समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
२२० ·समराङ्गणसूत्रधारे।
ऐन्द्रीं प्रति नतः कीलो धनसम्मानकारकः ।
आग्नेय्यां प्रणते कीले भवत्यग्निभयं महत् ॥ ५८ ॥
याम्यायां मरणं राज्ञां दिशि राक्षसतो भयम् ।
धननाशस्तु वारुण्यां वायव्यां रोगतो भयम् ॥ ५९ ॥
सौम्यं सौम्योऽनते राजप्रसादाद्येशतो गतः ।
कीलके कूर्चके जाते पुत्रपौत्रान्वयैर्गृहे³ ॥ ६० ॥
परमामुद्धिमाप्नोति धनधान्यैश्च वर्धते ।
हन्यमानो⁴ यदा यत्नात् कीलः कश्चिदपि स्फुटेत् ॥ ६१ ॥
नांशं विद्यात् तस्य पत्न्या ज्येष्ठस्य तनयस्य वाँ ।
यदि भज्येत कीलः खात् स्वामिनो जायते वधः ॥ ६२ ॥
यदा कीलः पतेद्धस्ताद् भ्रंशः स्यात् स्थपतेस्तदा ।
हस्तभ्रष्टश्च(?) स भवेदष्ठीले हस्तविच्युते⁹ ॥ ६३ ॥
सुखेन हन्यमानश्चेत् कीलः स्वस्थो न जायते ।
अष्टौ प्रहारानपरांस्तस्य दद्यात् तदा पुनः ॥ ६४ ॥
स्रग्गन्धधूपोपहारैः कुर्यांच्चै¹¹ परिषेचनम् ।
इदं¹² साम महापुण्यं परिचिन्त्य¹³ समासतः ॥ ६५ ॥
त्रैशोकं¹४ तु जपेद् विद्वान् यावच्छङ्कभिषेचनम् ।
गत्वाथ नैर्ऋतीमाशां ततः शङ्कं निवेशयेत् ॥ ६६ ॥
ऊर्णायवेन¹⁵ ¹⁶ साम्नास्य सम्यक्¹⁷ स्नपनमाचरेत् ।
वायोर्दिशं ततो गत्वा तत्र शङ्कं निवेशयेत्¹⁸ ॥ ६७ ॥
१ ख. ग. च गते; द. °गते कीले । २ द. °म्यागतो राज्ञप्रं । ३ द. हैः। ४ द. °नं यदा मत्तान् । ५ द. भासं विंद्या तं° ६ ख. च । ७ क. लस्यात् । ८ क. स्य । ९ द. °विद्युते ।
१० क. लतुस्थो; द. कीलतुस्था न जां° । ११ द. °च्च कतिषे॑ । १२ द. इदं मास महापुण्यं· परिवर्त्य । १३ क. वर्त्य स । १४ द. वै श्लोकं तज्जपेद्वि° । १५ द. औत्तार्थ्य वेनशाम्नासम्पक् ।
१६ क. यवेशन; ख. र्यवेन । १७ क. प्राग्वत् (स्नानं स) मोच । १८ द. निवेश्य च ।
कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । २२१
अभिषेकं महारत्नसाम्ना तस्य समाचरेत् ।
अथैशानीं दिशं गत्वा शङ्कं तस्यां निवेशयेत् ॥ ६८ ॥
भाग्रेण१ साम्ना कुर्वीत प्राग्वत् तस्याभिषेचनम् ।
ततोऽनु सूत्रं बध्नीयात् सव्यं२ द्विगुणवेष्टितम् ॥ ६९ ॥
प्रदक्षिणं प्रसार्यैतदुक्तः शङ्कक्रमो यथा ।
म(बं३)ध्यमानं यदा सूत्रं शङ्कुः४ किमपि५ मुञ्चति ॥ ७० ॥
तदा पुत्रवधं विद्याच्छिन्नं स्वस्वामिमृत्यवे६ ।
तस्माद् यत्नः प्रकर्तव्यो यावत् सूत्रं प्रसार्यते७ ॥ ७१ ॥
चतुर्णामपि बाहूनां पोषं(?)छिन्नं न दुष्यति ।
सूत्रं प्रसार्य वितरेच्चरूंन्८ पूर्वं प्रकल्पितान् ॥ ७२ ॥
स्वेषु स्वेषु ततः स्थानेष्वनेन विधिना बुधः ।
शङ्कुस्थानेषु दातव्याः सिताद्याश्चरवः क्रमात् ॥ ७३ ॥
प्राग्दक्षिणस्या विदिशो९ मन्त्रं चेमं हृदा जपेत्१० ।
मारुतानां च सर्वेषां मौनवानां११ तथैव च ॥ ७४ ॥
बलिं तेषु प्रयच्छामि मन्त्रेण परिमन्त्रितम् ।
रक्तं बलिमुपादाय नैर्ऋत्यभिमुखस्तथा ॥ ७५ ॥
नैर्ऋत्यधिपतिश्चैव नैर्ऋत्यां ये च राक्षसाः ।
बलिं तेषु प्रयच्छामि रक्तमोदनमुत्तमम् ॥ ७६ ॥
कृष्णं१२ बलिमुपादाय गत्वा च दिशमानिलीम्१३ ।
नमस्ते नागराजाय ये चान्ये तं समाश्रिताः ॥ ७७ ॥
बलिं तेषु प्रयच्छामि कृष्णमोदनमुत्तमम् ।
बलिमुद्धृत्य हारिद्रमैशानीमाश्रयेन्१४ दिशम् ॥ ७८ ॥
१ द. भागेण । २ द. सत्यं । ३ द. मं० । ४ ख. ग. कुः । ५ द. कमपि । ६ द.
विद्याच्छिन्नसुस्वामि० ७ क. र्येत् । ८ द. च्चनून् । ख. ग. नू । ९ क. र्वि १० द. जयेत् ।
११ द. मरुतानां तं० । १२ द. कृष्णां १३ द. ०लिन् । १४ ख. ग. येन् दि; द. ०येद्दिशम् ।
१२२ समराङ्गणसूत्रधारे
नमो रुद्रेषु सर्वेषु ये चान्ये तान् समाश्रिताः ।
प्रयच्छामि बलिं तेषां हारिद्रौदनमुत्तमम् ॥ ७९ ॥
एवमेतान् बलीन् सर्वान् यथावत् प्रतिपादयेत् ।
ततः कुम्भोदकं पुण्यं साम्ना दिव्येन मन्त्रयेत् ॥ ८० ॥
वामदेव्येन कुर्वीत प्रोक्षणं तेन वास्तुनः ।
द्रुमा विप्रादीनामिति निगदिताः शङ्कुघटने
फलं यच्छङ्कोश्च स्फुटमिह निमित्तानि बहुशः ।
तथा सूत्राताने विधिरनु च मन्त्रैः प्रतिदिशं
बलिः कीलेषूक्तस्त्रिदशपरितोषाय विधिवत् ॥ ८१ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः ॥
अथ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः ।
इदानीमभिधास्यामो वास्तुसंस्थानमातृकाम् ।
निवासहेतवे सम्यक् सर्वकर्मोपजीविनाम् ॥ १ ॥
चतुरश्रं समं †साचि दीर्घं वृत्तं च शम्बुकम् ।
शकटाक्षं भगादर्शवज्रकन्थाकृतीनि च (?) ॥ २ ॥
छिन्नकर्णं विकर्णं च शङ्खाभं क्षुरसन्निभम् ।
शक्त्याननं कूर्मपृष्ठं सदंशं व्यजनाकृति ॥ ३ ॥
शरावस्वस्तिकाकारं मृदङ्गपणवोपमम् ।
विशर्करं कबन्धाभं यवमध्यसमाकृतिं ॥ ४ ॥
१ द. हं° । २ द. ॰देवेन । ३ द. यत्स° । ४ द. नितांतं । ५ द. पातोव्यायो सप्तत्रिंशः
॥ छ ॥ ६ द. संभुकं । ७ द. च संयातं । ख. ग. संयातं । ८ ख. ग. द. ‘संक्षामनं’। ९ द.
