समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः । ३०३
चतुर्दशभिरन्या स्यात् सार्धैर्वृद्धा ततोऽङ्गुलैः ।
विंशत्यङ्गुलवृद्धा तु सप्तमी कोणसंश्रिता ॥ ८२ ॥
क्रमेणानेन मानानि लुमानां वृद्धिह्रासयोः ।
अनुपातेन कार्याणि च्छाद्यक्षेत्रानुसारतः ॥ ८३ ॥
† कुबेरवल्लरीचन्द्रीपन्नगा गणनायकैः ।
§ मुग्धा सुभद्रेत्येताः स्युर्लुमाकर्मार्धमादितः ॥ ८४ ॥
एतासां गण्डिकाछेदाश्चत्वारः परिकीर्तिताः ।
ऊर्ध्वस्तिर्यग्( ग )तिस्र्यंशस्तथार्थत्र्यंश एव च ॥ ८५ ॥
छाद्यकोदयविस्तारं तन्निर्गमसमायति ।
कृत्वा षोढा भजेत् क्षेत्रं विस्तारायामतः समम् ॥ ८६ ॥
तत्रोर्ध्वद्वयमानेनच्छिन्द्यात् प्रागेव गण्डिकाम् ।
तस्यां छेदानुसारेण दापयेदेव लम्बकम् ॥ ८७ ॥
अधस्ताद् गण्डिकायाश्च कण्टकानि प्रकल्पयेत् ।
अवपातोच्छ्रयौ ज्ञात्वा त्रीणि स्थानानि चिह्नयेत् ॥ ८८ ॥
गर्भे तथोर्ध्वे प्रान्ते च तृतीयं मध्यतस्तयोः ।
यत्र स्थाने स्थितं सूत्रं स्पृशति स्थानकत्रये ॥ ८९ ॥
तस्मात् प्रसार्य तत्सूत्रं भ्रमयेत् कर्कटं ततः ।
लुमार्थस्यैवमुपरि संस्थानमुपजायते ॥ ९० ॥
उपरि स्थितेन सूत्रेण तत्तुल्येनैव कर्कटम् ।
प्रान्तावलम्बकस्थाने भ्रमयेत् खल्वसिद्धये ॥ ९१ ॥
प्रागक्षे भागयुगलावच्छिन्नं फलके पुनः ।
कल्पयेत् सममेवैषा लुमापार्ष्णिनिर्गद्यते ॥ ९२ ॥
१ ख. द. ˚द्धां । २ क. द. ताः । ३ क. ˚न नामानि । ४ ख. द. न्द्रा । ५ द. काः ।
६ क. स । ७ ख. गा । ८ द. दाययेद् । ९ द. ˚यो˚ । १० द. त । ११ द. प्रा । १२ ख.
द. प्राक्क्षेत्रे भा ।
† ‘कुबेरशेखरी’ति पूर्वं पठितम् । § ‘मुख्य’ इति पूर्वं पश्यते । तदनन्तरं च ‘ अच्छ’ इति
नामान्तरमपि तत्र दृश्यते ।
शेषां लुमां तु दीर्घांशैश्चतुर्भिः प्रविभाजयेत् ।
चतुर्घातः परं तस्याः कर्तव्यं वृत्तवर्तनम् ॥ ९३ ॥
अर्धोदये लुमोच्छ्रायो विस्तारांशद्वयोन्मितः ।
मूलेऽग्रतश्च भागार्धमुदयोऽस्या विधीयते ॥ ९४ ॥
अधःक्षेत्रे स विस्तारात् सूत्रमालम्ब्य तद्यथा ।
विस्तारात् सदृशे क्षेत्रे सार्धतद्भागमाश्रितः ॥ ९५ ॥
लुमाग्रेभागत्र्यंशं च तयोर्मध्यं च यत् स्थितम् ।
सूत्रं स्पृशेत् तत्र धृत्वा कर्कटं भ्रमयेद् बुधः ॥ ९६ ॥
भागभागोत्तरक्षेत्रापेक्षया चतसृष्वपि ।
गण्डिकासु विधातव्यं विधिवद् वृत्तवर्तनम् ॥ ९७ ॥
मूलाल्लुमायाः क्षेत्रस्य पञ्चमांशत्रयेऽथवा ।
पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा ॥ ९८ ॥
संपतत्येवमालिख्य शेषं पूर्ववदाचरेत्
लुमाया मूलतः क्षेत्रसप्तमांशचतुष्टये ॥ ९९ ॥
पृथुत्वार्धे लुमापृष्ठलेखावृत्तद्वयं यथा ।
संपतत्येवमालिख्य षड्भागैः शेषमाचरेत् ॥ १०० ॥
नवांशपञ्चके यद्वा क्षेत्रस्यैव लुमादितः ।
पृथुत्वार्धे लुमापृष्ठद्वयलेखां निवेशयेत् ॥ १०१ ॥
शेषैः षड्भिस्ततो भागैरन्यत् तु प्राग्वदाचरेत् ।
भागार्धं निर्गमः कार्यः प्रासादानां कनीयसाम् ॥ १०२ ॥
छाद्यकस्यैव भागैस्तु ज्यायसां निर्गमो यतः ।
तदन्तरे ये प्रासादास्तेषां क्षेत्रानुसारतः ॥ १०३ ॥
छाद्यस्य निर्गमः कार्यों विद्भिरनुपाततः ।
निर्गमस्य त्रिभागेन कनीयाञ् छाद्यकोदयः ॥ १०४ ॥
१ ख. द. मायता । २ ख. र्ध; द. र्द्ध । ३ ख. ध्यं यतः स्थितम् । ४ द. त्ति । ५ ख.
लानुमा; द. ०नु । ६ क. गः स्युर्निर्गमोक्षायसां मतम् (?)।
प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः । ३०३
अर्धभागेन परमो भाव्यं षड्भिस्तदन्तरम् ।
अन्ये भागोत्तराः पञ्च सप्तैव मुदया मताः ॥ १०५ ॥
इदानीमभिधास्यामः सिंहकर्णस्य लक्षणम् ।
छाद्यो¹दयोदयः स स्याद् दशभिस्तं विभजयेत् ॥ १०६ ॥
तैः स्यात् षोडशभिर्भागैस्तस्यैव तलविस्तृतिः ।
ऊर्ध्वतश्चतुरो भागांस्त्यक्त्वा शङ्कुं निवेशयेत् ॥ १०७ ॥
चतुर²श्रीकृते क्षेत्रे कर्णेनारभ्य शङ्कुतः ।
ततो वृत्तं लिखेत् पश्चाच्छङ्कुं समभिरोपयेत् ॥ १०८ ॥
ऊर्ध्वदेशांत् तु भागेन स स्याद् भागचतुष्टये ।
लिखेद् वृत्तं त्रिभागोनद्व्यंशकर्कट³कोद्भव⁴म् ॥ १०९ ॥
तस्योपरिष्टात् तदनु ग्रीवा कार्यैकभागिनी ।
गर्भे शृङ्गाग्रयोर्मध्ये⁵ तिर्यग् भागद्वयं भवेत् ॥ ११० ॥
मध्ये कर्णाग्रयोस्तिर्यक् कार्यं भागत्रयं बुधैः ।
ग्रीवाया उपरिष्टाच्च भागमेकं शिखा भवेत् ॥ १११ ॥
शिखाग्रमुपरिष्टाच्च कर्तव्यं गर्भसङ्गतम् ।
शिखार्यमूर्ध्वतस्तद्वदर्धभागांवलम्बितम् ॥ ११२ ॥
भागावलम्बि कर्णाग्रं स्कन्धाग्रं तावदेव तु ।
स्यात् कर्णखण्डयोर्मूलं स्कन्धदेशस्य सङ्गतम् ॥ ११३ ॥
स्वस्तिको¹⁰ द्व्यंशविस्तारायामः प्राग्वृत्तमध्यतः¹¹ ।
एवं शङ्कुमधःसूत्रादूर्ध्वं भागो¹²(गे) निवेशयेत् ॥ ११४ ॥
भागे निवेशितं कुर्यात् पूर्ववृत्तोद्य¹³शेषतः ।
स्वस्तिकान्तं चै¹⁴ पूर्वोक्तं पूर्ववत् सर्व¹⁵माचरेत् ॥ ११५ ॥
१ द. यो । २ ख. अंशिकक्षे; द. ॰अंशिकक्षेत्रे । ३ ख. शौ त्रिभागोनैः स; द. ॰शो त्रिभागोनैः
सं° । ४ ख. द. य । ५ ख. कैः । ६ ख. द. ॰ध्यं । ७ द. य । ८ ख. र्ध; द. ॰र्द्धं° । ९ ख. द.
