भ्रमान्ते च सूत्रे भ्रमान् षोडश कारयेत् ।
ऋजूनि यानि सूत्राणि लुमास्ताः परिकल्पयेत् ॥ ५३ ॥
यानि शेषाणि सूत्राणि वलिनीस्ताः प्र१२कल्पयेत् ।
तुम्बिन्त्यां कारयेद् वृत्तं गजतालुकमुच्यते ॥ ५४ ॥
अष्टपत्रे चतुष्षष्टिर्भागं१३ क्षेत्रं प्रकल्पयेत् ।
लुमास्थानेषु पत्राणि खण्डितान्यन्तरैस्तथा ॥ ५५ ॥
सम्पातेषु समस्तेषु तुम्बिकाः सन्निवेशयेत् ।
वृत्ताकारं शरावं स्याद् विन्यासं च धरैश्च तत् ॥ ५६ ॥
चतुरश्रेऽथवा वृत्ते भागत्रयविभाजिते ।
निवेशयेन्नागबन्धं§ सम्पाते वलिसूत्रयोः ॥ ५७ ॥
१ द. स्रा । २ क. मै । ३ क. वा । ४ क. र्वीं ; द. र्वा ५. द. नाः । ६ द. रु ।
७ द. स्व । ८ ख. द. स्व । ९ ख. स्थिता । १० द. ल । ११ द. त्रं । १२ द. प्रचक्ष्महे ।
१३ द. ग । १४ ख. त्व । १५ द. व । १६ द. न्धान् ।
§ नागवीथीति लक्ष्ये पठितम् ।
प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः । ३०१
वितानमेतत्$^१$ कथितं यश्चिकीर्षति मानवः$^२$ ।
ऊर्ध्वतिर्यग्गतैर्नालैः क्रियते यन्निरन्तरम् ॥ ५८ ॥
पुष्पमालाकुलं श्रीमत्$^३$ पुष्पकं तदुदाहृतम् ।
अशोकपल्लवाकीर्णलुमाम्रैर्म्मनिवन्धनम्$^४$ ॥ ५९ ॥
चतुरश्रक्रियायुक्तं सा प्रोक्ता अमरावली ।
आध्माता कर्णमायाता तुम्बिकास्थानसंश्रया ॥ ६० ॥
तुम्बिनी यन्न मध्ये तु हंसपक्षं तदुच्यते ।
अस्यैव पक्षे तु यदा सम्बध्येत मनोरमां$^५$ ॥ ६१ ॥
तुम्बिनी च विपक्षेषु करालं तदुदाहृतम् ।
कोला लुमा स्याद् विकटे शङ्खे शान्ता प्रकीर्तिता$^६$ ॥ ६२ ॥
शङ्खनाभिसमं सूत्रं तुम्बिकायाः प्रवर्तते ।
सर्वेष्वपि $^७$लुमास्थानेष्वेकररेखान्वितं भवेत् ॥ ६३ ॥
शङ्खनाभिरिति प्रोक्तं वितानमिदमुत्तमम् ।
एतस्यैव लुमास्थाने तुम्बिका पद्मकावृता$^८$ ॥ ६४ ॥
वलयैर्भूषिता यत् स्यात् सपुष्पमिति तद् विदुः ।
क्षेत्रे वृत्तायताकारे कारयेच्छुक्तिसंज्ञकम् ॥ ६५ ॥
वृत्ताकारे भवेत् क्षेत्रे वृत्तं वलयकर्मणा ।
चतुरश्रे समे क्षेत्रे यल्लुमार्थलुमंर्धते( तः ) ॥ ६६ ॥
वृत्तक्षोभणभङ्गानि तन्मन्दारकमुच्यते ।
कुमुदं कुमुदस्येव लुमाक्षेपा$^९$दिहार्धतः$^{१०}$$^{११}$ ॥ ६७ ॥