°रे । १० द. तिः ।
† पूर्वाध्यायोन्तिमश्लोकादारभ्या चत्वारिंशाध्यायावसानात् क. पाठो लुप्तः, ख. गयोस्तु
विनियोगे ‘शेष्य’ति पठ्यते ।
वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः । २२३
उत्सङ्करा(ग)जदन्ताभे तथा परशुसन्निभम् ।
विस्रावितं च श्वभ्रं च ‡प्रलम्बं च विवाहिकम् ॥ ५ ॥
त्रिकुष्ठं पञ्चकुष्ठं च परिच्छिन्नं तथापरम् ।
दिक्स्वस्तिकाभं श्रीवृक्षं वर्धमानसमाननम् ॥ ६ ॥
एणीपदं नैरपदं चत्वारिंशत् समासतः ।
क्षेत्राण्युक्तान्यथामीषां विनियोगो विधीयते ॥ ७ ॥
चतुरँस्रे समे राजा शय्याकारे पुरोहिताः ।
दीर्घे कुमारकाः सेनापतिर्वृत्तायते वसेत् ॥ ८ ॥
वसेयुः शम्बुकाकारे सर्वे वाहाः सुखार्थिनः ।
अन्तःपुरं सन्न समे वाणिजाः शकटाकृतौ ॥ ९ ॥
वेश्यास्तु भगसंस्थाने दर्पणाभे सुवर्णकृत् ।
संस्थानतो वज्रसमे जना नगरगोष्ठिकाः ॥ १० ॥
वसेयुः §शङ्खसंस्थाने क्षेत्रे पुत्राभिलाषिणः ।
छिन्नकर्णे महामात्रा विकर्णे मृगलुब्धकाः ॥ ११ ॥
शङ्खाभे चैकहश्वानो गणाचार्याः क्षुरोपमे ।
व्रता(जा)ध्यक्षः शक्तिमुखे कूर्मपृष्ठे तु मालिकाँः ॥ १२ ॥
सदर्शौ सौचिका वाजिपोषिका व्यजनोपमे ।
तक्षाणश्च शरावाभे स्वस्तिके वन्दिमागधाः ॥ १३ ॥
पणवाभे मृदङ्गाभे वेणुसूर्यादिवादकाः ।
विशर्करे१२ तु रथिनः कबन्धप्रतिमे पुनः ॥ १४ ॥
नीचाः श्वपाकाश्च यवप्रतिमे धान्यजीविनः ।
उत्सङ्गे श्रमेणा हस्त्यारोहिणो रा(ग)जदन्तके ॥ १५ ॥
१ द. न्निभां । २ द. नवपदं । ख. ग. व । ३ द. रस्त्रे । ४ द. विं । ५ द. वसेच्च ।
६ द. लं । ७ द. का । ८ द. ंशे सूचि । ९ द. विं । १० द. तक्षणां ख सरावाने । ख. ग.
'क्षणाश्च' । ११ द. र्या च वादिकाः । १२ द. र्कमे; ख. ग. 'मे'। १३ द. श्रवणा ।
१४ द. राजदन्तिके ।
‡ विनियोगे पुनरिदं न वक्ष्यने । § उपर्थपीदं विनियुक्तम् ।
२२४ समराङ्गणसूत्रधारे
परशुप्रतिमे क्षेत्रे बन्धनागारिणो जनाः ।
विस्राविणि सुराकाराः श्वभ्राभे कर्मकारिणः ॥ १६ ॥
युगले नापिताः स्वाविवाह्ये¹(?)कोशरक्षिणः ।
त्रिकुष्टे पञ्चकुष्टे च वसेयुर्वह्नि²जीविनः ॥ १७ ॥
समन्ततः *परिच्छन्ने सर्वे मानोपजीविनः ।
दिक्स्वस्तिके तु चैत्यानि कुर्याद् वासांश्च सर्वशः ॥ १८ ॥
श्रीवृक्षप्रतिमे³ वृक्षान् यज्ञवाटांश्च कारयेत् ।
वर्धमानाकृर्तिमुखे⁴ऽप्येतानेव प्रकल्पयेत् ॥ १९ ॥
एणीपदे तु गणिकौश्चौरान् नरपदोपमे⁵ ।
इत्युक्ताः शुभर्दा⁶ वासाः सर्वकर्मोपजीविनाम् ॥ २० ॥
कर्मोपजीविजनवासनिमित्तमेताः
क्षेत्राकृतीरभिहिताः⁷ प्रविमृश्य तेषाम् ।
वेश्मानि कारयति यः स्थपतिर्यथाव-
न्मान्यः स कस्य न भवेदिह भूमिपृष्ठे ॥ २१ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
वास्तुसंस्था⁸(प?)नमातृकानामाष्टात्रिंशोऽध्यायः ॥
अथ द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः ।
गृहाण्युक्तानि सर्वेषामेवं कर्मोपजीविनाम् ।
वर्णिनां च गृहस्थानां कथ्यन्तेऽतः परं यथा ॥ १ ॥
भल्लाटे धनदे यद्वा चरके पृथिवीधरे ।
ब्राह्मणस्य भवेद् वेश्म माहेन्द्रद्वारमुत्तमम् ॥ २ ॥
१ ग. स्वाधि वा; द. °धि°। २ द. वसेत्पूर्वाहि°। ३ द. मा। ४ द. कृतिर्मुख्येऽप्ये-
तान्येव। ५ द. °काचोरोत्तरपदोपमाः। ६ द. °टा। ७ द. विरचिताः। ८ द. °स्थापन°।
९ द. °मिव।
- 'परिच्छिन्नामि' ति लक्ष्ये पठितम्।
द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः । २२१
माहेन्द्रेऽर्केऽथ सत्ये वा आर्यके^१ वा निकेतनम् ।
कार्यं गृहक्षतद्वारं क्षत्रियस्य शुभावहम् ॥ ३ ॥
याम्ये वैवस्वते वापि गान्धर्वेऽथ गृहक्षते ।
वैश्यस्य भवनं कार्यं द्वारं पुष्पादह्वये शुभम् ॥ ४ ॥
वारुणे पौष्पदन्ते वा यद्वा मैत्रेऽथवासुरे ।
शूद्रस्य सदनं कार्यं भल्लाटद्वारमुत्तमम् ॥ ५ ॥
विप्राणां प्राङ्मुखं वास्तु गृहं स्याद् दक्षिणामुखम् ।
वर्धते धनधान्येन पुत्रपौत्रैश्च नित्यशः ॥ ६ ॥
दक्षिणाभिमुखं वास्तु भवनं पश्चिमामुखम् ।
क्षत्रियस्य धनं धान्यं विक्रमश्चेह वर्धते ॥ ७ ॥
वास्तुनः पश्चिमं^२ द्वारं भवनस्योत्तरामुखम् ।
तत्रैधते धनैर्धान्यैः पुत्रपश्वादिभिश्च विट् ॥ ८ ॥
वास्तु^३ स्यादुत्तरद्वारं गृहं पूर्वांमुखं तथा^४ ।