ग । १० ख. द. कस्कन्ववि । ११ द. ख. मः । १२ ख. द. गर्भ नि° । १३ क. त्या । १४ ख. द.
तु । १५ ख. द. मुपा ।
बा. ३९
३०६ समराङ्गणसूत्रधारे
तलसूत्रादुपर्यंशैश्चतुर्भिर्गर्भतः समः( मम् )
द्वाभ्यां द्वाभ्यामुभयतो भागाभ्यां तिर्यगेव च ॥ ११६ ॥
भागेन तद्वदेवाधःसूत्रादुपरि गर्भतः ।
चतुर्भिश्च चतुर्भिश्च भागैरुभयतः समम् ॥ ११७ ॥
वृत्ताद्धानि लिखेदेककर्णयुक्तानि पूर्ववत् ।
एकशृङ्गाणि च ग्रीवास्वस्तिकार्धयुतानि च ॥ ११८ ॥
तलसूत्रबहिर्देशाद् बाह्यवृत्तसमुद्भवः२ ।
पदत्रयप्रविष्टैः स्यात् पार्ष्णिरत्र पॅरिस्फुटः ॥ ११९ ॥
त्रिवलीललितो नाम सिंहकर्णोऽयमीरितः ।
दशभागीकृते प्राग्वदुदये तत्प्रमाणतः ॥ १२० ॥
चतुर्दशांशविस्तीर्णे कर्णे सार्धे वलिर्भवेत् ।
दशभागोच्छ्रिते प्राग्वत् स्यात् त्रयोदशविस्तृतः ॥ १२१ ॥
क्षेत्न एकवलिर्नाम सिंहकर्णस्तथापरः ।
एते शोभान्विताः कार्यास्त्र्यश्रसंवरणाश्रयः ॥ १२२ ॥
प्रासादानामिति निगदितं द्वारमानं निवेशः५
स्तम्भानां च स्फुटमिह वितानानि तेषां लुमाश्च ।
वृत्तच्छाद्योच्छ्रितिरभिहिता छाद्यसंस्था लुमाश्च
प्रोक्ताः सप्त प्रथितमपरं सिंहकर्णप्रमाणम् ॥ १२३ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
प्रासादद्वारस्तम्भनिवेशवितानलुमालक्षणवृत्तच्छाद्यलुमासिंहकर्णप्रमाणं नाम
चतुष्पञ्चाशोऽध्यायः ॥
१ क. द्वे । २ द. वाः । ३ क. ष्टा । ४ क. पुरः स्फु । ५ द. शं ।
मेर्वादिवोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३०७
अथ मेर्वादिवोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः ।
प्रासादानाम्नतो लक्ष्म षोडशानां विशेषतः ।
ज्येष्ठमध्यकनिष्ठानां यथावदभिदध्महे ॥ १ ॥
विभज्यते यथां¹ येन प्रागश्चोर्ध्वं विधीयते( ? ) ।
यावदूं² यस्य प्रमाणं तुं³ नथा⁴ तत् तस्य कथ्यते ॥ २ ॥
मेरुः प्रासादराजश्च कैलासश्च हरॅ⁵प्रियः ।
सर्वतोभद्रकश्चैव विमानच्छदनन्दनौ ॥ ३ ॥
स्वस्तिको मुक्तकोणश्च श्रीवत्सो हंससंज्ञितः ।
रुचको वर्धमानश्च गरुडैश्च गजस्तथा ॥ ४ ॥
मृगराजश्च पद्मश्च वलभी ⁶चेति ते स्मृताः ।
न त्रयस्त्रिंशतोऽधस्तान्नापि पञ्चाशतः परा ॥ ५ ॥
सङ्ख्या भवति हस्तानां मेरोरिति पुराविदः ।
विभज्य दशधा क्षेत्रं शृङ्गं कुर्याद् द्विभागिकम् ॥ ६ ॥
कृत्वा षड्भागिकं मध्यं निर्गमस्तत्र दीयते ।
भागस्य षोडशांशेन विधेयं सलिलान्तरम् ॥ ७ ॥
पदैः षोडशभिर्गर्भे विधेया चास्य विस्तृतिः ।
प्रासादभित्ति( ः)पद्किका पदविस्तृतं⁷मन्तरम्( ? ) ॥ ८ ॥
⁸पद्किका बाह्यभित्तिः स्यादित्येष स तदा॑⁹ स्मृतः ।
द्विपदो वेदिकाबन्धो जङ्घा पञ्चपदोदया ॥ ९ ॥
पदार्धेन पदार्धेन मेखलान्तरपत्रके ।
¹⁰शृङ्गोच्छ्रितिस्त्रिभिर्भागैर्नवभिः शिखरोच्छ्रितिः ॥ १० ॥
शिखरस्यास्य कर्तव्यास्तज्जैः षोडश भूमिकाः ।
स्कन्धोऽशैर्र्विस्तृतः षड्भिरंशेनोच्छ्रितमण्डकम् ॥ ११ ॥
१ क. था प्रायः प्रापे चोर्वे वि (?)। २ क. दस्य। ३ क. च। ४ क. रि। ५ क. डो गरुडम्त ।
६ द. वे। ७ द. ति। ८ क. वाटिका। ९ द. धा। १० क. त्रिभागोच्छ्रि ।
३०८ समराङ्गणसूत्रधारे
ग्रीवा वंशोच्छ्रिता कार्या शिखरस्यादिविस्तृतौ ।
षड्गुणेनैव¹ सूत्रेण वेणुकोशं समालिखेत् ॥ १२ ॥
विस्तृतेरपि² भद्रायाः कुर्याद् द्विगुणमुच्छ्रयम् ।
कुम्भं भागेन कुर्वीत प्रासादेष्वखिलेष्वपि ॥ १३ ॥
एवमेष चतुःशृङ्गश्रतुर्द्वारोपशोभितः ।
मेरुर्मेरुरूपमः कार्यो वाञ्छता शुभमात्मनः ॥ १४ ॥
सर्वस्वर्णमयं मेरुं यद् दत्त्वा पुण्यमाप्नुयात् ।
तमिष्टकाशैलमयं कृत्वा तदधिकं³ भजेत् ॥ १५ ॥
मेरुः ॥
चतुरश्रीकृते क्षेत्रे सप्तविंशतिपाणिकम् ।
दशधा विभजेत् स स्यात् कैलासः पुण्यवर्धनः ॥ १६ ॥
ब्रह्मकोष्ठगतो गर्भः शेषं भित्त्यन्धकारिका ।
चतुर्भागं भवेद् भद्रं मूलकर्णौ त्रिभागिकौ ॥ १७ ॥
सप्तभागोच्छ्रिता जङ्घा मेखला चार्धभागिका ।
भागेनान्तरपत्रं स्याद् ⁴भागेनाण्डकसमुच्छ्रितम् ॥ १८ ॥
ग्रीवार्धभागमुत्सेधाच्छिखरं दशकोच्छ्रितम् ।