पद्मके स्यादधैःक्षिप्ता विकासे मध्यमा लुमा ।
गरुडे गरुडो मध्ये नागाभरणशोभितः ॥ ६८ ॥
$\dagger$पुरोगतं तद् यदधो गत्वा स्यादूर्ध्वगं$^{१२}$ पुनः ।
अधो गत्वा पुरारोहमूर्ध्वमूर्ध्वं ततोप्यधः ॥ ६९ ॥
१ द. न । २ ख. द. ˚ति नामतः । ३ द. श्रीमान् । ४ क. स । ५ द. माः । ६ द. ताः ।
७ द. रु˚। ८ द. ताः । ९ द. मा । १० ख. द. त्रा । ११ द. धि । १२ द. ख. दूर्धगतं पु˚।
$\dagger$पुरोहतमिति तु लक्ष्ये पठितम् ।
३०२ समराङ्गणसूत्रधारे
विचित्रक्षोभणाकीर्णमन्ते वृत्तं मुहुर्मुहुः ।
अष्टभिश्चाश्रिभिर्मध्ये विगुणन्मन्दारकं भवेत् ॥ ७० ॥
मानोन्मानमथ ब्रूमः प्रासादच्छाद्यसंश्रयम् ।
अर्धेनच्छाद्यविस्तारस्योर्ध्वं वंशं प्रकल्पयेत् ॥ ७१ ॥
अयमर्धोदयः प्रोक्त आवन्त्यो^१ नामतः परः ।
त्र्यंशेनच्छाद्यविस्तारस्योदयो^२ वामनो भवेत् ॥ ७२ ॥
वामनावन्त्ययोर्मध्ये नवधा प्रविभाजयेत् ।
भागोत्तरोदयात्^३ तेऽष्टौ वामनादुदयाः स्मृताः ॥ ७३ ॥
वा(आ)तपत्रोऽथ कौबेरः स(श)^४र्मनारख्यस्तथावली ।
हंसपृष्ठो महाभोगी नारदः ^५शैम्बुकस्तथा ॥ ७४ ॥
वामनः प्रथमस्तेषामावर्न्त्योते^६(न्त्येन) दशोत्यमी ।
च्छायानामथ वृत्तानामुदयः प्रोच्यतेऽधुना ॥ ७५ ॥
तलसूत्रसमं कृत्वा कुर्याद् द्वादशधोदयम् ।
षष्ठादारभ्य भागाँत्^७ स्युः सप्त भागोत्तरोदयाः ॥ ७६ ॥
कुबेरशेखरी चन्द्री नागश्चातु(थ) गणाधिपः ।
मुख्यश्चाच्छः सुभद्रश्च वृत्ते सप्तोदयाः स्मृताः ॥ ७७ ॥
कृत्वा त्रिकर्करपदं लुमापृष्ठं लिखेत् ततः ।
भागार्धमधिकं क्षेत्रं^८ भवेच्छाद्यकवर्तना ॥ ७८ ॥
भागार्धवर्धिते क्षेत्रे तलसूत्रक्रमान्विते ।
लुमामायां लिखेद् भूयः षट् क्रमेणानुसन्ततम् ॥ ७९ ॥
रिक्षा यथाद्विहस्ताय(?) लुमायाः स्यादनन्तरम् ।
लुमा त्रिभागहीनेन परिवृद्धाङ्गुलेन सा ॥ ८० ॥
तस्याश्चानन्तरा लक्ष्म्या सार्धं वृद्धाङ्गुल^११त्रयम् (?)
त्र्यंशोनैः षड्भिरपरा त्र्यंशोनैर्दशभिः परा ॥ ८१ ॥
१ द. ॰त्या । २ क. स्योदयस्यव्यसनो (?) ३ द. ॰ष्टौ च । ४ ख. द. समानाख्य॰ ।
५ द. ॰दस्यम्बुका॰ । ६ क. न्त्यौते । ७ ख. द. गाः । ८ क. रञ्चायः । ९ त्रादृ भ । १० थामं-
भरायक्ष्म्या सा । ११ ख. द. लं द्वयम् ।