शूद्रस्य कर्मवृत्तिं^५स्तु धनधान्यैर्विवर्धते^६ ॥ ९ ॥
एकस्यामपि शालायां चत्वारः संप्रकीर्तिताः ।
निवेश्यै^७द्वारभागाश्च कथ्यन्ते च शुभाशुभाः ॥ १० ॥
उत्सङ्गो हीनबाहुश्च पूर्णबाहुस्तथापरः ।
प्रत्यक्षा^८यश्चतुर्थश्च निवेशः परिकीर्तितः ॥ ११ ॥
उत्सङ्ग §एवदीक्षाभ्यां(?) द्वाराणां वास्तुवेश्मनोः ।
स सौभाग्यप्रजावृद्धिधनधान्यजेयप्रदः ॥ १२ ॥
यत्र प्रवेशतो वास्तु(?)गृहं भवति वामतः ।
तद्धीनंबाहुकं वास्तु निन्दितं वास्तुचिन्तकैः ॥ १३ ॥
१ ख. ग. ‘स्ते’; द. आर्यस्ते वा निवेशनं । २ द. ‘मं’ । ३ द. °स्तुः । ४ द. य° ।
५ द. °त्तिस्तद्व° । ६ द. °ध्यते । ७ द. °श्यगद्वाराश्च; ख. ‘श्यगृहद्वाराश्च’ । ८ द. क्षेोयं°;
ख. ‘क्षो’ । ९ द. भ° । १० द. °नं ।
§ ‘एकदिक्काभ्यां द्वाराभ्याम्’ इति पाठः स्यात् ।
वा. २९
२२६ समराङ्गणसूत्रधारे
तस्मिन् वसन्नल्पवित्तः स्वल्पमित्रोऽल्पबान्धवः ।
स्त्रीजितश्च भवेन्नित्यं विविधव्याधिपीडितः ॥ १४ ॥
वास्तुप्रवेशं१तो यत् तु गृहं दक्षिणतो भवेत् ।
प्रदक्षिणप्रवेशत्वात् तद् विद्यात् पूर्णबाहुकम् ॥ १५ ॥
तत्र पुत्रांश्च पौत्रांश्च धनधान्यसुखानि च ।
प्राप्नुवन्ति नरा नित्यं वसन्तो वास्तुनि ध्रुवम् ॥ १६ ॥
गृहपृष्ठं समाश्रित्य वास्तुद्वारं यदा भवेत् ।
प्रत्यक्षाग्रस्तवसौ निन्द्यो वामावर्तप्रवेशवत् ॥ १७ ॥
ब्राह्मणो निवसेन्मुख्ये द्विनाम्नि क्षत्रियो वसेत् ।
वितथे निवसेद् वैश्यः शूद्रः२ सुग्रीवनामनि ॥ १८ ॥
एते वैशेषिकाः सर्वे वर्णानामनुपूर्वशः ।
वास्तुद्वारनिवेशाश्च वासैः सह निरूपिताः ॥ १९ ॥
यथोत्तरमथोच्यन्ते वर्णानां गृहकल्पनाः ।
†शूद्रविट्क्षत्रियाणां च राज्ञां च जयकाङ्क्षिणाम् ॥ २० ॥
सार्धात्रिभूमि३ शूद्राणां४ वेश्म कुर्याद् विभूतये ।
अतोऽधिकतरं यत् स्यात् तत् करोति कुलक्षयम्५ ॥ २१ ॥
वैश्यस्य वर्धयेद् गेहमर्धपञ्चमभूमिकम् ।
अतिप्रमाणे तत्रास्य धनबन्धुपरिक्षयः ॥ २२ ॥
क्षत्रियस्य गृहं कुर्यादर्धषष्ठतलं परम् ।
सम्पद्दलर्समृद्ध्यै६ तदतिरिक्तं तु तच्छिदे ॥ २३ ॥
परं विप्रस्य भवनमर्धसप्तमभूमिकम् ।
स्वाध्यायाचारभोगार्थमत्युच्चं तु भयावहम् ॥ २४ ॥
र्यजन्ते७ राजसूयाद्यैः ८ऋतुभिर्येऽवनीश्वराः ।
९तैलेरर्धाष्टमैस्तेषां कारयेद् भवनोत्तमम् ॥ २५ ॥
१ द. सितो यं तु; ख. ग. शि। २ द. शूद्रं सुं । ३ द. सार्द्धं त्रिभूमिश्शूद्रेण; ख. ग.
र्ध। ४ ख. ग. द्वेण वे। ५ द. क्षयः। ६ द. ॰समृद्धौ । ७ द. जयन्ते। ८ द. ऋ।
९ द. तैलेरद्धाष्टमेतेषां ।
† 'शूद्रविट्क्षत्रविप्राणां राज्ञाम्' इति पाठः स्यात्।
द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः । २२७
आहर्तुर्नेकयज्ञानां राजा राजाधिपश्च यः ।
तस्याप्यर्धाष्टमतलं भवनं सन्निवेशयेत् ॥ २६ ॥
वाजपेयेन वा यष्ट्वा यो द्विजः स्यात् समाहितः ।
गवां कोटि¹प्रदो यो वा सोऽपि तस्मिन् भवेद्भु²(द)भीः ॥ २७ ॥
यथाप्रमाणनिर्दिष्टे वसन्तस्ते नृपादयः ।
प्राप्नुवन्ति परामृद्धिमवृद्धिं तु विपर्यये ॥ २८ ॥
सपीठतलकं वेश्म मानतः संप्रकीर्तितम् ।
साधारणेन हस्तेन परं शूद्रस्य विंशतिः ॥ २९ ॥
चत्वारिंशद् विशः षष्टिः क्षत्रियस्य प्रशस्यते ।
अशीतिर्द्वि³जमुख्यस्य शतहस्ता महीपतेः ॥ ३० ॥
नातः परं नृणामूर्ध्वप्रमाणं शस्तमुच्यते ।
देवदानवदैत्यानां पिशाचोरगरक्षसाम् ॥ ३१ ॥
सिद्धगन्धर्वयक्षाणां विधातव्यमतोऽधिकम् ।
एकभौमादधो नैव गृहं शूद्रस्य विद्यते ॥ ३२ ॥
वैश्यस्य भवनं कार्यमधो नान्य(ध्य)र्धभूमिकात् ।
द्विभूमिकादधः कार्य क्षत्रियस्य न मन्दिरम् ॥ ३३ ॥
सार्धद्वि⁴भौमाद् विप्रस्य त्रितलादपि भूपतेः ।
हीनप्रमाणादमृतो गृहं यत् कुशिल्पिना स्याद् विहितं कथञ्चित् ।
भर्तुर्भिये ⁵सिद्धिविनाशनं तत् प्रशस्तं⁶शीलादिविपर्ययाय ॥ ३४ ॥
गुणदोषान् प्रवक्ष्यामि द्वाराणां सर्ववास्तुषु ।
सुस्थितं चतुरश्रं च कान्तं स्वद्रव्ययोजितम् ॥ ३५ ॥
ऋजुं⁷ स्वकीयदिग्भागे न ह्र⁸स्वं न तथोच्चकैः ।
नाल्पं न कुब्जं नाप्यनि( ?)पिण्डितं न बहिर्गतम् ॥ ३६ ॥
१ द. कोटिः प्रदेया वा; ख. ग. टिः प्रदेया वा । २ द. ख. ग. भवेद्भूमी । ३ ख. ग.