अर्धषष्ठांशविस्तारः स्कन्धः कैलाससंज्ञिते ॥ १९ ॥
अस्मिन्नन्तरपत्रे तु सूत्रं दत्त्वा सुताडितम् ।
त्रिगुणेन लिखेत् तेन वेणुकोशं मनोरमम् ॥ २० ॥
अष्टभूम्युच्छ्रयः श्रीमान् मञ्जर्या च विराजितः ।
उच्छ्रयश्चास्य कर्तव्यो द्विगुणः श्रियमिच्छता ॥ २१ ॥
कार्यं षड्भूमिकं चास्य भद्रं भागार्धनिर्गतम् ।
पातः सिंहकर्णैस्स्थुः(?) समाप्तिर्नायकेन च ॥ २२ ॥
कैलास एष कथितो विशेषेण हरप्रियः ।
कैलासः ॥
१ क. षड्गणा तेनु सू। २ द. न। ३ द. प। ४ द. त्रिव। ५ क. पदत्वात् मु।
६ द. पं। ७ क. वे। ८ क. र्ध। ९ द. र्णा।
मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३०९
इदानीं सर्वतोभद्रः प्रासादः परिकीर्त्यते ॥ २३ ॥
स स्यात् षड्विंशतिं हस्तान् परमः परिमाणतः ।
जठरं बाह्यसीमा च भित्तयो ह्यन्धकारिकाः ॥ २४ ॥
जङ्घोत्सेधश्च कर्णौ च यथा मेरोस्तथा स्मृताः ।
तथैव भद्रविस्तारैः कार्यो भागार्धनिर्गतः ॥ २५ ॥
रथिकैका चतुर्भागा ततेः सार्धद्विभागिका$^३$।
तासां परस्परं ज्ञेयो$^४$ भागभागं विधीयते(?) ॥ २६ ॥
षड्भागात् विस्तृतं कार्य शिखरं सप्तमो$^६$च्छ्रितम् ।
षड्भिर्दशभिर्भागैः स्यान्मूलजा स्कन्धविस्तृतिः( ? ) ॥ २७ ॥
ग्रीवार्धभागमुत्सेधाद्दण्डकं भागमुच्छ्रितम् ।
मूलसूत्रानुसारेण छेदः संयुज्यते यथा ॥ २८ ॥
अस्य रेखा तथा कार्या सर्वश्रेयःप्रसाधनी$^७$
मेरोरस्य च शृङ्गाणि सिंहकर्णैर्विभूषयेत् ॥ २९ ॥
मञ्जरीं पद्मकोशाग्रतुल्यां सर्वत्र कारयेत् ।
जयं लक्ष्मीं यशः कीर्त्तिं सर्वानि(णी)ष्टफलानि च ॥ ३० ॥
करोति सर्वतो भद्रं सर्वतोभद्रकः कृतः ।
सर्वतोभद्रः ॥
चतुरश्रीकृते क्षेत्रे विभागशतभाजिते ॥ ३१ ॥
विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम् ।
भद्रैश्चतुर्भिसतत् कुर्यात् कर्णप्राग्रीवकैस्तथा ॥ ३२ ॥
पञ्चभूमिर्भवत्येष यदि वा त्रिविधं भवेत् ।
हस्ताँ$^{११}$स्त्रिंशद् भवेज्ज्येष्ठो मध्यमः पञ्चविंशतिः ॥ ३३ ॥
स्यादेकविंशतिर्हस्तात् कनीयान् षोडशाथवा ।
जातिशुद्धो भवेदेको मञ्जर्या वै$^{१२}$ परो भवेत् ॥ ३४ ॥
१ क. र्या । २ द. त् । ३ ख. द. काः । ४ क. यो भागं । ५ द. स्तृ° । ६ ख. वो, द. यो ।
७ क. र्वाः, ८ क. नीः । ९ द. कर्णौ वि° । १० द. श्रो । ११ द. स्त । १२ द. च ।
३१० समराङ्गणसूत्रधारे
मिश्रकोऽन्यो विमानानामिति संख्या त्रिधोदिता ।
ज्येष्ठो मिश्रकनिर्माणः स च कौ१लाशभद्रकृत् ( ? ) ॥ ३५ ॥
मध्यमो जातिशुद्धः स्यात् कनीयान् मञ्जरीयुतः ।
पञ्चभागयुतं भद्रं विस्तरेण प्रकीर्तितम् ॥ ३६ ॥
कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसंमितः ।
भागार्धं क्षोभणे४ कार्यं तलिपं तज्जलान्तरं( ? ) ॥ ३७ ॥
गुप्तकर्णं तु कर्तव्यं यदिच्छेल्लक्षणान्वितम् ।
तस्माद् भद्रस्य निष्कंशं( ? ) भागेनैकेन कारयेत् ॥ ३८ ॥
मिश्रकस्य चतुर्भागं भद्रं कुर्याद् विचक्षणः ।
पञ्चभागोच्छ्रिता जङ्घा खुरपिण्डकया सह ॥ ३९ ॥
द्विभा(गा) रथिका कार्या भूमिः स्याच्चतुरंशका७ ।
द्वितीयार्धांशहीना च तृतीया भूमिरिष्यते ॥ ४० ॥
चतुर्थ्य(र्थी) तु त्रिभिर्भागैरर्धहीना तु पञ्चमी ।
उदयो भूमिकाया यः कूटं कुर्यात् तदर्धतः ॥ ४१ ॥
अर्धेन कु८म्भिकां कुर्यादुच्छ्रालंकसमन्विताम् ।
ऊँ१०र्ध्वभवस्तु( ? ) पञ्चम्या वेदिका भागमुच्छ्रिता ॥ ४२ ॥
घण्टा षड्भागविस्तारा कार्या भागद्वयोच्छ्रितां११ ।
घण्टोत्सेधं त्रिभिर्भागैर्विभजेत् तदनन्तरम् ॥ ४३ ॥
भागिकानि प्रकुर्वीत कण्ठग्रीवाण्डकानि च ।
भागं कण्ठप्रदेशैः१२ स्याद् दै१३ण्डिकायाः समुच्छ्रितिः ॥ ४४ ॥
घण्टार्धेन विधातव्या द्विभागा कलशोच्छ्रितिः ।
सूरसेनादिकं सर्वं कर्तव्यं पूर्ववत् तथा ॥ ४५ ॥
भद्रं मनोरमैश्चेह सिंहकर्णैर्विभूषयेत् ।
पञ्च१४न्यासेन सूत्रेण पद्मकोशं समालिखेत् ॥ ४६ ॥
१ द. कै । २ द. व । ३ द. वितः । ४ द. णा कार्या यच्छेषं तद् जलांतरम् ॥ ५ द. दी ।
६ द. ष्का, ७ द. काः, ८ द. स्त° । ९ द. त्का । १० द. ऊर्ध्वं भवतु । ११ द. ताः । १२ द.
