सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 357, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 357

२९२ समराङ्गणसूत्रधारे
अविरतमुदितोदितप्रतापः
स्वभुजजितां स चिरं प्रशास्ति पृथ्वीम् ॥ २३ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
आयतननिवेशो नामैकपञ्चाशोऽध्यायः ॥
अथ प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः ।
अवतारो निवेशानां विधानं वास्तुनो यतः ।
कार्त्स्न्येन तमतो ब्रूमः सभ्यस्य प्रसवोत्तमः (?) ॥ १ ॥
कुलजातिक्रमाणां च क्रमं दीर्घाल्यजीविनाम् ।
संस्थानमभिधास्यामो लक्ष्यलक्षणमेव च ॥ २ ॥
शुभाशुभानां वैराजमादिं तेषां प्रचक्षते ।
पूर्वोक्तस्य विमानस्य तस्यातो लक्ष्म कथ्यते ॥ ३ ॥
वैराजस्य यथाकारव्यवस्थानमशेषतः ।
चतुरश्रं समं क्षेत्रमशीत्यंशैर्विभाजयेत् ॥ ४ ॥
संयुक्तमष्टभिर्भागैः कुर्याद् गर्भगृहं शुभम् ।
द्विपञ्चाशद्दरैः सीमा गर्भकोष्ठसमन्विताः ॥ ५ ॥
द्वात्रिंशता देवकोष्ठैः सर्वैरेकान्तरैश्च तैः ।
बाह्यस्थाने ततः स्थानाद् द्वादशक्षोभणैर्धरैः ॥ ६ ॥
हेमरत्नमयैः स्तम्भैः शुक्त्रपट्टैश्च भूषितैः ।
शुक्लाङ्गारखचितैर्वितानैश्च विभूषणैः ॥ ७ ॥
स्फाटिकैर्विविधैर्जालैः सहरिन्मणिवेदिकैः ।
हंसकर्णकपोतालीतिर्यक्स्थाल्यर्थकर्णिकैः ॥ ८ ॥
पर्यन्तदेशधृतया गर्भस्योपरि घण्टया ।
लोकनाथेन तत् सृष्टमाद्यं वैराजसंज्ञितम् ॥ ९ ॥
१ द. चिरसमु° २ द. क्ष्य ।