द. तिर्द्वयमु । ४ द. भू॰ । ५ द. ॰यै द्वित्रिवि; ख. ग. 'द्वित्रिवि' (?) । ६ द. ॰स्तलीला
च विप॰ । ७ ख. ग. जू । ८ द. ख. ग. स्वे ।
२२८ समराङ्गणसूत्रधारे
नाध्मातं न कृशं मध्ये गतं नान्तरकुक्षिषु ।
न विद्रुतं न संक्षिप्तं यत् तत् स्याद् द्वारमृद्धिदम् ॥ ३७ ॥
पदस्य द्वादशे भागे पदमध्यात् प्रदक्षिणम् ।
स्थापितं वृद्धिमायाति द्वारं पुष्टिं करोति च ॥ ३८ ॥
रथ्याचत्वरशृङ्गाटवापीकूपाह(?)कुम्भकैः ।
कुड्यकोणतरुस्तम्भैर्भावनंस्यन्दनादिभिः ॥ ३९ ॥
यद् विद्धं भवनद्वारं तच्छुभाय न जायते ।
द्वारं द्वारे प्रविष्टं च कर्तव्यं वितनेतन(?) ॥ ४० ॥
पेच्यां प्रवेशयेन्नैकामन्यद्वारे कदाचन ।
द्वारं प्रवेशयेत् पेच्यां नारोहणगवाक्षयोः ॥ ४१ ॥
पक्षद्वारस्य वा नैकां कथञ्चिदपि बुद्धिमान् ।
न बाह्यगान्तरे द्वारे प्रविष्टं कारयेत् क्वचित् ॥ ४२ ॥
विहितं हि तथा तत् स्याद् बहुदोषकरं सदा ।
तोरणं गोपुरद्वारंमट्टो येषां गृहे भवेत् ॥ ४३ ॥
गृहाणां मौलिकद्वारं श्रोत्रे चैतान् प्रवेशयेत् ।
द्वारं द्वारस्य कर्तव्यमुपर्य्युपरि भूमिषु ॥ ४४ ॥
प्रदक्षिणेन वा कार्यं कार्यं नापरथा पुनः ॥ ४५ ॥
उपर्युपरि भूमीनां मुखं कुर्यात् प्रदक्षिणम् ।
नापसव्येन कुर्वीत द्वारमारोहणानि च ॥ ४६ ॥
यस्यां भित्तौ कृतं पूर्वं तस्यामुपरि कारयेत् ।
तथान्यभित्तौ तद्द्वारं विधातव्यं प्रदक्षिणम् ॥ ४७ ॥
न मध्ये सद्मनो द्वारं कुर्यादेव पदस्य च ।
न स्थूले(?) न पदे नापि सिरापाते तदिष्यते ॥ ४८ ॥
निरंशावस्थितैर्द्रव्यैस्तिर्यक् का( क्रा)न्तैश्च मन्दिरे ।
मर्मवेधो न दोषाय द्वारवेधोऽथवा क्वचित् ॥ ४९ ॥
१ ख. ग. द. नो । २ ग. ऐन्द्यां प्र° । ३ ख. ग. नै । ४ ख. ग. रं पट्टो; ^८द. ^०द्वारं पट्टो ।
५ ग. य; ६ द. स्त ।
द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः । २२९
यवनाट्टालकच्छाया पुरंदैवकुलस्य च ।
न प्रवेश्या गृहद्वारे रश्मयः सोमसूर्ययोः ॥ ५० ॥
न प्राकारेण कुड्येन न विटङ्केन वा पुनः ।
अन्तर्हितानि दुष्यन्ति द्वारमर्माणि कुत्रचित् ॥ ५१ ॥
अत्युच्चे स्याद् भयं राज्ञो निम्ने तस्करतो भयम् ।
कुलपीडा भवेत् कुब्जे बहिर्याते पराभवः ॥ ५२ ॥
आध्मातेऽत्यन्तदारिद्र्यं³ कृशमध्ये क्षयो नृणाम् ।
रथ्याविद्धे भवेद् रोगो मरणं चत्वरेण च ॥ ५३ ॥
शृङ्गाटकेन वैधव्यं दुहितॄणां प्रजायते ।
वाप्या कूपेन वा विद्धे स्यादतीसारतो भयम् ॥ ५४ ॥
कोणान्मृत्युभयं दद्याद् वृक्षे रोगभयं भवेत् ।
स्तम्भेन म्रियते स्वामी भ्रमेणार्थो न तिष्ठति ॥ ५५ ॥
प्रणालेन महद् दुःखं महाभीतिर्महाकलिः ।
तस्मात् सर्वप्रयत्नेन द्वारवेधं विवर्जयेत् ॥ ५६ ॥
यस्याग्रतः पृष्ठतश्च द्वारे भित्त्योर्द्वयोरपि ।
अन्योन्यं भिद्यते यस्मिन्नैकगत्याश्रिते उभे ॥ ५७ ॥
वास्तु तद् भिन्नदेहाख्यं भिन्नस्वामिविधायकम् ।
न तत्र जायते वृद्धिः स्थापितस्य न कस्यचित् ॥ ५८ ॥
गृहकुक्षौ कृतं द्वारं सर्वरोगभयङ्करम् ।
पूर्वद्वारं तु माहेन्द्रं प्रशस्तं सर्वकामदम् ॥ ५९ ॥
गृहक्षतं तु विहितं दक्षिणेन शुभावहम् ।
गन्धर्वमथवा तत्र कर्तव्यं श्रेयसे त(स)दा ॥ ६० ॥
पश्चिमेन प्रशस्तं स्यात् पुष्पदन्तं जयावहम् ।
भल्लाटमुत्तरे द्वारं प्रशस्तं स्याद् गृहेशितुः ॥ ६१ ॥
१ ख. द. रा दे। २ द. भये राज्ञे°। ३ द. द्रं। ४ द. द्वेगो। ५ द. °त्रीणां ।
६ द. °न्या। ७ ख. ग. स्मिन्नेक। ८ द. रोगकरं भयं। ९ द. भव्याट°।
२३० समराङ्गणसूत्रधारे
एकाशीतिपदे तस्मिंश्चतुरश्रपदेऽपि वा ।
द्वारोऽप्य(प)दगास्तासां ब्रूमो वह्नयादितः फलम् ॥ ६२ ॥
हुताशभीतिः स्त्रीजन्म भूत्यर्थः प्रियता नृपे ।
क्रोधे चानृतता(?) पुंसः क्रौर्यं स्यात् पूर्ववत् क्रमात् ॥ ६३ ॥
सुतापि(प्ति)प्रैष्यनीचत्वे भक्ष्यौँनसूतर्द्धिकृत् ।
रौद्रं कृतघ्नमवसं याम्यतः सुतवीर्यहृत्(?) ॥ ६४ ॥
सुनोप्पीडा रिपुवृद्धिर्ऋथैसुतानवाप्तिँस्तनयार्थसम्पत् ।
स्वाप्तिर्नृशंसाद् भयमर्थनाश उक्तः क्रमादित्यपरोन्मुखेषु ॥ ६५ ॥
बन्धव्यसत्वे(?) रिपुवृद्धिर्ऋर्थसुताप्तिरग्र्या गुणसम्पदश्च ।
सुतार्थलब्धिर्द्विर्षयात्मजेन दोषास्त्रिया नैर्ऋतं दिङ्मुखेषु ॥ ६६ ॥
गुणाश्च दोषाश्च यथावदेते निरूपिता द्वारसमाश्रिता ये ।
तान् शिल्पविच्छास्त्रविदां वरिष्ठो विज्ञाय पूज्यत्वमुपैति लोके ॥६७॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
"द्वारगुणदोषो नाम एकोनचत्वारिंशोऽध्यायः ॥
अथ पीठमानं नाम चत्वारिंशोऽध्यायः ।
देवानां मनुजानां च पीठर्मोनमथोच्यते ।
पीठं कैनीयो भागं च सार्धभागं तु मध्यमम् ॥ १ ॥
द्विभागमुत्तमं तत् स्यादेषा पीठसमुच्छ्रितिः ।
महेश्वरस्य विष्णोश्च ब्रह्मणश्चोत्तमं भवेत् ॥ २ ॥
इतरेषां च देवानां कर्तव्यं तन्न धीमता ।
ईश्वरस्य यथाकामं पीठं कार्यं विचक्षणैः ॥ ३ ॥
१ द. °र्हितः । २ ख. ग. वा; द. प्रिय वा । ३ ख. वा । ४ द. ग. पा । ५ ख. ग.