शाः । १३ द. च्चद्रि । १४ द. न्या ।
मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३११
लतांतयो(?)भवेदेषां लताभिस्तं प्रकल्पयेत् ।
मिश्रको मिश्रितैरङ्गैः शुद्धः स्याद् भूमिकान्वितः ॥ ४७ ॥
विमानः .।
नन्दनस्य भवेत् सीमा द्वात्रिंशद्धस्तनिर्मितैः ।
अष्टाष्टकविभागेन चतुःषष्टिपदो हि सः ॥ ४८ ॥
भागैश्चतुर्भिर्गर्भोऽस्य शेषं भित्त्यन्धकारिकौ ।
भद्रं गर्भसमं कार्यं तदूर्ध्वेनास्य निर्गमः ॥ ४९ ॥
द्वौ रथौ पार्श्वतो भूयः सर्वतः कर्णसूत्रतः ।
पञ्चभागोच्छ्रिता जङ्घा मेखला भागसंमितौ ॥ ५० ॥
षड्भ(भू)मिरेष भूमिः स्यादेकैका द्वादशांशकैः ।
रेखास्कन्धाण्डकादीनां कैलासे(न) समाकृतिः ॥ ५१ ॥
नन्दनो नन्दयत्येष समृद्ध्या(द्वया) हन्ति चापदः ।
नन्दनः ॥
चतुरश्रीकृते क्षेत्रे पञ्चविं(शनि) हस्तके ॥ ५२ ॥
सूत्रपातं ततः कुर्यात् कर्मोयतमुखायतम्(?) ।
ततः सीमार्थसूत्रेण सम्यग् वृत्तं समालिखेत् ॥ ५३ ॥
ततस्तदष्टाविंशत्या भजेद् भागैर्यथापदम् ।
निर्मापये शालार्धेन(त् तदर्धेन शाला)दिक्सूत्रसंश्रिताः ॥ ५४ ॥
तासां तु मध्यगाः कार्या एकैकस्य रथास्त्रयः ।
अन्ये चार्थरथाः कार्याः शालाकर्णसमाश्रिताः ॥ ५५ ॥
भागषट्कोच्छ्रिता जङ्घा भागार्धेन तु मेखलाः ।
भागेनान्तरपत्रं स्याद् भागं चोदुवृत्तमण्डकम् ॥ ५६ ॥
अर्धभागोच्छ्रिताँ जीवा विष्कम्भेन चतुष्पदाम्(?) ।
शिखरस्योच्छ्रयो भागैरेकादशभिरिष्यते ॥ ५७ ॥
१ द. तु(त्र)। २ द. विस्तृता । ३ द. काः। ४ द. ताः । ५ द. ˚डकाः। ६ द. ˚न्धांश˚।
७ द. ˚र्णा । ८ द. ˚त्ततः शालाः कर्ण˚ । ९ द. प. । १० द. चोच्छ्रितमंडपं ॥ ५० ॥ ११ द. तो ।
१२ द. दाः ।
३१२ समराङ्गणसूत्रधारे
सर्वेषामेव लतिना १मात्रिधा द्विगुणो हि सः (?) ।
विस्ताराद्२ द्विगुणं सूत्रं स्कन्धाद्यं ३चापि षड्गुणम् ॥ ५८ ॥
सुत्तानितं(?) समाकृष्य पद्मकोशं समालिखेत् ।
स पञ्चविंशतिर्हस्ता ज्येष्ठः षोडश मध्यमः ॥ ५९ ॥
कनीयान् द्वादशकरश्छस्यो४( ? ) विजानता ।
ज्येष्ठस्य भागसंख्येयमेतदर्धेन मध्यमः ॥ ६० ॥
मध्यमस्य तथार्धेन कनीयान् भागसंख्यया ।
भागषट्कमिता जङ्घा ज्येष्ठस्य परिकीर्तिता५ ॥ ६१ ॥
सप्तभागोच्छ्रिता सा स्यान्मध्यमे सकनीयसि ।
सर्वेषां लतिनामेष क्षेत्रेण विधिरीरितः६ ॥ ६२ ॥
स्वस्तिकोऽयं समाख्यातः स्वस्तिश्रेयस्करो७ नृणाम् ।
स्वस्तिकः ॥
इदानीं मुक्तकोणस्य सू( ल )क्ष्म ब्रूमः स तु९ त्रिधा ॥ ६३ ॥
षोडश द्वादशाष्टौ च हस्तसंख्या परस्य च ।
ज्येष्ठः षोडशभिर्भागैर्मध्यो१० द्वादशभिर्भवेत् ॥ ६४ ॥
कनीयानष्टभिः प्रोक्तः प्रासादो मुक्तकोणकः ।
मुक्तकोणस्वस्तिकयोरिदमेवान्तरं भवेत् ॥ ६५ ॥
स्वस्तिको वर्तुलस्तत्र चतुरश्रोऽपरः स्मृतः ।
पञ्चभागोन्नता१२ जङ्घा द्वौ भागौ रथिका भवेत् ॥ ६६ ॥
भागैश्चतुर्भिः कर्तव्या द्वितीया तस्य भूमिका ।
येषास्त्वर्धार्धभागेन विधेयास्त( द्व ? )स्य भूमिकाः ॥ ६७ ॥
विधाय नवधा गर्भैस्तै१३स्त्रयोदशभिर्भवेत्११ ।
जङ्घापादोनपञ्चाशैराद्यैकः१४ष्पणिकाँ१५( ? ) भवेत् ॥ ६८ ॥
मुक्तकोणः ।
विस्तारं दशधा कृत्वा षड्भागं मध्यमालिखेत् ।
१ द. मात्स्कंधाद् । २ द. त्रि । ३ द. श्रद्धापि । ४ द ष्ट । ५ द.ः प्रारब्धव्यो विजानता ।
६ द. ताः । ७ द. वीर्°। ८ द. रा । ९ द. क्त । १० द. च । ११ द. ध्ये । १२ द. च्छ्रोन्ना । १३ द.