र्थं । ६ ख. ग. द. र्थि । ७ द. ब्धे° । ८ द. दोषास्त्रियानैर्धातश्चङ्मुखेषु । ९ ख. ग. तश्चङ् ।
१० द. त्नि । ११ द. द्वारगुणदोषाध्यायो नामैकोन चत्वारिंशः । १२ द. नयति मानमथोंच्यते ।
१३ द. कर्नयो भागेन ।
पीठमानं नाम चत्वारिंशोऽध्यायः । २३१
यस्मिन् स्थाने विधातव्यो ब्रह्मा विष्णुस्तथैव च ।
ईश्वरः सर्वतः कार्यों न दोषस्तत्र विद्यते ॥ ४ ॥
इतरेषां तु देवानां पीठं भागं समुच्छ्रितम्¹ ।
यस्य येन विभागेन वास्तुमानं विधीयते ॥ ५ ॥
तस्य तेनैव भागेन पीठोच्छ्रायो विधीयते ।
मनुजानां च पीठानि वेश्मनां² देवपीठकैः³ । ६ ॥
तुल्यानि कुर्यादुपरी कृता वृद्धिकराः सुराः ।
पुरमध्ये तु कर्तव्यं ब्रह्मणो गृहमुत्तमम् ॥ ७ ॥
चतुर्मुखं च तत् कार्यं⁴ यथा पश्यति तत् पुरम् ।
अधिकं सर्ववेश्मभ्यस्तथा राजगृहादपि ॥ ८ ॥
राजवेश्माधिकंमपि शस्यतेऽन्यै⁵सुरालयात् ।
पञ्चमो लोकपालानां⁶ राजा श्रेष्ठतमो⁷ यतः ॥ ९ ॥
एवमेतानि देवानां पीठान्युक्तान्यशेषतः ।
चातुवर्ण्यस्य⁹ पीठानि ब्रूमो¹⁰ विप्राद्यनुक्रमात् ॥ १० ॥
षट्त्रिंशदङ्गुलोत्सेधं पीठं विप्रस्य शस्यते ।
इतरेषां तु वर्णानां¹¹ ह्रस्वं स्याच्चतुरङ्गुलम् ॥ ११ ॥
चातुर्वर्ण्यस्य पीठानि भुङ्क्ते विप्रो गृहाणि च ।
त्रयाणां¹² क्षत्रियो वैश्यो द्वयोः शूद्रः क्रमात् स्वकम् ॥ १२ ॥
एवं विभागं¹³ पीठानां स्थपतिः परिकल्पयेत् ।
हितं कारयितुर्वाञ्छन् नृपतेश्च समृद्धये ॥ १३ ॥
प्रमाणे स्थापिता देवाः पूजार्हाश्च¹⁴ भवन्ति हि ।
प्रमाणं पीठानामिदमभिहितं ब्रह्ममुरजि-¹⁵
त्पुरारीणामत्रापरदिविषदां यच्च नियतम् ।
१ द. समुद्धृतं । २ द. वेश्मानां । ३ ख. ग. ठके; द. के । ४ द. कर्माय । ५ द. ना.
६ द. पालानां । ७ द. स्तस्तुतमो । ८ द. पंच । ९ द. चतुर्वर्णस्य । १० द. ब्रह्मो । ११ द. वर्णा
सु; ख. ग. र्णामु पी । १२ द. ख. ग. णामन्यजातीनां गृहं शूद्रकमाश्रकम् । १३ द. ग ।
१४ द. पूजायाश्च......हि । १५ द. सु ।
२३२ समराङ्गणसूत्रधारे
ततो विप्रादीनामपि निगदितं यत् तदखिलं
यथौचित्याद्योज्यं श्रियमभिलषद्भिः स्थपतिभिः ॥ १४ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
पीठमानं नाम चत्वारिंशोऽध्यायः ॥
अथ चयविधिर्नामैकचत्वारिंशोऽध्यायः ।
इदानीमभिधीयन्ते चयस्येह गुणागुणाः ।
सुविभक्तः समश्चारुश्चतुरश्रश्चयः शुभः ॥ १ ॥
असंक्रान्तमसन्दिग्धमविनाश्यैन्त्यबर्हितम् ।
अनुत्तंममनुद्वृत्तमकुब्जं न च पीडितम् ॥ २ ॥
समानखण्डमृज्वन्तमन्तरङ्गं तथैव च ।
सुपार्श्वं सन्धिसुश्लिष्टं सुप्रतिष्ठं सुसन्धि च ॥ ३ ॥
अर्जिह्मं चेति चेयस्य गुणा विंशतिरित्थमी ।
एतेषां वैपरीत्येन दोषाणामपि विंशतिः ॥ ४ ॥
दक्षिणं तु यदा कुड्यं विचिनोति बहिर्मुखम् ।
तदा व्याधिभयं विद्यान्मृत्युदण्डं च निर्दिशेत् ॥ ५ ॥
पश्चिमं तु यदा कुड्यं विचिन्वन्ति बहिर्मुखम् ।
धनहानिं तदा विद्याद् दस्युभ्यैश्च भयं भवेत् ॥ ६ ॥
उत्तरं तु यदा कुड्यं विचिनोति बहिर्मुखम् ।
कर्तारं स्वामिनं वापि व्यसनं प्रापयेत् तदा ॥ ७ ॥
प्राच्यं बहिर्मुखं कुड्यं चिनोति स्थपतिर्यदा ।
राजदण्डभयं तत्र निर्देष्टव्यं विचक्षणैः ॥ ८ ॥
१ द. यथोचित्यायोज्यं; ख. ग. यथौ । २ ख. ग. 'त्यायोज्यं । ३ द. पीठाध्यायो नाम
चत्वारिंशः ॥ छ ॥ ४ क. शुभ्रश्चयः । ५ ख. द. नाश्यं च गर्हितं; ग. शं च ग । ६ ख. ग.
मत्तम्; द. अनुमत्तममुद्वृत्तकु । ७ क. ष्ठु । ८ द. अवि । ९ द. वेद्यस्य । १० क. नि ११ द.
विं° । १२ क. भि । १३ द निर्दिश्टं विचक्षणैः ।
चयविधिर्नामैकचत्वारिंशोऽध्यायः । २३३
एतदेव फलं ब्रूयात् पतिते दलिते तथा॑ ।
यस्य प्राग्दक्षिणः कर्णः प्रवर्तेत बहिर्मुखः ॥ ९ ॥
स्यात् तत्राग्निभयं घोरं गृहभर्तुश्च संशयः ।
गच्छेद् बहिर्मुखः कर्णो यदा दक्षिणपश्चिमः ॥ १० ॥
कलहोपद्रवस्तत्र स्याद् भार्यायाश्च संशयः ।
पश्चिमोत्तरकर्णे तु सम्प्रयाते बहिर्मुखे॑ ॥ ११ ॥
पशुवाहनपुत्राणां संशयस्तत्र जायते ।
प्रागुत्तरो यदा कर्णः प्रचीयेत बहिर्मुखः ॥ १२ ॥
गुरूणां संशयस्तत्र गोवृषादेश्च जायते ।
विशालं यदि जायेत सर्वबाहुषु चिन्वतः ॥ १३ ॥
कर्णिकासमसंस्थानं तँद् भवेन्मल्लिकाकृति ।
ⁿन तादृशो भवेदायस्तत्र यादृग् व्ययो भवेत् ॥ १४ ॥
चयस्य तस्य दोषेण गृह(ही)क्षीर्णः पलायते ।
चिन्वतो यदि संक्षिप्तमत्यर्थं तत्र जायते ॥ १५ ॥
ब्रह्मसंज्ञं तदुद्दिष्टं तत्र राजभयं भवेत् ।
विस्तृतं यदि र्बाहेषु संक्षिप्तं चैव मध्यतः ॥ १६ ॥
तनुमध्यं तदुद्दिष्टं तत्र विद्यात् क्षुधो भयम् ।
उच्छ्रितं यदि कर्णेषु परिहीणं च मध्यतः ॥ १७ ॥
निर्णीतं नाम तद् विद्यात् तत्र चौरभयं भवेत् ।
कर्णेषु परिहीणं चेदुच्छ्रितं चापि मध्यतः ॥ १८ ॥
कूर्मोन्नतमिति ज्ञेयं सर्वदोषभयावहम् ।
विषमोन्नतकर्णेषु निर्दिशेद् द्रविणंक्षयम् ॥ १९ ॥
प्राज्यान्नपानं॑ तद् विद्यात् समेषु विहितेषु च ।
इत्येते चीयमानस्य गुणदोषाः प्रकीर्तिताः ॥ २० ॥
१ द. पत्ये तदखिले तथा । २ क. दा । ३ द. कर्ना । ४ द. खः । ५ क. य । ६ द. सतो-
र्दाद्विभ्रं । ७ द. गृहक्षीणे; ख. ग. णे । ८ क. ख. ग. द. वा तेषु । ९ क. ख. ग. र्न । १० द. णं ।
११ द. ंतं ।
वा. ३०
२३४ समराङ्गणसूत्रधारे ।
तस्मात् सर्वप्रयत्नेन चयकर्म प्रयोजयेत् ।
उदकेन समं नीत्वा सम्यङ्निश्चयकारणम् ॥ २१ ॥
तत्रा(स्मा)हते न चान्यत् स्यान्निश्चयार्थं चेयस्य च ।
तस्माज्जलेन वलयं गृह्णीयात् पूर्वमाहतः ॥ २२ ॥
ततः सुताडिते सूत्रे चयं कुर्याद् विचक्षणः ।
द्विगुणां क्षेत्रमानस्य रज्जुं कृत्वा तदन्तयोः ॥ २३ ॥
याँऽसौ(?) कार्यौ ततस्तस्यां पादोनक्षेत्रमानतः ।
दद्यान्निरुच्छ्रनं कीलौ क्षेत्रगर्भान्तगामिनौ ॥ २४ ॥
निघायौर्याः(य)सकौ तस्याः प्रान्तस्थौ योजयेत् तयोः ।
निरुच्छनाभिकृष्टायां पादोनक्षेत्रसंमितम् ॥ २५ ॥
भुजर्गेत्या भवेद् रज्जुस्तस्यामिष्टानुमानतः ।
चिह्नं दद्यात् स कर्णः स्यादेवं दोषान् प्रसाधयेत् ॥ २६ ॥
भूरि नौच्छादनं दद्यान्न भिन्द्यात् तत्र चेष्टकाः ।
विषमस्थाः कुठारेण छिंत्त्वा ताः कल्पयेत् समाः ॥ २७ ॥
यथा न च स्पृशेत् सूत्रं विचिन्वीत तथा बुधः ।
कुड्ये च सादिमध्यान्ते द्विष्टमेकां निर्पातयेत् ॥ २८ ॥
यदा सर्वपरिक्रान्तं तलं चोद्घाटितं भवेत् ।
तदा नैकत्र कुर्वीत पर्यायेण विचक्षणः ॥ २९ ॥
उद्घाटनं स्तैराणां(?) तु यदीच्छेत् सिद्धिमात्मनः ।
तत्र तत्र चयं कुर्याद् यदि संविद्धकं हितैम् ॥ ३० ॥
दुर्वहं हि भवेत् तेन तस्मात् तत् परिवर्जयेत् ।
उपरिष्टात् समं पार्श्वे भुंजं कुर्याद् विचक्षणः ॥ ३१ ॥
१ द. ताभ्यान्स°। २ द. यायार्यवस्य च। ३ द. णं। ४ द. यासौ कार्यो; ख. ग. या।
५ द. स्या। ६ क. र; द. °च्छनं । ७ द. तैः । ८ क. यामकौ । ९ द. स्था। १० क. ष्णा ।
११ ख. ग. ‘त:’; द. °म्मितः । १२ ख. ग. ङ्ग; द. भुर्जं° । १३ ख. ग. द. न। १४ ख. द. °मा।
१५ द. चिन्वान कल्पयेद्धिमाः ॥ १६ द. विचिन्वति । १७ द. द्वि ष्टमेकानियोजयेत् ; ख. ग. 'द्विष्ठये' ।
१८ ख. ग. योजये । १९ द. °कांततलावा घटितं भवेत् ॥ २० ख. द. न° । २१ द. दि ।
२२ द. हि तत् ॥ २३ द. दुर्बलं; ख. ग. दुर्बलं हि । २४ ख. ग. द. भयं कु° ।
शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः । २३५
समन्ताद् रुचकच्छिन्नश्चयो भित्तिषु पूजितः ।
तस्मात् प्रयत्नः कर्तव्यश्चयकर्मणि नित्यशः ॥ ३२ ॥
इति भाषितरूपितमाचरनश्चयकर्म यथाविधि शिल्पिंकृतम् ।