गर्भं तंत्रयो° । १४ द. जे । १५ द. का। १६ द. शुं° ।
मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१३
१कर्णा द्विभागिको( ? )मध्यं चतुर्धा विभजेत् पुनः ॥ ६९ ॥
तदून्मध्ये कृतौ द्व्यंशौ ३भागिकौ वामदक्षिणौ ।
अङ्गुलीकरसंख्यातैर्विधेयो रथनिर्गमः ॥ ७० ॥
प्राग्ग्रीवैर्विकटैः स्वष्टैः स्तम्भैः ४सद्भूषकर्मभिः( ? ) ।
एवं गुणै५समायुक्तः श्रीवत्सः६ सुखदो भवेत् ॥ ७१ ॥
द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुरङ्गुलमेव च ।
उदकान्तरकं कार्यं श्रीवत्सो नन्दनो(त्से नन्दने)पि च ॥ ७२ ॥
श्रीवत्सः ॥
विस्तारैर्दशधा भक्तैः षड्भा(गा)मञ्जरी भवेत् ।
सर्वतोभद्रवन्मूलकर्णावस्य द्विभागिकौ ॥ ७३ ॥
उदकान्तरमन्य(प्य)स्य श्रीवत्सस्यैवं कल्पयेत् ।
हंसोऽयं कीर्तितः सम्यक् शुभदो लक्षणान्वितः ॥ ७४ ॥
हंसः ॥
रुचकोऽप्येवमेव स्यादुदकान्तरवर्जिता( र्त)म् ।
भित्तयश्चतुरंशेन गर्भो व्या सार्धसंम९तः ॥ ७५ ॥
रुचकः ॥
चतुरश्रीकृते क्षेत्रे विभजेद् दशभिः पदैः ।
विदध्यादर्ध१०मानाख्यं तत्र भ्रान्तमनुक्रमात् ॥ ७६ ॥
भद्रस्यै११ च भवेद् भागैश्चतुर्भिः परिविस्तृतम् ।
एकेनैकेन भागेन द्वौ रथौ वामदक्षिणौ ॥ ७७ ॥
द्विभागविस्तृतौ कर्णौ निर्गमः स्यात् कराङ्गुलैः ।
वर्धमानैः१२ क्रियायुक्तो यशोलक्ष्मीं १३विवर्धयेत् ॥ ७८ ॥
रुचको वर्धमानो वा श्रीवत्सो हंस एव च ।
य एको रोचते तेषु न्यसेत् तं गरुडे सुधीः ॥ ७९ ॥
१ द. कर्णो द्विभागिकौ । २ द. तत्र मध्ये कृतो द्व्यंशो । ३ द. तौ वि० । ४ द. सद्भू० ।
५ द. णः । ६ द. त्सुभवो । ७ द. स्यै । ८ द. तः । ९ द. मितेः । १० द. र्द्धं । ११ द. मस्य ।
१२ द. न । १३ द. च ।
वा. ४०
३१४ समराङ्गणसूत्रधारे
पक्षावेतस्य कर्तव्यौ प्रासादार्थविनिर्गमौ¹।
नासिकां वैनतेयस्य त्रिगर्भां कारयेदपि ॥ ८० ॥
गरुडः ॥
चतुःषष्टिपदे क्षेत्रे प्रासादं विभजेच्छुभम् ।
क्षेत्रार्थेन च सूत्रेण पृष्ठतो वृत्तमालिखेत् ॥ ८१ ॥
भागैश्चतुर्भिर्जङ्घास्य मेखलार्धभागिका ।
पुरतः †सूरसोयं( ? ) पृष्ठतश्च गजाकृतिः ॥ ८२ ॥
गजः ॥
चतुःषष्टिपदः सिंहो भद्रं भागचतुष्टयम् ।
द्व्यंशकौ मूलकर्णौ च गर्भः षोडशभिः पदैः ॥ ८३ ॥
विस्तारार्थे भवेज्जङ्घा मेखला पदिका भवेत् ।
एकैका रथिका चास्य भवेद् भागत्रयोच्छ्रिता³ ॥ ८४ ॥
सर्वतोभद्रवच्चा⁴स्य रेखाग्रीवाण्डकादिकम् ।
सिंहाक्रान्तैस्तथा भद्रैः प्रासादः सिंह उच्यते ॥ ८५ ॥
विक्रमार्जनशीलानां प्रासादोऽयं शुभावहः ।
सिंहः ॥
पद्मस्य हस्तसंख्या स्यात् षोडश द्वादशाथवा ॥ ८६ ॥
वर्तुलः स च कर्तव्यः सूत्रं तु स्वस्तिके यथा ।
सर्वे रथाः स्मृताः पद्मपत्राकृतिमनोरमाः ॥ ८७ ॥
उदकान्तरकं कुर्याच्छ्रेयसे नन्दने यथा ।
पद्मकः ॥
स्वस्तिकस्य यथा पूर्वं कथितं मानलक्षणम् ॥ ८८ ॥
तेनैव §लक्षितः सर्वो( ? )विदधीत विचक्षणः ।
यथामूलविभक्तंस्तु लतिषु स्वस्तिकादिषु ॥ ८९ ॥
१ द. तौ । २ द. सेनोयं । ३ द. ताः । ४ द. त्वस्याद्रे° । ५ द. न । ६ द. या । ७ द.
हराः । ८ द. च्छ्रीवत्से नन्दने । ९ द. लतिनः सर्वान् वि° । १० द. क्ति । ११ द. स्त्रि ।
† ‘सूकराण्योऽयम्’ इति स्यात् । § ‘लतिकाः सर्वा’ इति स्यात् ।
मेर्वादिशोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१३
१यथास्कन्धविभागोऽपि रेखामध्यविभागताः ।
स्वस्तिकाङ्को विधातव्यः शुकनाशो(सो)च्छ्रयाच्छुभः^२ ॥ ९० ॥
प्रासादानां स भागैः स्यात् सप्तभिर्विहितः श्रिये^३ ।
विमाने सं^४ धराय्यंशन्यूनः कार्यों विपश्चिता ॥ ९१ ॥
कैलासो च(साच्च)तुरंशोना विधेना(या) शुकनासिका^५ ।
सर्वतोभद्रसिंहारूयौ मेरूर्णां तु विशेषतः ॥ ९२ ॥
षड्भिर्भागैर्विना कार्या शुकनासा विजानता ।
^६प्रासादोच्चेन सन्धारो विमानाद्याः^७ प्रकीर्तिताः ॥ ९३ ॥
विस्तारार्धेन तद्गर्भो यच्छेषं तेन भित्तयः ।
प्रासाद(सि?)जङ्घो^८च्छ्रयेण तुल्यो गर्भतुलोदयः ॥ ९४ ॥
सभिर्त्तिर्गर्भतुल्यः स्यात् सन्धारेषु^९ तुलोदयः ।
स विधेयः पुनर्व्यासाद् यदि वा किञ्चिदुन्नतः ॥ ९५ ॥
मूलसूत्रं तु दशधा ++^१०(मत्स्य?)समालिखेत् ।
गर्भसूत्रं प्रतिष्ठाप्य सिंहकर्णं प्रकल्पयेत् ॥ ९६ ॥
सार्धभागेन सूत्रेण मध्यमस्य समालिखेत् ।
उरो द्विभाग^११तुल्यं तु मस्तकं भागमुच्छ्रितम् ॥ ९७ ॥
अर्धेन वोच्छ्रयस्तस्याः पक्षोच्छ्रायौ द्विभागिकाः^१२ ।