भवतीह यशो भुवने विततं गृहभर्तुरपि प्रचुरो विभवः ॥ ३३ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
चयविधिर्नामैकचत्वारिंशोऽध्यायः ॥
अथ शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः ।
इदानीमभिधास्यामो विधानं शान्तिकर्मणः ।
यथावद्दिष्ट्वाँ दिक्पालान् हुत्वॉ शान्तीर्यथाक्रमम् ॥ १ ॥
स्नपयेत् कर्णिकां कुम्भैः सहिरणयैर्विचक्षणः ।
सर्वगन्धानुलिप्तां च माल्यदामविभूषिताम् ॥ २ ॥
कृतमाल्यानिवसितां(?) मूले च मधुलेपिताम्।
दोषप्रशमनार्थाय तां मूलेषु निखातयेत् ॥ ३ ॥
मधुकुम्भमरिष्टं च शेवालं च विधानवित् ।
वाचयित्वा तुं विप्रेन्द्रान् कृतपुण्याहमङ्गलान् ॥ ४ ॥
स्थापयेत् कर्णिकाः सर्वाः स्थपतिः प्रयततः शुचिः ।
एतेन विधिना कर्म चातुर्वर्ण्यस्य कारयेत् ॥ ५ ॥
कर्णिका रोपिता यत्र पुनरुत्पाट्य रोप्य॑ते ।
न तन्निष्पद्यते वेश्म स्वामी चात्र विनश्यति ॥ ६ ॥
निखातं तु यदा दारु च्छिद्यते ताड्यते पुनः ।
तन्नाशो धनधान्यस्य स्वामिनश्चात्र सर्वथा ॥ ७ ॥
१ क. दु + क; ग. द्वचक। २ द. भाषानिरूपितनारतश्च ...यथाविधिः। मूल्यं ।
३ द. ष्ट्वा । ४ द. हं । ५ ख. ग. का । ६ द. ˚ता । ७ क. स; द. तां । ८ द. लेषिता।
९ ख. ग. द. च । १० द. रोपिते । ११ द. निखनितं यदा दारुच्छिद्येत्येत्याद्य तत्पुनः ।
२३६ समराङ्गणसूत्रधारे
वल्लीनिपीडितं दारु प्रवेशे चेन्निखन्यते ।
आशीविषभयं घोरं तस्मिन्नुत्पातलक्षणम् ॥ ८ ॥
उत्थाने कर्णिका रक्ष्या सर्वसत्त्वाभिधर्षणात् ।
नवे कर्मण्यशकुना मृगव्यालयसरीसृपाः ॥ ९ ॥
कर्णिकामधिरोहन्ति दोषांस्तत्र वदेदमून् ।
कृतापीडां परिहृतां यद्यारोहन्ति वायसाः ॥ १० ॥
गृहिणस्तत् प्रवासः स्यादन्नं³ पानं च हीयते ।
मयूरे तद्गृहं राजा हरेत् पश्चाब्दतः परम् ॥ ११ ॥
वराङ्गे⁴ जायते व्याधिः कोकिलैर्द्व्यब्दतः परम् ।
काकोलैस्त्रीणि वर्षाणि जायते सुमहद् भयम् ॥ १२ ॥
शुके स्युः कलहार्थांनि न च निष्पद्यते गृहम् ।
कुक्कुटेऽग्निभयं विद्याद् राजतो वा महद् भयम् ॥ १३ ॥
सारिकायां तु दौःशील्यं स्त्रीणां गृहपतेस्तथा ।
सर्परूपेतं(तु) विघ्नेन गृहं निष्ठां न गच्छति ॥ १४ ॥
स्त्रीपुंसयोः कुलिङ्गे तु जायते पापकारिता ।
पारावते तु जायेते स्त्रीपुंसौ गुरुतल्पगौ ॥ १५ ॥
विडाले¹⁰ तुं कुलं दासैः सह रोगैर्निपीड्यते ।
ज्वलनो वा जलं¹² वापि हस्ती वा हन्ति तद्गृहम् ॥ १६ ॥
आरण्यैः शकुनैरेतत् स्याद्¹³ वर्षाद् धर्षणे फलम् ।
यूनां¹⁴ च जायते मृत्युर्मध्वासङ्गे¹⁵ धनक्षयः ॥ १७ ॥
दुःखप्रदर्शनं घूके¹⁶ बालानां मरणं तथा ।
त्रस्तभीते निलीने तु राजा शून्यं हरेद् गृहम् ॥ १८ ॥
१ द. लां । २ द. ॰हति वायसः । ३ द. ॰न्नपानं । ४ द. वरांगे यायितोव्याधि कोकिलैद्वन्त्रिितः
परं । ५ ख. ग. र्द्धां । ६ ख. ज्यानि; द. सुकेसकलङ्गज्यानिः सं च निष्पद्यते गृहं । ७ क. सर्पं ।
८ क. न । ९ द. ॰पते । १० द. ते । ११ द. ज्व । १२ द. णैः । १३ द. स्या । १४ ग. नृणां ज ।
१५ द. ॰गंथा॰ । १६ द. एके ।
शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः । २३७
यदा त्वग्रे प्रदृश्येत धूम्रः कर्णगतोऽपि वा ।
अग्निर्दहति तत् क्षिप्रं विद्युद् वा हन्ति मन्दिरम् ॥ १९ ॥
यत्रारोहति गृध्रस्तद् द्विजाङ्घ्रिस्पृष्टमाचरेत् ।
कृत्वा हलशतैः कृष्टं ततो बीजानि वापयेत् ॥ २० ॥
गावश्चात्र प्रदुह्येरन् शान्तिकानि च कारयेत् ।
मेघेऽभिंवृष्टे भूयोऽपि तत्र कुर्वीत मन्दिरम् ॥ २१ ॥
येषु येषु गृहाङ्गेषु मधुनः सञ्चयो भवेत् ।
तस्याङ्गस्य वधं ब्रूयात् प्रेषिण्यां चाप्युपद्रवम् ॥ २२ ॥
तस्माद्धेतोः शिखाग्रेषु मुकुटान् प्रणिधापयेत् ।
यावन्न रोपयेत् सौम्यं तावद् रक्षेत् समन्ततः ॥ २३ ॥
अभिलीनं तु शकुनैर्नहि किञ्चित् प्रशस्यते ।
तस्मात् प्रयत्नतो रक्षेदुत्पातात् प्रागुदीरितात् ॥ २४ ॥
भङ्गे गृहाणां दारूणां शान्तिहोमोऽथ कथ्यते ।
इन्द्रकीलो महाकूटः पृष्ठवंशोत्तरा धरौ ॥ २५ ॥
प्रग्रहो(?)ऽलिन्दपादौ वा स्वामिनं घ्नन्त्युपद्रवाः ।
तुलास्थपत्यः(?) कूटं वा वेदिका कर्णपालिकाँ ॥ २६ ॥
नेत्रं कपोतपालिश्च हनप्रविष्टं कुटुम्बिनीं(?)
अन्वग्राः पैक्षि(क्ष)वंशाश्च मल्लकाः सकुमारकाः ॥ २७ ॥
गोपानस्यो मृगाल्यश्च स्थपिताः स्वकुमारिकाः(?) ।
परिघा द्वारपक्षाश्च भ्रातरं घ्नन्त्युपद्रवाः ॥ २८ ॥
संयुक्तं सङ्ग्रहो हन्ति निकृष्टांश्चाधरो धरः ।
स्थौण्यानि प्रतिमोको वा हन्युरिष्टान् परिच्छदान् ॥ २९ ॥
१ क. हि; द. जांहिं । २ द. मेधाँ । ३ ख. ग. क्षेन् प्रातान्; द. त् प्रातान्
प्रागुदाह्रतान् । ४ ख. ग. दाह्रतान् । ५ द. ंतरोवधैः; ख. ग. 'व' । ६ द. प्रग्रहो लिंगपादो वा ।
७ ख. ग. द. ंकाः । ८ ख. ग. द. िरिं । ९ क. ट । १० द. र्नी । ११ द. यज्ववंशश्च; ख. ग.
मञ्चवं । १२ द. ंस्यौ । १३ द. ता । १४ द. का ।
२३८ समराङ्गणसूत्रधारे
उद(प)¹धिर्भगिनीं हन्यादथवा परिचारकान् ।
पुंसां पुन्नामभिर्द्रव्यैः स्त्रीणां ²स्त्रीन(नाम)भिर्भवेत् ॥ ३० ॥
उपघातो हतैर्नित्यं द्रव्याणां तु नपुंसकैः ।
³भौलिका स्त्रीविनाशाय गृहनाशाय वे⁴र्धनम् ॥ ३१ ॥
कीला वा सन्धिपा⁵लिर्वा मित्रनाशाय दुष्यति ।
नवे गृहे नवं दारु क्रियमाणमथो कृतम् ॥ ३२ ॥
आयोज्यमानं युक्तं वां⁶ न्यूनसंवत्सरं स्थितम् ।
भज्यते देहनाशाय स्फुटत्य⁷थ विभज्यते ॥ ३३ ॥
गृहं ब्राह्मणसात् कृत्वा रवैरालिख्य चापरम् ।
नवैर्वस्त्रैः परिच्छाद्य पुनर्भि⁸द्यानि(?)कारयेत् ॥ ३४ ॥
दग्धे भिन्ने प्रचलिते विनते विद्युता हते ।
विरूढे दलिते सन्ने सर्वत्रौषधिभिः स्मृतौः ॥ ३५ ॥
शान्तयो विविधं हुत्वा ब्राह्म¹¹णान् स्वस्ति वाच्य वा ।
स्थूणिका भज्यते यस्य कीर्त्तिस्तस्योपहन्यते ॥ ३६ ॥
चन्द्रसूर्यौ यजेतं¹² तत्र ततः शाम्यति पातकम् ।
तद्विधं वृक्षमानीय पुनस्तां प्रति कारयेत् ॥ ३७ ॥
एवं कृ¹³ते सुखी स स्यात् कीर्त्तिश्चायुर्ध्रुवा भवेत् ।
मल्लुको भ¹⁴ज्यते य¹⁵स्य पौरुषं तस्य हन्यते ॥ ३८ ॥
इष्टानभसनक्षत्रं(?)प्रायश्चित्तं समाचरेत् ।
तद्विधं वृक्षमानीय प्रति कुर्वीत मल्लुकम् ॥ ३९ ॥
एवं कृत्वा सुखी स स्याद् ब¹⁶लं चास्याभिवर्धते ।
पृष्ठवंशस्य भङ्गेन गृही बन्धमवाप्नुयात् ॥ ४० ॥
१ द. उधिर्भग्निहिन्या च दथवा; क. धिर्भगिना, ख. ग. 'भगिनि ह'। २ द. स्त्रीणां स्त्रीनामभि-
र्भवेत् । ३ ख. द. चू । ४ द. वैधनं । ५ द. ले । ६ ख. स्यान्न्यू । ७ ख. ग. न्य;
द. स्फुटंत्यथ विभुज्यते । ८ द. ंच मेयंति तु कां; ख. ग. च भेयति तु कार । ९ द. भग्ने; ख. ग.
क्तनै । १० द. तः । ११ द. ण । १२ द. यजस्त्र । १३ द. कृतमुर्खा सस्या । १४ क. भु ।
१५ द. यस्य तस्य पुरुषोपहन्यते; ख. ग. स्य तस्य पुरुषोऽपहन्य । १६ द. ख. ग. स्याद्दनं चां । .
शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः । २३९
राजराजं यजेत् तत्र प्रायश्चित्तं तथाचरेत् ।
सुखी भवति तत् कृत्वा सर्वतश्चाभिवर्धते ॥ ४१ ॥
सर्वेषु स्वस्ति वाच्याश्च ब्राह्मणा दक्षिणाक्षतैः ।
वारणो¹ भज्यते यस्तु ज्येष्ठं पुत्रं स वोज्य(बाध)ते² ॥ ४२ ॥
पृथ्वीधरं³ यजेत् तत्र प्रायश्चित्तं तथाचरेत्⁴ ।
तद्विधं वृक्षमानीय पुनस्तं प्रति कारयेत् ॥ ४३ ॥
सुखी भवति कृत्वैवं पुत्रैश्चापि विवर्धते ।
संग्रहो भज्यते यस्तु कुलज्येष्ठं स वार्ध(बाध)ते ॥ ४४ ॥
पितॄनं देवान् यजेत् तत्र प्रायश्चित्तं तथाचरेत्⁵ ।
सुखी भवति कृत्वैवं प्रीयन्ते पितरस्तथा ॥ ४५ ॥
स्थूण्यं तु भज्यते यस्य तनयस्तस्य बाध्यते ।
देवानेव यजेत् तत्र प्रायश्चित्तं तथाचरेत् ॥ ४६ ॥
तद्विधं वृक्षमानीय तत् स्थौण्यं प्रति कारयेत् ।
सुखी भवति कृत्वैवं पुत्रैश्चापि विवर्धने⁶ ॥ ४७ ॥
उपधी व्यथते यत्र तत्रामात्यो⁷ विनश्यति ।
यजेत वासवं⁸ तत्र प्रायश्चित्तं तथाचरेत् ॥ ४८ ॥
आनीय तद्विधं⁹ वृक्षमुपधिं प्रति कारयेत् ।
एवं कृते¹⁰ भवेत् सौख्यममात्यैश्च विवर्धते¹¹ ॥ ४९ ॥
कायस्तु व्यथते यस्यै¹² प्रेष्यैस्तस्योपहन्यते ।
यक्षं तत्र यजेद्¹⁴ देवं¹³ प्रायश्चित्तं तथाचरेत्¹⁵ ॥ ५० ॥
तद्विधं काष्ठं¹⁶मानीय कायं तं प्रति कारयेत् ।
एवं कृते सुखी स स्यात् प्रेष्यैरपि विवर्धते ॥ ५१ ॥
तुला तु व्यथते यस्य व्यथतेऽस्य कुटुम्बिनी ।
यजेत मेदिनीं तत्र प्रायश्चित्तं तथाचरेत् ॥ ५२ ॥
१ ख. ग. ता । २ द. ग. स पाल्यते; ख. चाल्यते । ३ द. ॰रं जये तत्र । ४ क. समाच ।
५ द. पित्रिदेवा त्यजे तत्र । ६ द. ते । ७ द. त त्र मातौ विं० । ८ द. वे । ९ द. तद्विवत् ।
१० द. त्वे । ११ क. वर्धयेन् । १२ ख. ग. म्याः प्रेष्यस्त । १३ द. ॰षं० । १४ द. जयेद्देव । १५ द.
च तथा० । १६ द. केषु ।