उरो(लेख्यै?)^१३ च सीमान्ते सूत्रेणच्छन्दमादिशेत् ॥ ९८ ॥
नवधा दशधा चैव सिंहकर्मा(र्णा)वुभौ स्मृतौ ।
एकषड्विस्तृतो भागा(?) उद्द्यात् पञ्चभागिकः^१४ ॥ ९९ ॥
सूरसेनो द्वितीयस्तु खात् समोदयविस्तृतिः
उदयात् सार्धविस्तीर्ण^१५ सिंहकर्णत्रिसंकुला^१६(?) ॥ १०० ॥
कामलान् मल्हकांश्चान्यान् सिंहकर्णात् प्रलोप(कल्प)^१७येत् ।
प्रासादानां हि सर्वेषां सर्वमेतद् विभूषणम् ॥ १०१ ॥
१ द. त । २ द. यः शुभः । ३ द. यै । ४ द. शिखरा त्र्यंश न्यून° । ५ द. काः ।
६ द. स्य । ७ द. प्रसादा येन संधारा° । ८ द. ग । ९ द. सा । १० द. कृत्वा मत्स्यं । ११ द. यो ।
१२ द. कः । १३ द. ॰ख्ये । १४ द. दु । १५ द. र्णा । १६ द. संकलाः । १७ द. न् प्रलेपयेत् ॥ ।
३१६ समराङ्गणसूत्रधारे
यस्य यत्रोचितं स्थानं तत् तत्र विनिवेशयेत् ।
निर्मितौ^१ वलभेस्तिर्यक् सूत्रं कुर्वीत सप्तधा ॥ १०२ ॥
पञ्चभागांश्च मुखतस्तेनैवांशेन कल्पयेत् ।
मेखलान्तरपत्रे च जम्भाकुम्भकमेव च ॥ १०३ ॥
पञ्चभागोच्छ्रितं कुर्यात् तद्वच्छिखरमुच्छ्रितम् ।
कीर्तितानि विमानानि यान्येव सुरवर्त्मनि ॥ १०४ ॥
तान्येव स्थावरत्वेन प्रासादा इति विश्रुताः ।
महेश्वरस्य कैलासो विष्णोस्तु^३ गरुडाभिधः ॥ १०५ ॥
कार्यः प्रजापतेः पद्मो गणनांथस्य च द्विपः ।
न खल्वेतेऽन्यदेवानां विधातुमुचिताः स्मृताः ॥ १०६ ॥
यस्तु त्रिविष्टपः स स्यात् सर्वदेवनिकेतनः ।
अस्मात् तु येऽन्ये प्रासादाः स्मृतास्तेऽनेकरूपिणः ॥ १०७ ॥
सर्वेषामेव देवानामभेदेन भवन्ति ते ।
जगत्यां^४ विस्तारः कार्यः प्रासादोच्छ्रयसंमितः ॥ १०८ ॥
गर्भाधैनोच्छ्रयस्तस्याः^५ शुभदः परिकीर्तितः ।
मण्डपस्य षडंशाधो( ? ) पञ्चमांशार्दथ^६ स्मृतः ॥ १०९ ॥
कर्णप्रासादकाः कार्याः प्रासादस्य त्रिभागतः ।
पूर्वापरमुखाः कार्या एते^८ याम्योत्तराननाः ॥ ११० ॥
ऐन्द्रे याम्ये वारुणे च कौबेरे च यथाक्रमम् ।
दिग्भागेषु चतुर्ष्वेषां वलभीं ^१०विनिवेशयेत् ॥ १११ ॥
गर्भविस्तारविस्तीर्णौ द्वौ त्रिभागौ मुखायतम् ।
इति बाह्यपरीवारे जङ्घा प्रासादमानतः ॥ ११२ ॥
तीर्थायतमारोप्य सूत्रं गर्भेण मण्डपे ।
(गुरुपक्षोऽर्थे ? ) कर्तव्या गवाक्षस्तम्भसंयुताः ॥ ११३ ॥
१ द. निष्पत्त्यैव लभेति° । २ द. जंघा । ३ द. श्व । ४ द. जगत्या विस्तृतः । ५ द. °स्य ।
६ द. °शाद्वा । ७ द. व । ८ द. नैते । ९ द. र्थे । १० द. च । ११ द. वास्य° । १२ द. °क्षाप्र° ।
मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१७
प्रासादविस्तरात् कार्यो द्विगुणो मण्डपः सदा ।
मण्डपस्यस्(स्व)विस्तारा(द)ज्जगती द्विगुणा बहिः ॥ ११४॥
कर्णप्रासादकाः कार्याः प्रासादस्यार्धतोऽपि वा ।
तेषामध्यर्धतः कुर्याद् वलभीनां निवेशनम् ॥ ११५॥
अनेन क्रमयोगेन बाह्याद् बाह्यं सुसंवृतम् ।
यदा(था) हि शोभते राजा केयूराङ्गदकुण्डलैः ॥ ११६॥
तथा प्रासादराजोऽयं शोभते भूषणैर्निजैः ।
ध्वास्याँहॉस्यातिसौम्यस्य(?) श्रीकीर्तिविजयावहः ॥ ११७॥
अनेन विधिना न्यस्तः प्रासादः स्यात् सदा नृणाम् ।
आदित्यं पूर्वतो न्यस्येत् कुमारं पूर्वदक्षिणे ॥ ११८ ॥
दक्षिणे मातृदेवै(वाँ)स्तु गजास्यं दक्षिणोपरि ।
विन्यसेद् वारुणे गौरीं वायव्येऽपि च चण्डिकाम् ॥ ११९॥
विष्णुं कुबेरदिग्भागे तथैशान्यं महेश्वरम् ।
अन्येषामपि देवानां कथ्यते तु क्रमोऽधुना ॥ १२० ॥
तत्रैशान्यं दिशि न्यस्येदीशामं लोकनायकम् ।
दानवानां निहन्तारं पूर्वस्यामपि वासवम् ॥ १२१ ॥
वैश्वानरं तथाग्नेय्यां धर्मराजं च दक्षिणे ।
नैरृत्यां निर्ऋतिं न्यस्येत् प्रतीच्यां तु प्रचेतसम् ॥ १२२ ॥
वायुं वायव्यदिग्भागे कुवेरमपि चोत्तरे ।
अष्टौ ह्येते महात्मानो लोकपालाः प्रकीर्तिताः ॥ १२३॥
पालयन्ति जगत् सर्वं स्वस्वस्थाने प्रतिष्ठिताः ।
पुर(कर्कट ? कर्वट)दुर्गेषु ग्रामेषु नगरेषु च ॥ १२४॥
क्रमेणानेन विन्यस्ताः स्युः प्रजानां सुखावहाः ।
न यत्र देवताबाधस्तत्र द्वारं प्रकल्पयेत् ॥ १२५ ॥
१ द. तु । २ द. ज्ज । ३ द. ᵒका कार्या । ४ द. ध्वजाक्रश्वातिसौम्यश्च श्रीकीर्त्तिर्विᵒ । ५ द. वी ।
६ द. ᵒणापरे । ७ द. री । ८ द. भवे । ९ द. ईशान्यं दिशि विᵒ । १० द. ᵒन्तु । ११ द. कर्वर्ᵒ ।
३१८ समराङ्गणसूत्रधारे
प्रासादस्यानुसारेण भवेद् द्वारं शुभावहम् ।
अथातः प्रोच्यते सम्यग् द्वारमानमनुक्रमात् ॥ १२६ ॥
ज्येष्ठमध्यकनिष्ठानां द्रव्यं² स्तम्भानुसङ्गतम् ।
एकहस्ते भवेद् द्वारं प्रासादे षोडशाङ्गुलम् ॥ १२७ ॥
द्विकरे द्विगुणं तत् स्यात् त्रिकरे द्विकरं शुभम् ।
चतुष्करे चतुःषष्टिरङ्गुलानि प्रशस्यते ॥ १२८ ॥
अत ऊर्ध्वं प्रतिकरं त्र्यङ्गुला वृद्धिरिष्यते ।
द्वारोदयकरैस्तुल्यान्यङ्गुलानि नियोजयेत् ॥ १२९ ॥
( पोह्यांजयन्यान्यार्ध ? ) ध्रुवके चतुर( र ? )ङ्गुले ।
विस्तारो द्विगुणस्तस्य स्तम्भपिण्डं स एव हि ॥ १३० ॥
एकद्वित्रिचतुष्पञ्चषट्सप्तककरावधिं⁵ ।
द्वारविस्तारभागेन स्तम्भः सम्यग् विधीयते ॥ १३१ ॥
चतुर्भागेन कर्तव्या सीमास्तम्भः प्रमाणतः( ? ) ।
तथा स्तम्भस्य बाहुल्याच्चतुर्भागविभागविनाँ ( ? ) ॥ १३२ ॥
+⁸ भागौ तत्र कर्तव्यौ हीरग्रहणमुच्छ्रितम् ।
भागत्रयेण कर्तव्यः पट्टस्य च समुच्छ्रयः ॥ १३३ ॥¹⁰
भागेनैकैन नीश्यानव्यविस्तारं भत्रिभागरुद्यकिम् ( ? ) ।
पट्टहस्ते विधातव्यमङ्गुलद्वयनिर्गमम् ॥ १३४ ॥
+¹² ऽ + + + + स्तारः स्तम्भतुल्यः प्रशस्यते ।
एकैकमङ्गुलं ( लौं ? )पट्टपार्श्वयोरधिकस्ततः ॥ १३५ ॥
पट्टै¹⁴दस्य विस्तारः( ? )कार्यश्चतुर्भागविभाजितैः ।
भागेनैकैन चोत्सेधस्तुलाधारणमिष्यते ॥ १३६ ॥
१ द. मुपक्रं । २ द. व्य । ३ द. पेया बाह्त्य सेन्यर्थ धुं । ४ द. ण्ड । ५ द. धिः ।
६ द. म्मप्रं । ७ द. विभाजितौ । ८ द. द्वौ भागौ तत्र कर्तव्यं । ९ द. पदस्य । १० द. स्तंभपिंडत्रि-
भागेन पदस्य यदि वोच्छ्रयः । ११ द. भागेनैकैन तीरं स्याद्द्वास्तंभत्रिभागिकं । पदतस्तद्विधातव्यं त्र्यंगुल-
द्वयनिर्गमम् ॥ १२ द. स्तंभशीर्षस्य विस्तारः । १३ द. पाट्ः । १४ द. पदस्य विस्तरः काँ ।
१५ द. तान् ।
मेर्वादिषोडशप्रासादादिलक्षणं नाम पञ्चपञ्चाशोऽध्यायः । ३१९
तुलाधारणकोत्सेधाच्चतुर्भागविभाजितात् ।
भागमेकं परित्यज्य पिण्डस्तस्य विधीयते ॥ १३७ ॥
मात्राहीना भवेन्मेढ्यां तावन्न्यस्येच्छलान्तले (?) ।
द्वौ भागौ मूलभागेन जयन्तीपिण्डविस्तरौ ॥ १३८ ॥
इति हीरग्रहादीनां समासाल्लक्ष्मकीर्तनम् ।
पञ्चांशाभ्यधिकं स्तम्भविस्तारस्थेन कुम्भिका (?) ॥ १३९ ॥
कुर्वीत स्तम्भतः सार्धा गर्गे(?)कुम्भस्य विस्तृतः ।
अथवा स्तम्भकर्णेन स्तम्भाग्राद्विगुणा क्वचित् ॥ १४० ॥
पादोनस्तम्भविस्तारादग्रकुम्भे समुच्छ्रितिः ।
स्तम्भविस्तारकर्णाद् वा यद्वा पिण्डोऽग्रकुम्भके ॥ १४१ ॥
तस्य भागान् प्रवक्ष्यामो यथाकुम्भं स युज्यते ।
विभक्तोऽत्र त्रिधा पिण्डो भागेनैकेन पुत्तली ॥ १४२ ॥
चतुर्भिस्तस्य मध्यस्थं (यखं ?)पद्मं समालिखेत् ।
उच्छ्राले पञ्चधा भक्ते त्रिभिरात्र्तनं + + ॥ १४३ ॥
वर्तनं योषन्त्येत्(?) किञ्चिन्न च खत्वं समाचरेत् ।
वर्तने कुम्भकुम्भौ तु सूत्रं दत्त्वा सुतानितम् ॥ १४४ ॥
पद्मनालौसमा स स्यान्न भवेत् पङ्क्तिवर्जितौ (?) ।
नवाध्रोच्छाहा(?)लके भक्ते वीरगण्डस्तु भागिकैः ॥ १४५ ॥
एकेनैकेन भागेन विधेयाँ पट्टिकाद्विका ।
१६(ध्वसंस्राकाल ?)कर्णव्यं भागद्वितयसंमितम् ॥ १४६ ॥
तलकुम्भकपिण्डं तु पञ्चधा प्रविभाजयेत् ।
भागेनैकेन पद्मं स्याद् भागेन कलशं लिखेत् ॥ १४७ ॥
१ द. ढ्या तां च न्यस्येच्छलाखले । २ द. ॰र्तिंतं । ३ द. पंचास्याभ्यं । ४ द. ॰रस्तेन
कुंभिकाः । ५ द. मग्रं । ६ द. ॰तिः । ७ द. म्मः स युज्यते । ८ द. विभक्तानवधा पिंडदान्भागेनैकेन
त्रुवती । ९ द. मध्यं स्याच्छेलां पद्मा सं० । १० द. त्यां । ११ द. वर्न० । १२ द. ॰यक्षौ । १३ द. ल ।
१४ द. ताः । १५ द. ॰धो कालके । १६ द. दका । १७ द. विधेयं पट्टिकाद्वयं । १८ द. कालकं
तथ कर्त्तव्यं ।
३२० समराङ्गणसूत्रधारे।
द्वाभ्यां समालिखेत् कुम्भं भागेनैकेन पट्टिकाम् ।
वर्तमानां चत्रा(?)कार्या शोभा स्यादस्य यावतैः ॥ १४८ ॥
एष कुम्भक्रमः प्रोक्तः स्तम्भपादे व्यवस्थितः ।
तैलपट्टस्य पिण्डस्तु भागपट्टसमो भवेत् ॥ १४९ ॥
द्रव्येष्वत्र हि सर्वेषु सम्यक् शोभा ४विवक्षिता ।
न्यूनातिरिक्त मप्यस्मान्मानेष्वङ्गलमाचरेत् ॥ १५० ॥
द्वारामुदयविस्तारो द्रव्यसंस्थानमेव च ।
पूर्वमेव यथोद्दिष्टं (य ? त )था सर्वमनुस्मरेत् ॥ १५१ ॥
पिण्डेन त मूलशाखायां द्वितीया र्प विधीयते ।
संपाद्यते सपादेन प्रत्ययदेनाथ सार्धनरूपशाखा प्रशस्यते(?)॥१५२॥
अर्धेन मूलशाखाः समा चैव बाह्यशाखा शाखां प्रकल्पयेत्(?) ।
ऊर्ध्वपञ्चमशाखाया (दु ?) सप्तमी नवमी च सा ॥ १५३ ॥
रूपशा ९+ + + स्यान्न न्यूना नाधिकापि च ।
१०विस्तारार्धं तु कर्तव्यः सर्वांसामेव निर्गमः ॥ १५४ ॥
शाखाविस्तारविस्तीर्णा(नु ? न्यु )त्तरङ्गानि कारयेत् ।
सार्धेन ध्रुवशाखानां पिण्डेनोदुम्बरोदयः ॥ १५५ ॥
उदुम्बरस्य पिण्डेन सिंहवक्त्राणि कारयेत् ।
तदर्धं विलसन्धिः १३ स्यात् तत्समा भूमिरङ्गिका ॥ १५६ ॥
तलन्याससमः पट्टः पिण्डपूर्वव्यवस्थितः ।
कूटाकारैर्विचित्रैश्च शोभनै रूपकर्मभिः ॥ १५७ ॥
पत्रजातैरनेकैश्च कण्ठं कुर्याद् यथेप्सितम् ।
पाचकः कटुतीक्ष्णाद्यैरनुसाररसैर्यथा ॥ १५८ ॥
१ द. ॰नोवताकार्या । २ द. ता । ३ द. तलपट्टस्य पिंडे तु भारपदसमो भवेन् ॥ ४ द. व्यव-
स्थिताः । ५ द. या । ६ द. पि । ७ द. सपादेनाथा सार्धेन रूप॰ । ८ इ. अर्द्धेन मूलशाखाया
खल्वशाखा तु विस्तृताः ॥ ४७ ॥ रूपशाखा समाचैव वाह्यशाखां प्रकल्पयेत् । उर्ध्वं पंचमशाखाया सप्तमी
नवमी च या ॥ (अर्धेन मूलशाखाः ... नवमी च सा ॥ १५३) मुद्रित पाठः । ९ द. ॰शाखा समासा
स्यान् । १० द. स्व विस्तारार्द्धा तु । ११ द. ॰याः । १२ द. चक्राणि । १३ द. न्धी । १४ द. तें ।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३२१
अन्वीक्ष्य विपचेत् तद्वत् स्थपतिः सर्वमाचरेत् ।
यदुक्तं यदनुक्तं च तत् समग्रमपि स्फुटम्¹ ॥ १६९ ॥
(युक्ता)²युक्तं समालोच्य यथाशोभं समाचरेत् ।
आरभ्य मेरोरिति षोडशैते प्रासादमुख्याः कथिता यथावत् ।
संक्षेपतो लक्ष्म तथा जगत्यां द्वारादिसम्बन्धि च(द्वा ?)
दारुमानम्४ ॥ १७० ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारऽपरनाम्नि वास्तुशास्त्रे
मेर्वादिशोडशप्रासादलक्षणं जगतीलक्षणं द्वारादिकला नाम
( पञ्चमो ? पञ्चपञ्चाशो )ऽध्यायः ॥
अथ रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः ।
अथान्तः सम्प्रवक्ष्यामि प्रासादाञ् शिखरान्वितान् ।
रुचकादींश्चतुःषष्टिं नामलक्षणतः क्रमात् ॥ १ ॥
पूर्वं यानि विमानानि पञ्चोक्तान्यभवंस्ततः ।
तदाकारभृतः सर्वे प्रासादाः पञ्चविंशतिः ॥ २ ॥
शिखरैर्विविधाकारैरेकेनाण्डेन भूषिताः ।
केचिदण्डत्रयोपेताः केचित् पञ्चाण्डकान्विताः ॥ ३ ॥
ईषद्भेदेन ते ज्ञेयाः प्रासादाः सर्वकामदाः ।
सौवर्णा राजताश्चैव देवानां सततं प्रियाः ॥ ४ ॥
मणिमुक्ताप्रवालाद्यैर्भूषणैः सुविभूषिताः ।
रीतिकाताम्रघोषाद्यैः पिशाचोरगरक्षसाम् ॥ ५ ॥
देवलोका भवन्त्येते कामस्वच्छन्दचारिणः ।
पाताले चापि निर्दिष्टाः पाषाणैः स्फटिकैस्तथा ॥ ६ ॥
१ द. स्फटं । २ द. मुक्तामुक्तं । ३ द. न्या । ४ द. नाम् । ५ द. णं । ६ द. णं ।
७ द. पूर्वं । ८ द. राँ ।
वा. ४१
३२२ समराङ्गणसूत्रधारे
इष्टकाकाष्ठपाषाणैर्मर्त्यलोकेऽपि नन्दकाः ।
सुखदाश्च भवन्त्येते कर्तुः कारयितुस्तथा ॥ ७ ॥
लक्षणेनान्वितानेतान् कथयामो यथाविधि ।
पुराणां भूषणार्थाय भुक्तिमुक्तिप्रदा नृणाम् ॥ ८ ॥
रुचको भद्रकश्चैव हंसो हंसोद्भवस्तथा ।
प्रतिहंसस्तथा नन्दो१ नन्द्यावर्तो धराधरः ॥ ९ ॥
वर्धमानोऽद्रिकूटश्च श्रीवत्सोऽथ त्रिकूटकः ।
मुक्तकोणो गजश्चैव गरुडः सिंह एव च ॥ १० ॥
भवश्च विभवश्चैव पद्मो मालाधरस्तथा ।
वज्रकः स्वस्तिकः शङ्कुर्मलयो मकरध्वजः ॥ ११ ॥
इत्येते नामतः प्रोक्ताः प्रासादाः पञ्चविंशतिः ।
एतेषां रूपनिर्माणं कथयामो यथाविधि२ ॥ १२ ॥
रुचका(द्ये३)ष्टादशैषां चतुरश्राः प्रकीर्तिताः ।
भवश्च विभवश्चैव चतुरश्रायतनोऽथर्वा४ ॥ १३ ॥
पद्मो मालाधरश्चैव वृत्तावेतावुदाहृतौ ।
मलयो मकराँ५ख्योऽथ द्वौ तु वृत्तायताविमौ ॥ १४ ॥
वज्रकः स्वस्तिकः शङ्कुरित्थमष्टाश्रयस्त्रयः ।
ललिताँ६: कथिता ह्येते ब्रूमोऽन्यान मिश्रकानथ ॥ १५ ॥
सुभद्रो यौ७किटश्च(?) सर्वतोभद्र एव च ।
सिंहकेसरिसंज्ञोऽन्यश्चित्रकूटो धराधरः८ ॥ १६ ॥
तिलकाख्यः९ श्वेततिलकस्तथा सर्वाङ्गसुन्दरः ।
नवामी मिश्रकाः प्रोक्ताः कथ्यन्ते (सांध१०कारिकाः ?) ॥ १७ ॥
केसरी सर्वतोभद्रो नन्दनो नन्दि११शालकः ।
नन्दीशो१२ मन्दिराख्यश्च श्रीवृक्षश्चामृतोद्भवः ॥ १८ ॥
१ द. न्द । २ द. धिः । ३ द. ˚द्याः षोड˚ । ४ द. तौ तथा । ५ द. मकरांकोऽथ । ६ द.
लतिनः कं । ७ द. ˚द्रोऽथ किरीटश्च सं˚ । ८ द. ˚र । ९ द. श्रीति˚ । १० द. सां˚ । ११ द.
नन्दशा˚ । १२ द. नँदशो मंद˚ ।